________________
कातन्त्रव्याकरणम्
१०. गिरिनद्यादिषु च गिरिनद्यादिषु च नस्य णो भवति वा | गिरिणदी, गिरिनदी । गिरिणद्धम्, गिरिनद्धम् । वक्रणितम्बा, वक्रनितम्बा | वक्रणदी, वक्रनदी ।
गिरिनयपि गिरिनद्धं वक्रनितम्बा तथैव माषोणम् । वक्रनदी च गणेऽस्मिन् विनिश्चितो गिरिनितम्बोऽपि ॥१०॥
११. स्यादिसमासान्तयोरयुवादेः पूर्वपदस्थानिमित्तात् स्यादिसंबन्धिनः समासान्नस्य चायुवादेर्नस्य णो भवति वा । तन्त्रवापेण, तन्त्रवापेन । वारिवाहेण, वारिवाहेन | माषवापाणाम्, माषवापानाम् । समासान्नस्य च - व्रीहिवापिणौ, व्रीहिवापिनौ । व्रीहिवापिणि, व्रीहिवापिनि । स्यादिसमासान्तयोरिति किम् ? वीरभगिनी | अयुवादेरिति किम् ? शूद्रयुवानः, क्षत्रिययुवानः, परिपक्वानि, प्रपक्वानि तन्त्रवाक्येन । पूर्वपदस्थादित्येव - कुम्भहारिणौ ।।११।
१२. नित्यमेकस्वरकवर्गवत्युत्तरपदस्य समासान्तभूतस्य शब्दस्योत्तरपदमिति रुढिः। तस्मिन्नेकस्वरे कवर्गवति च सति स्यादिसमासन्तयोरयुवादेर्नस्य णो भवति नित्यम् । क्षीरपेण, क्षीरपाणाम् । दीर्घकायेण, वक्रमुखेण, वीरभोगेण, दीर्घमेघेण | समासान्तस्य च वृत्रहणौ । वस्त्रयुगाणि । अयुवादेरित्यधिकर्तव्यमेव नित्यमपि मा भूदिति ।।१२।
१३. त्रिचतुर्ध्या हायनस्य वयसि त्रिचतुर्थ्यां परस्य हायनस्य वयसि गम्यमाने नस्य णो भवति । त्रिहायणो दम्यो वत्सः । चतुर्हायणी गौः । वयसीति किम् ? चतुर्हायना शाला ।। १३ ।
१४. पूर्वापहा (य) णादयः पूर्वापहा (य) णादयः कृतणत्वाः साधवो भवन्ति । पूर्वापहा (य) णाः । अपरापहाणाः, संप्रापहाणाः ।।१४।।
१५. नसस्य प्रादिभ्यो नासाया नसं वक्ष्यति, तस्येह ग्रहणम् । निमित्तात् परस्य नासिकादेशस्य नसशब्दस्य णो भवति । प्रणसम्, दुर्णसम्, निर्णसं मुखम् ।। १५ ।