________________
६. ५७]
हेत्वाभासः।
૨૮૭
(१०) अत्र प्रत्यक्षत्वं द्रष्टव्यमिति योगिनः पुनः सर्वं प्रत्यक्षमेवेति । न मनसीति मूर्तत्वान्मनसः । असर्वगतद्रव्यपरिमाण मूर्तिः । मनो हि यदि सर्वगतं स्यात् , तदा पञ्चानामपीन्द्रियाणां युगपद्विपयोपलम्भः स्यात् । न च भवति । तस्मान्न सर्वगतं मनः, 'युगपद्ज्ञानानुत्पत्तिर्मनसो लिङ्गम्' न्यायसू० १. १. १६.] इति वचनात् । विपक्षकदेशवृत्तिरिति विपक्षा गुणादयः ।
नाकाशात्मस्विति आकाशविशेषगुणः शब्दः, आत्मविशेषगुणश्चैतन्यम् । प्राच्येत्यादिनैतदेव व्याचप्टे ।
(टि.) आप्यद्वयणुकादाविति अप्सम्बन्धि नोद्वयणुका न नयनविषयतामाविभ्रति । अयोग्य तेति अस्मदाद्यक्षगोचरत्वम् । यतो योगिज्ञानमप्रतिहतशक्ति द्वयणुकादावपि प्रसरमासादयति ।
न द्रव्याणीत्यादि ॥ अमूर्तत्वादिति वैशेषिकमते असर्वगतद्रव्यपरिणामं मूर्तिः । नाकाशात्मस्विति शब्दज्ञानयोः क्षणिकविशेषगुणयोस्तत्र सद्भावात् । पृथिवीति गन्धादयो हि पृथिव्यादीनां नित्यगुणा न क्षणिकाः ।
६१२ यश्च नित्यः शब्दः श्रावणत्वादित्यादि सपक्षविपक्षव्यावृत्तत्वेन संशयजनकत्वादसाधारणानैकान्तिकः सौगतैः समाख्यायते; नैप सूक्ष्मतामञ्चति; श्रावणत्वाद्धि शब्दस्य सर्वथैव नित्यत्वं यदि साध्यते तदाऽयं विरुद्ध एव हेतुः, कथञ्चिदनित्यत्वसाधनात् । प्राच्याश्रावणत्वस्वभावत्यागेनोत्तरश्रावणत्वस्वभावोत्पत्तेः कथश्चिदनित्यत्वमन्तरेण शब्देऽनुपपत्तेः । अथ कथञ्चिन्नित्यत्वमस्माच्छन्दे साध्यते तदाऽसौ सम्यग्घेतुरेव, कथञ्चिन्नित्यत्वेन सार्द्धमन्यथाऽनुपपत्तिसद्भावादिति नायमनैकान्तिकः ।
१२ 'शप नित्य छ, श्रवो द्रियना विषय डावाथी.'-२मा 'श्रावणत्व' इतना સપક્ષ (વ્યમાદિ) વિપક્ષ-(ઘટાદિમાં અભાવ હોવાથી સૌગતે આ હેતુને અસાધારણ અનિકાતિક કહે છે, પરંતુ તેમાં તેમની સૂક્ષ્મતા જણાતી નથી, કારણ કે, શબ્દની શ્રાવણુતાને કારણે જે શબ્દને સર્વથા નિત્ય સધાય તો એ શ્રાવણત્વ હેતુ વિરુદ્ધ જ છે, કારણ કે-આ હેતુ કથંચિત અનિત્યત્વને જ સાધનાર જ છે. કારણ કે-શબ્દ પિતાના પૂર્વકાલીન અશ્રાવણત્વસ્વભાવનો ત્યાગ કરે ત્યારે જ ઉત્તરકાલીન શ્રાવણત્વસ્વભાવ ઉત્પન્ન થાય છે, એટલે શબ્દ જે કર્થ. ચિત્ અનિત્ય ન હોય તે તે શ્રવણને વિષય બની શકતો નથી. અને જે શ્રાવપુત્વથી શબ્દમાં કથંચિત નિત્યત્વ સિદ્ધ કરવામાં આવે તો તે સમ્યગુ હતું જ છે, કારણ કે, તે શ્રાવણત્વ હેતુની વ્યાપ્તિ કથંચિત નિત્યત્વ સાથે છે, આથી તે અનૈકાતિક નથી.
(पं०) प्राच्याश्रावणत्वस्वभावपरित्यागेनेत्यादि । यावद्भाषावर्गणानिसर्गों न भवति तावदश्रावणस्वभावः। यदा च निसर्गो भवति तदोत्तरश्रावणत्वस्वभावः । शब्दश्चान्वयी इति भावः।
(टि०) यश्च नित्य इत्यादि। सपक्षविपक्षेति शब्दत्वं नाम कैश्चित् सपक्षत्वेनोपादीयते. तथापि शब्दाद्वैतवादी 'शब्दत्वसामान्यं न मन्यते। तन्मतेन शब्दत्वं सपक्षो नास्ति । अथ कथंचिदिति । अस्मात् श्रावणत्वाख्यहेतोः । असाविति हेतुः ।