SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ ૨૦૬ क्षणभङ्गनिराकरणम् । [.५.५ બીજો વિકલ્પ પણ વિરાધથી માધિત છે માટે કહી શકાય તેવા નથી. આ રીતે નાશને હતુ. ઘટતા નથી તેથી, પદાથ પાતાના વિનાશ માટે હેતુની અપેક્ષા રાખતા નથી એ અમારો હેતુ સિદ્ધ જ છે. ( प ० ) यद्भावमिति यस्य सत्ताम् । तंत्र विनाशं प्रतीत्यादि सूरिः । सावधानता मिति सावधानता मित्यत्र साधनतामिति पाठान्तरम् । नन्वेतदित्यादिना 'बौद्ध एवं प्रतिपृच्छति । अनुपरतिप्रसक्तेरिति अफलेऽपि चेद् "भवति, तदा सदा भवनप्रसङ्गः । अपि चेत्यादि वौद्धः । भावाभावयोरिति, भावनाशयोः । असाविति घटादिः । नन्वित्यादि सूरिः । तदुत्पत्ताविति पटोत्पत्तौ । तदभाव इति घटाभावः । तद्विपर्ययादिति विरोधित्वात् । असाविति तदभावः । न किमिदमित्यादि सौगतः । अस्येति अभावस्य । नाशकत्वमिति विकल्पद्वयमपि पृथग्भावपक्षे । नाशोत्पादद्व । रेणेत्यादि नाशको मुद्गरादिर्नाशमभावमुत्पादयति । स च घटादि-मुन्मूलयति । एतावता यो यो नाशकः, स स नाशोत्पादद्वारेण पदार्थमुन्मूलयति । तथा नाशोऽप्यभावो नाशकः । तेनाप्यन्यो नाश उत्पादनीयः । सोऽपि नाशो नाशकः, तेनाप्यन्यो नाश उत्पादनीय इत्यनवस्था । अर्थान्तरत्वाविशेषादित्यादि मेदाविशेषात् । यथा हि स नाश घटात् पृथक् एवं पटादपि । असाविति नाशः । तत्सम्बन्धित्वेनेत्यादि जैनः | तत्सम्बन्धित्वेनेति यथा भिन्ना अपि गावो देवदत्तसम्वन्धित्वाद्देवदत्तस्यैव भवन्ति, एवमिहापि । कः सम्बन्धः इत्यादि वौद्धः । मुद्गरादिकार्यत्वेन तदभ्युपगमादिति विनाशो मुद्गरादिकार्यं विनश्यति च घटः इत्यतः कथं घटविनाशयोः कार्यकारणभाव इति भावः । तदभ्युपंगमान्नाशाभ्युपगमात् । तस्येति नाशस्य । कुटादिसमकालतापत्तेश्चति ययोर्हि संयोगो भवति तौ द्वावपि समकाल दृश्येते एवं घटनाशयोरपि प्राप्नोति । भूतलादिविशेषणतयातत्कक्षीकारादिति न पुनर्घटविशेषणतया अघटे भूतलमिति प्रतीतेः । अस्येति नाशस्य । तं प्रतीति नाशं प्रति । (टि) ये यद्भावमित्यादि । ये भावाः । यद्भावमिति विनाशभाव प्रति । ते इति 'तद्भावेति विवादापन्ना' भावा विनाशस्वभावाः, तद्भावं - प्रत्यनपेक्षत्वात् ॥ अन्त्याकारणेति मुक्तात्ममुक्तमनःपरमाणवो नित्यद्रव्याणि अन्त्यकारणानि । नैयत्यसिद्धाविति विषयसप्तमी ॥ तद्धेतूनामितिः नाशकारणानाम् । तदनुपरतीति तेषां सहकारिणामनुपरमणप्रसङ्गात् । मुद्गरवदन्येऽपि विनाशहेतवोऽपेक्षणीया इत्यनवस्था i भाव इत्यादि || असाविति भावः । कृतमिति पर्याप्तम् । तद्धेतुभिरिति विनाशहेतुभिः । तस्येति भावस्य । स्वहेतोरिति आत्मीयकारणात् । तदेवेति अस्मदभिमतमेव तद्धेतुवैयर्थ्यमिति विनाशकारणवैफल्यम् । असाविति भावः । तदुत्तरेति भावोत्पत्तेरनन्तरकालभावी । असाविति घटादिः । तदुत्पत्ताविति टोपा । तदभाव इति घटाभावः । तद्विपर्ययादिति तस्माद् विरोधित्वाद्विपरीतत्वाद्विरोधित्वादित्यर्थः । असाविति घटाविनाशः ।
SR No.011584
Book TitleRatnakaravatarika Part 02
Original Sutra AuthorN/A
AuthorDalsukh Malvania, Malayvijay
PublisherL D Indology Ahmedabad
Publication Year
Total Pages315
LanguageGujarati
ClassificationBook_Gujarati
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy