________________
कातन्त्रव्याकरणम्
२२. अयनस्य चादेशेऽन्तरः
अन्तरः परस्य हनोऽयनस्य चादेशादन्यत्र णो भवति । अन्तर्हण्यते, अन्तरयणम् । आदेश इति किम् ? अन्तर्हननोऽन्तरयनो देशः । कथमन्तर्घणो देशः । ये तु निपातसूत्रे कृतणत्वं निर्दिशन्ति तन्मते स्यात् ।। २२ ।
२३. निंसिनिक्षिनिन्दां वा कृति
५२८
उपसर्गस्थान्निमित्तात् कृत्येषां नस्य णो भवति वा । प्रणिंसकः, प्रनिंसकः । प्रणिक्षकः, प्रनिक्षकः । प्रणिन्दकः, प्रनिन्दकः । कृतीति किम् ? प्रणिस्ते, प्रणिक्षति, प्रणिन्दति,नित्यं णोपदेशत्वात् । कृतीत्यपठद्भिरेषां णोपदेशोऽप्यनादरणीय एव ।। २३ । २४. नेर्नद-गद-पद-पत- दा - मेङ् - माङ् - स्यति - हन्ति - याति - वाति-द्राति-प्साति-वपति-वहति-शाम्यति-चिनोति - दोग्धिषु
नदादिषु परत उपसर्गस्थान्निमित्तात् नेर्नस्य णो भवति । प्रणिनदति, प्रणिगदति, प्रणिपतति, प्रणिपद्यते, प्रणिदत्ते, प्रणिधत्ते, प्रणिमयते, प्रणिमिमीते, प्रणिष्यति, प्रणिहन्ति, प्रणियाति, प्रणिवाति, प्रणिद्राति, प्रणिप्साति, प्रणिवपति, प्रणिवहति, प्रणिशाम्यति, प्रणिचिनोति, प्रणिदोग्धि ||२४|
२५. अकखादावुपदेशेऽषान्ते वा
उपदेशे यो न कखादिर्न च सान्तस्तस्मिन् धातावुपसर्गस्थान्निमित्तात् परस्य नेर्नस्य णो भवति वा । प्रणिपचति, प्रनिपचति । प्रणिरौति, प्रनिरौति । अकखादाविति किम् ? प्रनिक्वणति, प्रनिखिद्यते । अषान्त इति किम् ? प्रनिपुष्णाति । उपदेश इति किम् ? ' प्रनिचकार, प्रनिचखाद' इति प्रतिषेधो यथा स्यात् । प्रणिनंष्टा, प्रणियष्टेति चविधिः ||२५|
२६. स्वरात् कृतः
उपसर्गस्थान्निमित्तात् स्वरात् परस्य कृतो नकारस्य णो भवति । प्रयाणम्, निर्याणम्, अन्तर्याणम्, प्रेङ्खणम्, प्रोम्भणम्, निर्वहमाणः, प्रवहणीयम्, अप्रयाणिस्ते जाल्मः । प्रहीणः, प्रहीणवान्, हाग्लाभ्यां क्त्यर्थे निरौणादिकः प्रहाणिः । प्रपायिणौ, काकप्रपायिणौ, मधुप्रपायिणौ । समासान्तेऽपि उपसर्गादयं विधिः परत्वात् । स्वरादिति किम् ? प्रभुग्नः, निर्भुग्नः, निमग्नः ||२६|