Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 271
________________ ६. ५१ हेत्वाभासः। વળી, (વ્યધિકરણ હેતુને અસિદ્ધ માનવા જતાં) વ્યધિકરણ રૂપ જલચન્દ્ર નભચંદ્રને, અને કૃત્તિકેદય-શકાદય-(રોહિણદય)ને નમક કઈ રીતે થશે ? માટે વ્યધિકરણ નામને હેવાભાસ નથી. ૨૯ (५०) उच्यते इति जैनाचार्येण । (प.) तत्रेति पर्वतद्रव्ये । साध्याधिगमप्रयोजकसम्वन्धाभावादिति साध्यपरिज्ञानं प्रयोजकसम्बन्धाभावात् । न व्यभिचार्यादय इति न अनेकान्तिकादयः, तेषामप्यगमकत्वात् । पक्षान्यधर्मत्वाभिधानादिति अत्र पाठान्तरं पक्षधर्मत्वाभावादेव । स इति व्यधिकरणः । प्रतिपद्येति प्रतिभेदशक्त्या प्रतिपद्य । तत एवेति कृतकत्वात् तदिति अनित्यत्वम् । अनित्येनेति कृतकत्वं विनापि । शकटोदयस्येति रोहण्युदयस्य । __(टि.) व्यधिकरणादपीत्यादि ॥ अयमिति पित्रोर्ब्राह्मण्यादिति हेतुः ॥ तत्रेति पर्वते-अग्निमानयं पर्वतनितम्बः, पर्वतद्रव्यत्वात् ॥ तदपीति नटविटादौ ब्राह्मणपितृत्वं नास्तीत्यर्थः । तद्गमकमिति पुत्रे ब्राह्मण्यस्य ज्ञापकम् । प्रयोजके त अविनाभावरूपो हेतुः ॥ एतदिति वैयधिकरण्यम् । व्यभिचार्यादय इति आदिशब्दादकान्तिकादयः ॥ तस्मादिति पक्षाद्योऽन्यो धर्मों तस्य धर्मत्वं तदभिधानात् । स चेति व्यधिकरणः । प्रत्याचक्ष्महे इति निराकुर्महे, स गमकोपि भवत्यगमकोऽपि भवति । अथ प्रतिभेति प्रतिभया प्रज्ञया ऊहशक्त्या तर्कवलेन । अन्यथेति अन्यहेतूपादानेऽपि ॥ तत एवेति पटस्य कृतकत्वादेव । तदिति अनित्यत्वम् ॥ अयमपीति पटस्य कृतकत्वादित्यपि हेतुः ॥ तद्गमकत्वमिति तस्योपात्तस्यैव हेतोर्गमकत्वं ज्ञापकत्वम्, नान्यहेतूपादानं श्रेयःश्रियं श्रयति ॥ न च यस्मादित्यादि ॥ तस्मादिति पटस्य कृतकत्वात् । तदन्येनेति पटात् पृथग्भूतेन घटादिना । असाविति पटस्य कृतकत्वादिति हेतुः । व्यभिचारादिति पटस्य कृतकत्वे सत्यपि परमाण्वाकाशादीनामनित्यत्वमसिद्धम् । शकटेति रोहिण्युदयस्य । ६३० आश्रयासिद्धताऽपि न युक्ता । अस्ति सर्वज्ञः, चन्द्रोपरागादिज्ञानान्यथाऽनुपपत्तेरित्यादेरपि गमकत्वनिर्गयात् । कयमत्र सर्वज्ञधर्मिणः सिद्धिः ? इति चेत्, असिद्धिरपि कथमिति कथ्यताम् ? । प्रमाणागोचरत्वादस्येति चेत्, एवं तर्हि तवापि तसिद्धिः कथं स्यात् ? ननु को नाम सर्वधर्मिणमभ्यधात्, येनैष पर्यनुयोगः सोपयोगः स्यादिति चेत् । नैवम् , प्रमाणागोचरत्वादित्यतः सर्वज्ञो धर्मी न भवतीति सिपाधयिषितत्वात् । अन्यथेदमम्बरं प्रति निशिततरतरवारिव्यापारमाय भवेत् ॥३०॥ एवं चआश्रयासिद्धता तेऽनुमाने न चेत्, साऽनुमाने मदीये तदा किं भवेत् ।। आश्रयासिद्धता तेऽनुमानेऽस्ति चेत्, सानुमाने मदीये तदा किं भवेत् ॥ यदि त्वदीयानुमानेनाश्रयासिद्धिरस्ति तदा प्रकृतेऽप्यसो मा भूद् , धर्मिण उभयत्राप्यैक्यात्, अन्यस्यास्य प्रकृतानुपयोगित्वात् । अथास्ति तत्राश्रयासिद्धिः तदा बाधकाभावात् एषा कथं मदीयेऽनुमाने स्यादिति भावः ।

Loading...

Page Navigation
1 ... 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315