________________
परिशिष्टम् -
१
५२७
१६. उपसर्गाण्णोपदेशस्य
I
उपसर्गस्थान्निमित्तात् णोपदेशस्य धातोर्नस्य णो भवति । प्रणमति, प्रणम्य, खरप्रणादी, परिणयति, निर्णयति, अन्तर्णयति । अन्तरो णत्वविधावुपसर्गत्वात् । उपसर्गादिति किम् ? वृक्षं वृक्षं परि नयति । प्रनायको राजन्यः । नामोपनिपातिनोऽनुपसर्गत्वात् कथं प्रणायकः, प्रणयतीति वुणि स्यात् । णोपदेशस्येति किम् ? प्रनृत्यति, प्रनाथते । नाथिरप्थनजोपदेशः पारायणे । भाष्ये तु नोपदेश एवायम् । कथं दुर्नयति, उपसर्गप्रतिरूपकत्वान्न णत्वमिति अष्टकवृत्तिकृतः । " उपसर्गाददूरे" इति पठन्ति एके, तदा दुर्नयतीत्यादयोऽकृतणत्वा एवेति मतमेतच्चूर्णिरप्यनुगृह्णाति तदा क्षुभ्नादिपाठे दुर्नयतीह मन्तव्यम् ||१६|
१७. अनितेरन्तस्यापि
उपसर्गस्थान्निमित्तात् परस्यानितेरन्तस्यापि नस्य णो भवति । प्राणिति, प्राणकः, पर्यणिति, निराणीत्, अन्तरणनम्, दुराणीत् । क्विप् - हे प्राण् ! हे पर्यण् ! केचिदिह परैः प्रतिषेधमिच्छन्ति - पर्यनिति, हे पर्यन् || १७ |
१८. अभ्यासाच्च
उपसर्गस्थान्निमित्तादभ्यासात् परस्य चानितेर्नस्य णो भवति । प्राणिणत्, पर्यणिणत्, प्राणिणिषति, पर्यणिणिषति । कृतणत्वस्य द्विर्वचनं चेत् - प्रणिनाय, प्रणिनीषति । ‘“परिणिनंसुरसावुपैति ” इत्यादावपि णत्वद्वयप्रसङ्गः ।। १८ । १९. हिन्वानिमीनाम्
उपसर्गस्थान्निमित्ताद् हिन्वानिमीत्येतेषां नस्य णो भवति । प्रहिणोति, प्रवपाणि, प्रयाणि, प्रमीणाति ।। १९।
२०. हनः
उपसर्गस्थान्निमित्ताद् हनो नस्य णो भवति । प्रहणनम्, प्रहण्यते ॥ २०
२१.
वमोर्वा
उपसर्गस्थान्निमित्ताद् हनो नस्य वमोः परतो णो भवति वा । प्रहण्वः, प्रहन्वः । प्रहण्मः प्रहन्मः ||२१|