________________
त्रिलक्षणादिकदर्थनम् । तत्रैवेति नित्यत्वे एव । तत्रेति विपक्षे । लक्षणत्रयपञ्चकसद्भावादिति लक्षणत्रयं सौगतमते, लक्षणपञ्चकं यौगमते ॥१२॥
(टि.) त्रीणि पक्षेत्यादि । तेनेति योगेन। तल्लक्षणत्वेनेति हेतुलक्षणत्वेन । अतद्धर्म इति न पक्षधर्मः । शब्ढेऽनित्ये साध्ये चाक्षुपत्वात्-अयं हेतुः पक्षधर्मो न भवेत् । तत इति सपक्षात् शब्दं विहाय श्रावणत्वस्यापरस्य सपक्षस्याभावात् । तत्रैवेति शब्दनित्याचे । तत्रैति विपक्ष पयस्वति प्रदेशे । प्रत्यक्षेति नन्वनुमानेन यदि वाधा तदा प्रकरणसमः स्यात् । तद्वंदेवेति जलवदेव । ताभ्यामिति प्रत्यक्षागमाभ्याम् । न चायमिति योगसौगताभिप्रायः । निरपाय इति दुःखरहितो न ॥१२॥ एतदुपपादयन्ति
तस्य हेत्वाभासस्यापि संभवात् ॥१३॥ ६१ अनेन अतिव्याप्ति प्रागुक्तलक्षणस्याऽऽचख्युः । स श्यामः तत्पुत्रत्वात् प्रेक्ष्यमाणेतरतत्पुत्रवदित्यत्र समग्रतल्लक्षणवीक्षणेऽपि हेतुत्वाभावात् ।
६२ अत्र विपक्षे असत्त्वं निश्चितं नास्ति, न हि श्यामत्वासत्त्वे तत्पुत्रत्वेन अवश्यं निवर्तनीयमित्यत्र प्रमाणमस्तीति सौगतः । स एवं निश्चितान्यथानुपपत्तिमेव शब्दान्तरोपदेशेन शठः शरणीकरोतीति सैव भगवती लक्षणत्वेनास्तु ।
मेनु समर्थन. १२ ते
तिने त्यालासमा ५ सम 2. १३. ૬૧ આથી ઉક્ત બૌદ્ધ તથા યૌગ(નૈયાયિક)ના લક્ષણમાં અતિવ્યાપ્તિ જણાવી. તે આ પ્રમાણે—તે શ્યામ છે, તપુત્ર હોવાથી. એટલેકે તેને–મિત્રાને પુત્ર હોવાથી, જેવા કે તેના બીજા પુત્રો છે. આ હેતુમાં બૌદ્ધ અને નિયાચિક કથિત લક્ષણે સંપૂર્ણ હોવા છતાં તે હેતુ નથી.
$૨ બૌદ્ધ–ઉક્ત હેતુમાં ત્રિક્ષલણ નથી કારણકે તેને વિપક્ષમાં અભાવ નિશ્ચિત નથી. તે એટલા માટે કે “શ્યામત્વ ન હોય તે તત્યુત્રત્વ પણ ન હોય આ વ્યાપ્તિની સિદ્ધિમાં કઈ પ્રમાણ નથી આથી તે હેત્વાભાસ જ છે.
જેન–આ પ્રમાણે કહીને શઠ એવા તમે બીજા શબ્દોથી હેતુના લક્ષણ તરીકે નિશ્ચિતાન્યાનુપપત્તિનું જ શરણ સ્વીકાર્યું છે. માટે તે જ ભગવતી નિશ્ચિતાન્યથાનુપપત્તિ એક માત્ર હેતુનું લક્ષણ રહે.
(प.) अत्र विपक्षे इत्यादि परः । सागत इति सौगतो वदति । (टि०) अनेनातिव्याप्तिमित्यादि ॥ प्रागुक्तेति पूर्व यौग-ताथागताभ्यां प्रतिपादितस्य हेतोलक्षणत्रयस्य लक्षणपञ्चकस्य च । तल्लक्षणेति हेतुलक्षणविलोकनेपि। सैवेति निश्चितान्यथानुपपत्तिः ।
६३ यौगस्तु गर्जति-अनौपाधिकस्सम्बन्धो व्याप्तिः । न चायं तत्पुत्रत्वेऽस्ति । शाकाद्याहारपरिणामाद्युपधिनिबन्धनत्वात् । साधनाऽव्यापकः साध्येन समव्याप्तिकः किलोपाधिरभिधीयते । तथा चात्र शाकाद्याहारपरिणाम इति उपाधिसभावात् न तत्पुत्रत्वे