Book Title: Katantra Vyakaranam Part 02 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay

View full book text
Previous | Next

Page 565
________________ कातन्त्रव्याकरणम् २२. अयनस्य चादेशेऽन्तरः अन्तरः परस्य हनोऽयनस्य चादेशादन्यत्र णो भवति । अन्तर्हण्यते, अन्तरयणम् । आदेश इति किम् ? अन्तर्हननोऽन्तरयनो देशः । कथमन्तर्घणो देशः । ये तु निपातसूत्रे कृतणत्वं निर्दिशन्ति तन्मते स्यात् ।। २२ । २३. निंसिनिक्षिनिन्दां वा कृति ५२८ उपसर्गस्थान्निमित्तात् कृत्येषां नस्य णो भवति वा । प्रणिंसकः, प्रनिंसकः । प्रणिक्षकः, प्रनिक्षकः । प्रणिन्दकः, प्रनिन्दकः । कृतीति किम् ? प्रणिस्ते, प्रणिक्षति, प्रणिन्दति,नित्यं णोपदेशत्वात् । कृतीत्यपठद्भिरेषां णोपदेशोऽप्यनादरणीय एव ।। २३ । २४. नेर्नद-गद-पद-पत- दा - मेङ् - माङ् - स्यति - हन्ति - याति - वाति-द्राति-प्साति-वपति-वहति-शाम्यति-चिनोति - दोग्धिषु नदादिषु परत उपसर्गस्थान्निमित्तात् नेर्नस्य णो भवति । प्रणिनदति, प्रणिगदति, प्रणिपतति, प्रणिपद्यते, प्रणिदत्ते, प्रणिधत्ते, प्रणिमयते, प्रणिमिमीते, प्रणिष्यति, प्रणिहन्ति, प्रणियाति, प्रणिवाति, प्रणिद्राति, प्रणिप्साति, प्रणिवपति, प्रणिवहति, प्रणिशाम्यति, प्रणिचिनोति, प्रणिदोग्धि ||२४| २५. अकखादावुपदेशेऽषान्ते वा उपदेशे यो न कखादिर्न च सान्तस्तस्मिन् धातावुपसर्गस्थान्निमित्तात् परस्य नेर्नस्य णो भवति वा । प्रणिपचति, प्रनिपचति । प्रणिरौति, प्रनिरौति । अकखादाविति किम् ? प्रनिक्वणति, प्रनिखिद्यते । अषान्त इति किम् ? प्रनिपुष्णाति । उपदेश इति किम् ? ' प्रनिचकार, प्रनिचखाद' इति प्रतिषेधो यथा स्यात् । प्रणिनंष्टा, प्रणियष्टेति चविधिः ||२५| २६. स्वरात् कृतः उपसर्गस्थान्निमित्तात् स्वरात् परस्य कृतो नकारस्य णो भवति । प्रयाणम्, निर्याणम्, अन्तर्याणम्, प्रेङ्खणम्, प्रोम्भणम्, निर्वहमाणः, प्रवहणीयम्, अप्रयाणिस्ते जाल्मः । प्रहीणः, प्रहीणवान्, हाग्लाभ्यां क्त्यर्थे निरौणादिकः प्रहाणिः । प्रपायिणौ, काकप्रपायिणौ, मधुप्रपायिणौ । समासान्तेऽपि उपसर्गादयं विधिः परत्वात् । स्वरादिति किम् ? प्रभुग्नः, निर्भुग्नः, निमग्नः ||२६|

Loading...

Page Navigation
1 ... 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630