________________
छन्दोदर्शनम
अन्वयभाष्यम्। सोऽयं ज्योतिरात्मा अग्निः पृथिवीः तिस्रः त्रिसङ्ख्याकाः, “तिस्रः पृथिवीरुपरि प्रवा दिवः" इति निर्देशात् लभ्यते (ऋ. मं १ - ३४-८), त्रीन् लोकान् प्रति अतते सातत्येन गच्छति कालपरिमाणतः, ताः परितः गच्छति, देशपरिमाणतः, ता. अजस्त्रं निरन्तरं प्रणयति सञ्चालयति स्वेन ज्योतिषा प्रेरयतीति यावत्, तेन तल्लोकत्रयं स्वं स्वकीयं भावयति साक्षादग्निमेव कुरुते, तेजसा परितप्तमयःपिण्डमिव सर्वमपि साक्षादग्निरूपमेव कर्तुं शक्नोति आत्मसात्करणतः इति अभिप्रायः, सोऽग्निः ज्योतिरात्मा चित: यज्ञादौ परिगृहीतः, तथा भौतिके पार्थिवे काष्ठादौ अरणिरूपे सगृहीतः स्व-स्वाभीष्टयज्ञ-पाकप्रकाशादिसिध्यर्थमिति ॥
COMMENTARY-SUMMARY TRANSLATION
Agni in the form of Jyotirātmā, as mentioned in a Rk, “You flow through the three worlds" ( Rg. I-34-8), flows through and round the three worlds constantly and moves them. He inspires them to do so by his light. By the same light, he makes them his own, which means he makes them fiery, like a red hot ball of iron. He can do it by making them like himself. That Agni is Jyotirătmă. He is gathered in sacrifices as fuel. On the earth he is kindled with fuel etc., for sacrifice, cooking, light and so on, according to requirement.
द्वितीया ऋक् । अग्निरयं पुरुषः सन् प्रचेतनः पुरुषेष्वा सीदतीह पुरुष्वाध ॥ आविरभूत् सन्नेक एव बहुधा
सो अन्तरस्मासु धीभिः परीतश्चितः ॥२॥ पदपाठ :- अग्निः । अयं । पुरुषः । सन् । प्रऽचेतनः।
पुरुषेषु । आ । सीदति । इह । पुरुषु । अधि ।। आविः । अभूत् । सन् । एकः । एव । बहुधा | सः । अन्तरिति । अस्मासु । धीभिः । परि । इतः । चितः ॥
This Agni, as Purusha, is the activiser. He exists in all persons here. He is one only but manifests as many in myriad forms. He is inside us, surround.. ed by many means of knowledge and is known as such.