________________
६८
.
सहचरहेतुसमर्थनम् ।
[३. ७६सहचरहेतोरपि स्वभाव-कार्य-कारणेपु नान्तर्भाव इति दर्शयन्ति
सहचारिणोः परस्परस्वरूपपरित्यागेन तादात्म्यानुपपत्तेः, सहोत्पादेन तदुत्पत्तिविपत्तेश्च सहचरहेतोरपि प्रोक्तेषु नानुप्रवेशः ॥७६ ॥
१ यदि हि सहसंचरणशीलयोर्वस्तुनोस्तादात्म्यं स्यात् , तदा परस्परपरिहारेण स्वरूपोपलम्भो न भवेत् । अथ तदुत्पत्तिः; तदा पौर्वापर्येणोत्पादप्रसङ्गात् सहो. त्पादो न स्यात् । न चैवम् । ततो नास्य प्रोक्तेपु स्वभाव-कार्य-कारणेष्वन्तर्भावः ॥७६॥
સહચર હેતુને પણ સ્વભાવ, કાય કે કારણ હેતુમાં સમાવેશ થતો નથી. એનું સમર્થન–
સહચરનું પરસ્પર સ્વરૂપ ભિન્ન ભિન્ન હેવાથી તેમાં તાદાય સંબંધ ઘટી શકતો નથી. વળી તેઓ એક સાથે જ ઉત્પન્ન થતા હોવાથી તદુત્પત્તિ પણ ઘટતી નથી. માટે સહચર હેતુને સ્વભાવ, કાર્ય કે કારણ હેતુમાં સમાवेशथत नथी. ७६.
S૧ સહચર-સાથે રહેનાર પદાર્થોને પરસ્પર તાદાત્મ્ય સંબંધ હોય તે તેઓ એક બીજાથી જુદા જણાય નહિ. તેવી જ રીતે તેઓને તદુત્પત્તિ સંબંધ હોય તે આગળ પાછળ ઉત્પત્તિને પ્રસંગ હોવાથી સહપત્તિ ન થાય. પરંતુ એ પ્રમાણે નથી. અર્થાત સહચર પદાર્થો પરસ્પર ભિન્ન રૂપવાળા છે અને સાથે ઉત્પન્ન થાય છે. માટે પૂર્વે કહેલા સ્વભાવ, કાર્ય કે કારણ હેતુમાં તેને સમાવેશ थत! नथी. ७६.
(प०) सहसंचरणशीलयोरिति अश्विनीकुमारयोरिव । पौर्वापर्येणोत्पादप्रसङ्गादिति नियतप्राकालभावि कारण नियतोत्तरकालभावि कार्यम् ॥७६॥
इदानीं मन्दमतिव्युत्पत्तिनिमित्तं साधर्म्य-वैधाभ्यां पञ्चावयवां व्याप्याविरुद्धोपलब्धिमुदाहरन्ति
ध्वनिः परिणतिमान् , प्रयत्नानन्तरीयकत्वात् , यः प्रयत्नानन्तरीयकः स परिणतिमान्, यथा स्तम्सः, यो वा न परिणतिमान् स न प्रयत्नानन्तरीयकः, यथा वान्ध्येयः, प्रयत्नानन्तरीयकश्च ध्वनिः, तस्मात् परिणतिमानिति व्याप्यस्य साध्येनाऽविरुद्धस्योपलब्धिः साधम्र्येण चैधर्येण च ॥ ७७॥ ___अत्र ध्वनिः परिणतिमानिति साध्यधर्मविशिष्टधर्माभिधानरूपा प्रतिज्ञा । प्रयत्नानन्तरीयकत्वादिति हेतुः । यः प्रयत्नानन्तरीयक इत्यादी तु व्याप्तिप्रदर्शनपूर्वी साधर्म्य. वैधाभ्यां स्तम्भ-बान्ध्येयरूपो दृष्टान्तौ । प्रयत्नानन्तरीयकश्च ध्वनिरित्युपनयः । तस्मात् परिणतिमानिति निगमनम् ।
२ यद्यपि व्याप्यत्वं कार्यादिहेतूनामप्यस्ति, साध्येन व्याप्यत्वात् । तथापि तन्नेह विवक्षितम्, किन्तु साध्येन तदात्मीभूतस्याकार्यादिरूपस्य प्रयत्नानन्तरीयकत्वादेः स्वरूपमित्यदोपः ।। ७७ ।।