________________
४८८
कातन्त्रव्याकरणम्
यत् पुनरुक्तं तस्मिन् लोपे प्रत्ययलोपलक्षणेनोक्तं तदुक्तमिति तदुपलक्षणं वेदितव्यम् । प्रत्ययलोपलक्षणादिनोक्तमित्यर्थः । किं च यदि विरामग्रहणं न स्यात् तदा व्यञ्जनादावुक्तमित्युक्ते विरामोक्तकार्यस्य बाधनं स्याद् इति मन्यते मन्दधीरिति विरामग्रहणम् । इह व्यञ्जनादावुक्तमिति सर्वथा न प्राप्नोति इति व्यञ्जनग्रहणम् । सुपथीत्यादि । शोभनाः पन्थानो यस्य कुलस्येति विग्रहे "व्याने चेषां निः, विरामयजनादिष्वनडुन्नहिवन्सीनां च, पुंसोऽन्शब्दलोपः, चतुरो वाशब्दस्योत्वम्, दिव उद् व्याने" (२।२।३८; ३।४४; २।४०, ४१ , २५) इत्येतैर्नलोपादीनि कार्याणि व्यञ्जनोक्तानि भवन्ति । एवमिति । उखायाः संसते, देवेभ्यो यजति कुलम् इति क्विप् "म्रसिध्वसोश्च" (२।३।४५) इति, "हशषछान्तेजादीनां उः" (२।३।४६) इति विरामव्यञ्जनादौ दकारडकारौ भवतः । इदमत्वं न स्यादिति “अद् व्यानेऽनक्" (२।३।३५) इति व्यञ्जनोक्तम्, इदमोऽदादेशो न स्यादित्यर्थः ।।२८४ । ॥ इति त्रिलोचनदासकृतायां कातन्त्रवृत्तिपत्रिकायां द्वितीये नामचतुष्टयाध्याये तृतीयो युष्मदादिपादः
समाप्तः॥
[समीक्षा]
‘पयः, तत्, सुसखि' आदि के सिद्ध्यर्थ 'सि - अम्' प्रत्ययों का लोप हो जाने पर प्रत्ययलक्षण मानकर संभाव्य कार्यों का प्रतिषेध किया गया है- "नपुंसकात् स्यमोर्लोपो न च तदुक्तम्" (२।२।६) सूत्र द्वारा, परन्तु 'सुवाक्, सुपथि, सुविद्वत्, सुपुम्, सुचतुः, सुधु' आदि के सिद्ध्यर्थ प्रत्ययलक्षण की आवश्यकता है । अन्यथा च् को ग्, वा को उ-आदेश आदि कार्य सम्पन्न नहीं होंगे - इसी के सम्पादनार्थ प्रकृत सूत्र द्वारा 'नपुंसकात् स्यमोर्लोपेऽपि' निर्देश किया गया है | पाणिनीय व्याकरण में "न लुमताऽङ्गस्य" (अ० १।१।६३) से अभीष्ट स्थलों के लिए प्रत्ययलक्षण का निषेध किया है। उनसे अतिरिक्त स्थलों में प्रत्ययलक्षण होता ही है।
[रूपसिद्धि]
१. सुवाक्, सुवाग् । सुवाच् (नपुं० लि०) + सि, अम् । शोभना वाग् यस्य कुलस्य तत् | "व्यानाच्च" (२।१।४९) से सि - अम् प्रत्ययों का लोप, उनका प्रत्ययलक्षण (अतिदेश), "चवर्गदृगादीनां च" (२।३।४८) से च् को ग तथा "वा विरामे" (२।३।६२) द्वारा विकल्प से ग् को क् आदेश |