Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 287
________________ ६. ५२ हेत्वाभासः । २७५ (टि.) तदयुक्तमित्यादि । एकधर्मति एकत्वधङ्गिीकारे। धर्मान्तरेति अनेकव्यक्तिवर्तित्वाभावाङ्गोकारसंदर्शनमात्रपरायणत्वेन । अस्येति प्रसंगस्य मौलहेतोरिति प्रसंगो मौलं हेतुं निश्चाययतीत्यर्थः । सामान्यं सर्वथा एकं न भवति अनेकव्यक्तिवर्तित्वात् । तन्निश्चयेति वस्तुनिर्णायकत्वात् । अपरस्येति सर्वव्यक्तिव्यापकत्वलक्षणस्य । तद्भावस्येति आधेयभावस्य प्रतिनियतपदार्थाधेयत्वाभावस्य । अन्योऽन्येति परस्परभावाभावविरोधः । तद्विरुद्धमिति अनेकवृत्तित्वविरुद्धम् । विरोधस्यैक्यस्य सत्त्वात् । व्यापकं च निवर्तमान व्याप्यमादाय निवर्तते । न च तन्निवृत्तिरिति अनेकवृत्ति च निवृत्तिः । तालफलमिति "जातावेकवचनम्" इति वचनात् संपन्नो यव इति यथा ॥ अथ च बहुखण्डकृतत्वात् प्रचुरामपगतम् । अथ च स्थूलत्वादेकमपि धनभाजनगतमंशकल्पनयाऽनेकम् । मौलत्वं चेत्यादि ॥ अस्येति अनेकवृत्तित्वादिति हेतोः। तदपेक्षयेति हेत्वपेक्षया। अयमिति अनेकव्यक्तिवृत्तित्वाङ्गीकारात् । ननु यदीत्यादि । निश्चयाङ्गमिति वादिना प्रथमं वस्तुनिश्चायकमेव वाक्यं प्रथापथमुपानेतव्यं किमपरेणासत्प्रलापेन ? । अवधेयेति ग्राह्यवाक्यः । अस्येति प्रसंगस्य । तत्रेति अर्थनिश्चयेति तस्येति । हेतोः । विरुद्धति अनेकत्वधर्मारोपम् ॥५१॥ अधुना विरुद्धलक्षणमाचक्षतेसाध्यविपर्ययेणैव यस्यान्यथानुपपत्तिरध्यवसीयते स विरुद्धः ॥५२॥ यदा केनचित् साध्यविपर्ययेणाविनाभूतो हेतुः साध्याविनाभावभ्रान्त्या प्रयुज्यते तदाऽसौ विरुद्धो हेत्वाभासः ॥५२॥ વિરુદ્ધ હેત્વાભાસનું લક્ષણ સાધ્યથી વિપરીત પદાર્થ સાથે જે હેતુની અન્યથાનુપત્તિ-વ્યાપ્તિને નિશ્ચય થાય તે વિરુદ્ધહેવાભાસ છે. પ૨. g૧ સાધ્યથી વિપરીત પદાથે સાથે-સાધ્યાભાવ સાથે અવિનાભૂત–વ્યાસ હેતને જ્યારે સાધ્યની સાથે અવિનાભૂત છે, એવી ભ્રાન્તિથી પ્રયોગ કરાય ત્યારે તે વિરુદ્ધહેવાભાસ છે. ૫૨ (टि.) यदा केनचिदिति तार्किकेण ॥५२॥ अत्रोदाहरणम्-- यथा नित्य एव पुरुषोऽनित्य एव वा, प्रत्यभिज्ञानादिमत्त्वात् ॥५३॥ ३१ आदिशब्दात् स्मरणप्रमाणतदाभासादिग्रहः । $२ अयं च हेतुः प्राचि साध्ये साङ्ख्यादिभिराख्यातः । स्थिरैकस्वरूपपुरुषसाध्यविपरीतपरिणामिपुरुषेणैव व्याप्तत्वाविरुद्धः । तथाहि-यद्येष पुरुपः स्थिरैकस्वरूप एव, तदा सुपुप्ताद्यवस्थायामिव बाह्यार्थग्रहणादिरूपेण प्रवृत्त्यभावात् प्रत्यभिज्ञानादयः कदाचिन्न स्युः; तद्भावे वा स्थिरैकरूपत्वहानिः । अवस्थाभेदादयं व्यवहारः इत्यप्ययुक्तम् । तासामवस्थातुर्व्यतिरेकाव्यतिरेकविकल्पानुप १ एतदपे” इति मूले ।

Loading...

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315