________________
५.५] क्षणभङ्गनिराकरणम् ।
२०७ ' (टि.) अस्येति अभावस्य । अनेनेति भभावेन । तत्रापीति मुद्गरादिवति नाशे । असाविति विनाशः । तत्संबन्धित्वेनेति घटादिसंबन्धितया । तदभ्युपेति विनाशाजीकारात् । मुद्गरस्तत्कारण, अभावः कार्य, तयोरेव सम्बन्धयोः, घटस्य किमपि न । तस्येति अभावस्य । कुटादीति संयोगसम्मतत्वे कुटादिना सहाभावोऽपि जायेत । अन्यथा संयोगहानिप्रसक्तिः । घटादिवसे तावदभाव उत्पद्यते न घटसत्त्वे । तत्कक्षीकारादिति अभावाङ्गीकारात् । अस्येति भभावस्य । अयोगत इति अघटनात् । वस्तूनामिति घटादिपदार्थानाम् । तं प्रतीति विनाश प्रति । अनपेक्षत्वमिति अहेतुकत्वम् ।
६९ तदेतदेतस्य समस्तमुत्पादेऽपि समानं पश्यतः प्रध्वंस एव पर्यनुयुञ्जानस्य लुप्तैकलोचनतामाविष्करोति । तथाहि-उत्पादहेतुरपि सत्स्वभावस्य, असत्स्वभावस्य वा भावस्योत्पादकः स्यात् ।। न सत्स्वभावस्य, तस्य कृतोपस्थायिताप्रसङ्गात् । नाप्यसत्स्वभावस्य, स्वभावस्यान्यथाकत्तुमशक्तेः, अभ्युपगमविरोधाच्च । न ह्यसत्स्वभावजन्योत्पादकत्वमिष्यते त्वया । अथानुत्पन्नस्यासत्त्वादुत्पन्नस्य सत्स्वभावत्वाव्यर्थों विकल्पयुगलोपन्यासपरिश्रम इति चेत् । नैवम् । नष्टेतरविकल्पापेक्षयाऽस्य नाशेऽपि तुल्यत्वात् ।
तथाच
"भावो भवत्स्वभावश्चेत् कृतमुत्पादहेतुभिः ।
अथाभवत्स्वभावोऽसौ कृतमुत्पादहेतुभिः ॥१॥"
तथाऽयमुत्पद्यमानाव्यतिरिक्तः, अव्यतिरिक्तो वा । तत्र जन्याव्यतिरिक्तोत्पादजनकत्वे न जन्यस्योत्पादः, जन्याव्यतिरिक्तत्वेनोत्पादस्य कस्यचिदयोगात् । न हि कथञ्चिद्भिन्नमुत्पादमन्तरेण तदेवोत्पद्यत इत्यपि वक्तुं शक्यते, किन्तु वस्त्विदमित्येव वक्तुं शक्यम् , नच तथा तदुत्पादः कथितः स्यात् । उत्पद्यमानाव्यतिरिक्तोत्पादजनकंतायां न तस्योत्पादः, तद्वदन्यस्यापि वा कथमसौ न भवेत् ? । तस्यैव संबन्धिनस्तस्य करणादिति चेत् । तदप्यवद्यम् । उत्पादेनापि साकं कार्यकारणभावादेस्त्वन्मतेन संबन्धस्यासंभवात् । तस्मान्नेयमीदग्विकल्पपरिकल्पजल्पाकता परिशीलनीया । 1 $૯ જેન–આ સમસ્ત કથન બૌદ્ધ સ્વયં ઉત્પત્તિમાં સમાનરૂપે જેતે હોવા છતાં માત્ર અભાવ વિષે જ તે પ્રશ્ન કરે છે, તેથી તે પોતાના એકાક્ષીપણાને જ પ્રગટ કરે છે, ઉત્પાદન વિષે પણ તેવા જ પ્રશ્ન થઈ શકે છે તે આ પ્રમાણેઉત્પત્તિને હેતુ પણ સસ્વભાવવાળા ભાવને ઉત્પાદક છે કે અસ્વભાવવાળા ભાવને ઉત્પાદક છે ? ઉત્પત્તિનો હેતુ સસ્વભાવવાળા પદાર્થને ઉત્પાદક છે એ ન મનાય, કારણ કે-કૃતને કરવાને-સિદ્ધિને સાધવાને પ્રસંગ આવશે. ઉત્પત્તિનો હેતુ અસસ્વભાવવાળા પદાર્થને ઉત્પાદક છે, એમ પણ નથી. કારણ - કે અસસ્વરૂપ સ્વભાવ અન્યથા કરે એ શક્ય નથી. અને વળી તેમ માનવામાં