________________ षः सर्गः 23 (कर्मधा० ) येन तथाभूतः सन् अनुपश्चात् दर्शनायोग्यम् वराङ्गमपि मा यावत् दृष्टिपथं गमदिति हेतो: मिमील नेत्रमीलनमकरोत् धर्मविरुद्धत्वादिति भावः // 20 // व्याकरण-रुत्सोः /रुध् + सन् + डः / अनुलेपयन्त्याः अनु + लिप् + णिच् + शत + ङीप् / इलथ श्लथतीति/श्लथ + अच् ( कर्तरि ) / चक्षुः चष्टे (पश्यति ) इति चक्ष + उस् / मिमील/मील् + लिट् / अनुवाद-वह ( नल ) केश-पाश बाँधना चाहती हुई किसी युवती की काख देखकर तदनन्तर अनुलेपन करते हुए उसके वैसे सुन्दर कुच देखकर बाद को वस्त्र खिसक जाने से नाभि को देखकर ( इस तरह ) ऊपर से नीचे तक . क्रमशः दष्टिपात किये तत्पश्चात् आँखें मूंद बैठे // 20 // टिप्पणी-विद्याधर के अनुसार यहाँ एक 'आलोक्य' क्रिया का अनेक कारकों के साथ सम्बन्ध होने से कारक दोपक है। लज्जा-भाव उदय होने से भावोदय भी है / 'मूल', 'मालो' 'कचं' 'कुचौ' में छेक और अन्यत्र वृत्त्यनुप्रास है। राजा के आंखें मूंद लेने से यहाँ यह ध्वनि निकलती है कि वे उत्तम पुरुष हैं जो परकीय स्त्री के नग्न अंगों को देखना धर्म-विरुद्ध समझते हैं। मीलन्न शेकेऽभिमुखागताभ्यां धतुं निपीड्य स्तनसान्तराभ्याम् / स्वाङ्गान्यपेतो विजगी स पश्चात्पुमङ्गसङ्गोत्पुलके पुनस्ते // 21 // अन्वयः-मीलन् सः अभिमुखागताभ्याम् ( किन्तु ) स्तन-सान्तराभ्याम् ( काभ्याञ्चित् खत्रीभ्याम् ) निपीड्य धर्तुम् न शेके, ( ताभ्याम् ) अपेतः ( सन् ) पश्चात् ख्वाङ्गानि विजगी, पुनः ते पुमङ्ग-सङ्गोत्पुलके ( जाते ) / टीका-मीलन कृतनेत्रनिमीलनः स नल: अभिमुखम संमुखं यथा स्यात्तथा आगताभ्याम् आयाताभ्याम् ( सुप्सुपेति समासः ) किन्तु स्तनाभ्याम् कुचाभ्याम् सान्तराभ्याम् व्यवहिताभ्याम् ( तृ० तत्पु०.) अन्तरेण व्यवधानेन सहिताभ्या. मिति ( ब० वी० ) काभ्यामपि स्त्रीभ्याम् निपीड्य मध्ये पीडनं कृत्वा निरुध्येति यावत् धतुम् ग्रहीतुम् न शेके न शक्योऽभवत् स्त्रियोरुच्चतरस्तनत्वात् परस्परं मिलनमेव नाभवत् , तस्मात् मध्यस्थितो राजा ताभ्यां ग्रहीतुं नाशक्यतेति भावः / ताभ्याम् अपेतः अपसृतः सन् राजा पश्चात् स्वानि स्वीयानि अङ्गानि अवयवान् ( कर्मधा० ) विजगी निन्दितवान् परस्त्र्यङ्गस्पर्शस्य पापरूपत्वात् राजश्च धर्मात्मत्वात् , पुन: किन्तु ते स्त्रियो पुंस: पुरुषस्य अङ्गस्य शरीरख्य