SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ क्षणभङ्गनिराकरणम् ।. - સમાધાન–તે પછી નિત્ય એક રૂપવાળો પદાર્થ પણ તે તે સામગ્રીના ભેદથી તે તે કાર્યને કત્ત થઈ જશે, તે તમારા ક્ષણિક એકાન્તની સિદ્ધિ પણ કઈ રીતે થશે ? તેથી કરીને ક્ષણિક એકાન્તરૂપ પક્ષમાં ક્રમ અને અક્રમ દ્વારા અર્થ. ક્રિયાને સંભવ ન હોવાથી (અર્થાત વિપક્ષરૂપ ક્ષણિકાક્ષણિકમાં સવ તરીકે માન્ય અર્થ કિયા હોવાથી તમારે સત્વહેતુ વિરુદ્ધ સિદ્ધ થશે. * (प) अभाव एवेत्यतोऽग्रे किमिति गम्यम् :। तदिति वस्तु ।। . स्वभावान्तरेण वेति रूपक्षणमुपादानस्वभावेन, ज्ञानक्षणं सहकारिस्वभावेन । - (टि.) ताभ्यामिति क्रमाऽक्रमाभ्याम् । शम्वूकेति शंखः । तदिति वस्तु । तत्रेति देशे काले वा । निरन्वयमिति समूलनाशम् । . . अत्रेति क्षणिकैकान्ते । यौगपद्यमिति अनमः । स्वकार्याणीति आत्मनाऽवश्यविधेयानि। ८ यदप्यांचक्षते भिक्षवः क्षणक्षयैकान्तप्रसाधनाय प्रमाणम्-ये यद्भावं प्रत्यन. पेक्षाः, ते तद्भावनियताः, यथाऽन्त्या कारणसामग्री स्वकार्यजनने, विनाशं प्रत्यनपेक्षाश्च • भावा इति । . . . - तत्र विनाशं प्रत्यनपेक्षत्वमसिद्धतावष्टब्धमेव नोच्छ्वसितुमपि शक्नोतीति कथं वस्तूनां विनाशनयत्यसिद्धौ सावधानतां दध्यात् ? । तथाहि-तरस्विपुरुषप्रेरितप्रचण्डमुद्गरसंपर्कात् कुम्भादयो ध्वंसमानाः समीक्ष्यन्ते । । नन्वेतत्साधनसिद्धिबद्धकक्षेष्वस्मासु सत्सु कथमसिद्धताऽभिधातुं शक्या ।। तथाहि-वेगवन्मुद्गरादि शहेतुर्नश्वर वा भावं नाशयति, अनश्वरं वा ? तंत्रानश्वरस्य नाशहेतुशतोपनिपातेऽपि नाशानुपपत्ति, स्वभावस्य गीर्वाणप्रभुणाऽप्यन्यथाकर्तुमशक्यत्वात् । नश्वरस्य : च नाशे तद्धेतूनां वैययम् । नहि स्वहेतुभ्य एवाप्तस्वभावे भावे भावान्तरल्यापारः फलवान, तदनुपरतिप्रसक्तेः । उक्तं च - "भावो हि नश्वरात्मा चेत् , कृतं प्रलयहेतुभिः । ... · अथाप्यनश्वरात्माऽसौ, कृतं प्रलयहेतुभिः ॥१॥" .... .. अपि च । भावात् पृथग्भूतो नाशो नाशहेतुभ्यः स्यात् , अपृथग्भूतो वा ? . यद्यपृथग्भूतः; तदा भाव एव तद्वेतुभिः कृतः स्यात् , तस्य च स्वहेतोरेवोत्पत्तेः कृश स्य करणायोगात्तदेवं तद्धेतुवैयर्थ्यम् । अथ पृथग्भूतोऽसौ, तदा भावसमकालभावी, . • तदुत्तरकालभावी वा स्यात् ? तत्र समकालभावित्वे निर्भरप्रतिबन्धबन्धुरबान्धवयोरिव भावाभावयोः समकालमेवोपलम्भो भवेत् , अविरोधात् । तदुत्तरकालभावित्वे तु घटादेः किमायातम् ? येनासौ स्वोपलम्भं स्वार्थक्रियां च न कुर्यात् । न हि तन्त्वादेः . समुत्पन्ने. पटे घटः .स्वोपलम्भं. स्वार्थक्रियां च कुर्वन् केनचित् प्रतिषेधुं शक्यः । ननु ... पटस्याविरोधित्वान्न तदुत्पत्तौ तदभावः, अभावस्य तु तद्विपर्ययादसौ स्यात् ।।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy