________________
६. ५४] हेत्वाभासः।
२८१ ७ धर्मिस्वरूपविपरीतसाधनधर्मिविशेषविपरीतसाधनौ तु सौगतसंमतौ हेत्वाभासवेव न भवतः; साध्यस्वरूपविपर्ययसाधकस्यैव विरुद्धत्वेनाभिधानात् । अन्यथा समस्तानुमानोच्छेदापत्तिः । तथाहि-अनित्यः शब्दः कृतकत्वादिति हेतुरनित्यता साधयन्नपि यो यः कृतकः स शब्दो न भवति, यथा-घटः । यो यः कृतकः स श्रावणो न भवति । यथा-स एवेति धर्मिणः स्वरूपं विशेषं च वाधते एवेत्यहेतुः स्यात् , नचैवं युक्तमिति ॥५३॥
૬૭ સૌગતને માન્ય ધમી સ્વરૂપ વિપરીત સાધન અને “ધમી વિશેષ વિપરીત સાધન નામના બે હેવાભાસે તે બનતા જ નથી, કારણ કે, સાધ્યના સ્વરૂપથી વિપરીત (સાધ્યાભાવ)ને સાધનાર હેતુને જ વિરુદ્ધ હવાભાસ કહ્યો છે, અન્યથા સમસ્ત અનુમાનના ઉછેદન પ્રસંગ આવશે. તે આ પ્રમાણે-શબ્દ અનિત્ય છે, કૃતક હોવાથી. અહીં હેતુ અનિત્યતાને સાધે છે, એટલે કે, તે દરેક દાર્શનિકને મતે સહેતુ છે, છતાં પણ જે જે કૃતક હોય તે શબ્દ ન હોય, જેમકે, ઘટ, તથા જે જે કૃતક હોય તે શ્રાવણ ન હોય, જેમકે ઘટ; આ રીતે કૃતકત્વ હેતુ શબ્દરૂપ ધમીના સ્વરૂપ શખ્તત્વ અને તે જ ધમીના વિશેષ શ્રાવણને બાધ કરે જ છે. માટે તે પણ અહેતુ થઈ જશે. ૫૩
(पं०) सैव हि तुला प्रमाणं भवति, प्रमीयतेऽनयेति कृत्वा; सैव च प्रमेया भवति, यदा शुद्धाऽशुद्धा वेयमिति परीक्ष्यते । अन्यथेति अनयोरपि हेत्वाभासत्वे सति । तथाहीत्यादिना तावद् दर्शयति । स शब्दो न भवतीति धर्मिणो यत् स्वरूपं शब्दत्व तदेवेह विपरीतम् । यो यः कृतकः स श्रावणो न भवतीति धर्मिणो यो विशेषः श्रावणे लक्षणस्तद्विपरीत साधयति । स एवेति घटः। स्वरूपमिति शब्दत्वम् । विशेषमिति श्रावणत्वं विशेष चेत्यतोऽग्रे विपरीतमित्युन्नेयम् ॥५३॥ (टि०) अन्यथेति यदृच्छया विरुद्धत्वस्वीकारे । स एवेति घट एव ॥५३॥ अनैकान्तिकस्वरूपं प्ररूपयन्ति
यस्यान्यथानुपपत्तिः संदिह्यते सोऽनैकान्तिकः ॥५४॥
साध्यसद्भावे क्वचिद्धेतोर्विभावनात् क्वचित् तु तदभावेऽपि विभावनादन्यथानुपपत्तिः सन्दिग्धा भवति ॥५४॥
एतभेदसङ्ख्यामाख्यान्ति
स द्वेधा-निर्णीतविपक्षवृत्तिका सन्दिग्धविपक्षत्तिकश्च ॥५५॥ ६१ निर्णीता विपक्षे वृत्तिर्यस्य स तथा; सन्दिग्धा विपक्षे वृत्तिर्यस्य स
१ साधयत्येवे' इति पु१ प्रतौ मुद्रिते च, किन्तु स्याद्वादरत्नाकरानुरोधादत्र 'वाधते एवे. इति संमतम्-द० स्याद्वादरत्नाकर प्र० १०२३
३६