Book Title: Ratnakaravatarika Part 02
Author(s): Dalsukh Malvania, Malayvijay
Publisher: L D Indology Ahmedabad
View full book text
________________
क्षणभङ्गनिराकरणम् ।. - સમાધાન–તે પછી નિત્ય એક રૂપવાળો પદાર્થ પણ તે તે સામગ્રીના ભેદથી તે તે કાર્યને કત્ત થઈ જશે, તે તમારા ક્ષણિક એકાન્તની સિદ્ધિ પણ કઈ રીતે થશે ? તેથી કરીને ક્ષણિક એકાન્તરૂપ પક્ષમાં ક્રમ અને અક્રમ દ્વારા અર્થ. ક્રિયાને સંભવ ન હોવાથી (અર્થાત વિપક્ષરૂપ ક્ષણિકાક્ષણિકમાં સવ તરીકે માન્ય અર્થ કિયા હોવાથી તમારે સત્વહેતુ વિરુદ્ધ સિદ્ધ થશે. *
(प) अभाव एवेत्यतोऽग्रे किमिति गम्यम् :। तदिति वस्तु ।। . स्वभावान्तरेण वेति रूपक्षणमुपादानस्वभावेन, ज्ञानक्षणं सहकारिस्वभावेन । - (टि.) ताभ्यामिति क्रमाऽक्रमाभ्याम् । शम्वूकेति शंखः । तदिति वस्तु । तत्रेति देशे काले वा । निरन्वयमिति समूलनाशम् । . . अत्रेति क्षणिकैकान्ते । यौगपद्यमिति अनमः । स्वकार्याणीति आत्मनाऽवश्यविधेयानि।
८ यदप्यांचक्षते भिक्षवः क्षणक्षयैकान्तप्रसाधनाय प्रमाणम्-ये यद्भावं प्रत्यन. पेक्षाः, ते तद्भावनियताः, यथाऽन्त्या कारणसामग्री स्वकार्यजनने, विनाशं प्रत्यनपेक्षाश्च • भावा इति । . . . - तत्र विनाशं प्रत्यनपेक्षत्वमसिद्धतावष्टब्धमेव नोच्छ्वसितुमपि शक्नोतीति कथं वस्तूनां विनाशनयत्यसिद्धौ सावधानतां दध्यात् ? । तथाहि-तरस्विपुरुषप्रेरितप्रचण्डमुद्गरसंपर्कात् कुम्भादयो ध्वंसमानाः समीक्ष्यन्ते । ।
नन्वेतत्साधनसिद्धिबद्धकक्षेष्वस्मासु सत्सु कथमसिद्धताऽभिधातुं शक्या ।। तथाहि-वेगवन्मुद्गरादि शहेतुर्नश्वर वा भावं नाशयति, अनश्वरं वा ? तंत्रानश्वरस्य नाशहेतुशतोपनिपातेऽपि नाशानुपपत्ति, स्वभावस्य गीर्वाणप्रभुणाऽप्यन्यथाकर्तुमशक्यत्वात् । नश्वरस्य : च नाशे तद्धेतूनां वैययम् । नहि स्वहेतुभ्य एवाप्तस्वभावे भावे भावान्तरल्यापारः फलवान, तदनुपरतिप्रसक्तेः । उक्तं च
- "भावो हि नश्वरात्मा चेत् , कृतं प्रलयहेतुभिः ।
... · अथाप्यनश्वरात्माऽसौ, कृतं प्रलयहेतुभिः ॥१॥" .... .. अपि च । भावात् पृथग्भूतो नाशो नाशहेतुभ्यः स्यात् , अपृथग्भूतो वा ? . यद्यपृथग्भूतः; तदा भाव एव तद्वेतुभिः कृतः स्यात् , तस्य च स्वहेतोरेवोत्पत्तेः कृश
स्य करणायोगात्तदेवं तद्धेतुवैयर्थ्यम् । अथ पृथग्भूतोऽसौ, तदा भावसमकालभावी, . • तदुत्तरकालभावी वा स्यात् ? तत्र समकालभावित्वे निर्भरप्रतिबन्धबन्धुरबान्धवयोरिव
भावाभावयोः समकालमेवोपलम्भो भवेत् , अविरोधात् । तदुत्तरकालभावित्वे तु घटादेः किमायातम् ? येनासौ स्वोपलम्भं स्वार्थक्रियां च न कुर्यात् । न हि तन्त्वादेः
. समुत्पन्ने. पटे घटः .स्वोपलम्भं. स्वार्थक्रियां च कुर्वन् केनचित् प्रतिषेधुं शक्यः । ननु ... पटस्याविरोधित्वान्न तदुत्पत्तौ तदभावः, अभावस्य तु तद्विपर्ययादसौ स्यात् ।।

Page Navigation
1 ... 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315