________________ नैषधीयचरिने (10 तत्पु. ) सङ्गेन सम्पर्केण उत्पुलके सञ्जात-रोमाञ्च ( तृ० तत्पु० ) उत् - उत्थितः पुलकः ययोः तथाभूते ( प्रादि ब० बी० ) जाते इति शेषः / स्त्रीणां काम-प्रधानत्वात् परपुरुषसम्मौद्रोमाञ्चः स्वाभाविक एवेति भावः // 21 // व्याकरण-मोलन्। मील + श; / अभिमुखम् मुखम् अभि इति (अव्ययीभाव स० ) धतुम् यहाँ शक् के योग के तुमुन् है / शके शक् + लिट् ( कर्मवाच्य ) / अपेत: अप + इ + क्तः ( कर्तरि ) / अनुवाद-आँखें मीचे ( खड़े ) हुए वे ( नल ) (आपस में मिलने) सामने से आई (किन्तु ) स्तनों के कारण व्यवहित हुई दो स्त्रियों द्वारा ( बीच में) दबाकर पकड़े नहीं जा सके, उनसे खिसके हुये उन्होंने बाद को अपने अंगों की निन्दा की, किन्तु वे दोनों स्त्रियाँ रोमाञ्चित हो उठीं // 21 / / टिप्पणी-निन्दा और रोमाञ्च का कारण बता देने से काव्यलिङ्ग दे। विद्याधर के अनुसार राजा को खेद और स्त्रियों को सात्त्विक भाव हो जाने से भावोदयालंकार है। प्रथम और द्वितीय पादों में आभ्याम् का तुक मिलजाने से अन्त्यानुप्रास, 'मङ्गसङ्गो' में छेक और अन्यत्र वृत्त्यनुप्रास है। निमीलनस्पष्टविलोकनाभ्यां कथितस्ता: कलयन्कटाक्षः। स रागदर्शीव भृशं ल लज्जे स्वतः सतां ह्रीः परतोऽतिगुर्वी // 22 / / अन्वयः - निमीलन-स्पष्टविलोकनाभ्याम् कथितः ( अतएव ) ताः कटाक्षः कलयन स रागदर्शी इव भृशं ललज्जे सताम् परतः स्वतः ह्री: अतिगुर्वी ( भवति)। टीका-निमीलनम्, परस्त्रीदर्शनव्यापारान्नेत्र-पिधानम् च स्पष्टं स्फुटं विलोकन तासामनावृताङ्गदर्शनं चेति ताभ्याम् ( द्वन्द्व ) कथित: दुःखित उद्वेजित इति यावत् अतएव ताः स्त्रीः कटाक्षः नेत्रप्राप्तविलोकनैः कलयन् पश्यन् स नल: रागेण प्रेम्णा पश्यतीति तथोक्तः ( उपपद तत्पु० ) इव भृशम् अत्यन्तम् यथा स्यात्तथा ललज्जे लज्जितवान् , यतः सताम् साधु-पुरुषाणाम् परतः अन्यस्य सकाशात् अन्यापेक्षयेति यावत् स्वत: आत्मनः सकाशात् ह्री: लज्जा अतिशयेन गुर्वी महती (प्रादि स० ) अधिकतरेत्यर्थः जायते इति शेषः सज्जना एकान्ते सत्यपि पापेषु स्वत एव लज्जन्ते इति भावः / / 22 / / व्याकरण-निमीलनम् नि + / मील + ल्युट (भावे ) / कथितः कुत्सितः