________________
ना तुष्टयाध्याये प्रथमो धातुपादः
'आमन्त्रित' को योगरूढ स्वीकार करते हैं, जबकि कातन्त्रकार ने आमन्त्रित को यौगिक मानकर तदर्थ संज्ञासूत्र बनाने की कोई आवश्यकता नहीं समझी और उस आमन्त्रित अर्थ में ‘सि’ (प्रथमा - एकवचन) की संबुद्धि संज्ञा - हेतु प्रकृत सूत्र बनाया है। यही दोनों व्याकरणों में संबुद्धिसंज्ञा की विशेषता है।
३५
वृत्तिकार दुर्गसिंह - द्वारा प्रस्तुत 'सिद्ध' शब्द के ३ अर्थ व्याख्याकारों ने किए हैं - नित्य, निष्पन्न और प्रसिद्ध । उनमें से यहाँ प्रसिद्ध अर्थ ग्राह्य है । सिद्ध शब्द को विद्यमानार्थक मानकर कलापचन्द्रकार सुषेण विद्याभूषण ने कहा है कि अविद्यमान का संबोधन नहीं हो सकता || ८४ |
८५. आगम उदनुबन्धः स्वरादन्त्यात् परः [ २।१।६ ] [ सूत्रार्थ ]
उकारानुबन्ध वाला आगम अन्तिम स्वर से पर में होता है || ८५ | [दु० बृ० ]
प्रकृतिप्रत्यययोरनुपघाती आगमः । " आगम उदनुबन्धोऽन्त्यात् स्वरात् परः " परिभाष्यते । पद्मानि, पयांसि । आगम इति किम् ? विद्युत्वान् । उदनुबन्ध आगमस्य लिङ्गम् || ८५ ।
[दु०टी० ]
1
आगमः । आगच्छतीति आगमः । ननु शब्देषु स्थितानामेव वर्णानामन्वाख्यानमागमः पुनरपूर्व एव, शब्दान्तरश्चेत् किमाचष्टे । न च शब्दात् शब्दान्तरप्रतिपत्तिर्युक्ता ।नैवम्, प्रथमं प्रकृतिमुत्पादयति, ततः प्रत्ययम् । पश्चादागमम्, तस्मिंश्च तस्मादागम इति बुद्धिर्भवति । उदनुबन्धोऽस्येति उदनुबन्धः । स्वरादिति परदिग्योगलक्षणा पञ्चमी । अन्ते भवोऽन्त्यः, भवार्थे दिगादिषु यः प्रत्ययो दृश्यते, स्वराणां मध्येऽन्त्यात् स्वरादित्यत्त्यग्रहणादेव गम्यते, अन्यथा येन विधिस्तदन्तस्येति सिद्धत्वात् । परिभाष्यत इति । परितः सर्वतो भाष्यते इति परिभाषा । यत्र यत्र लिङ्गमस्ति तेन तेन सहैकवाक्यतामापद्यमाना विध्यङ्गशेषभूतोच्यते । अथवा नानादेशावस्थितानि सर्वाण्येव कार्याणि लिङ्गान्युत्पाद्य एकदेशस्थैव नियमयति । यथा प्रदीपः सर्वतोऽवस्थितान् घटादीन् प्रकाशयति तथोद्देशं संज्ञापरिभाषे इत्युभयथापि लिङ्गद्वारेणैव प्रवर्तते लिङ्गमात्रा