Book Title: Katantra Vyakaranam Part 02 Khand 01
Author(s): Jankiprasad Dwivedi
Publisher: Sampurnanand Sanskrit Vishva Vidyalay
View full book text
________________
कातन्मव्याकरणम्
गते मृते प्रव्रजिते क्लीबे च पतिते पतौ । पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ।।
१५१ डित्त्वे विद्याद् वर्णनिर्देशमात्रं वर्णे यत् स्यात् तच्च विद्यात् तदादौ । वर्णश्चायं तेन ङित्त्वेऽप्यदोषो निर्देशोऽयं पूर्वसूत्रेण वा स्यात् ।। ११९ जातिक्रियागुणद्रव्यैः स्वभावाख्यानमीदृशम् । दण्डिनो मतमाश्रित्य दुर्गेणापीत्युदाहृतम् ।।
११, २२ जामातृसम्पत्तिमचिन्तयित्वा पित्रा तु दत्ता स्वमनोऽभिलाषात् । कुलद्वयं हन्ति मदेन नारी कूलद्वयं क्षुब्धजला नदीव ।। ४५ तथा परेषां युधि चेति पार्थिवः॥ तथा समुद्रादपरे परे नृपाः॥ त्रीणामिव समुद्राणां युगान्तेऽम्बुसमागमः ।। दक्षिणस्याश्च पूर्वस्या दिशोरथ उपर्यपि । उदीच्याश्च प्रतीच्याश्च मध्यमत्राप्यसौ भवेत् ।। दादेहस्य कृते घत्वे ढत्वे डत्वविधावपि । कार्ये आदिचतुर्थत्वे हकारग्रहणेन किम् ।। धातुलिङ्गनिपातानां वर्णानामर्थदर्शनात् । तिलांशे च तिलौघे च न तैलं सैकते यतः।। धूमायन्त इवाश्लिष्टाः प्रज्वलन्तीव संहताः। उल्मुकानीव मे स्वा हि ज्ञातयो भरतर्षभ ! ।। नक्तं भीरुरयं त्वमेव तदिमं राधे ! गृहं प्रापय ।। नद्यश्च नार्यश्च सदृक्प्रभावास्तुल्यानि कूलानि कुलानि तासाम् । तोयैश्च दोषैश्च निपातयन्ति सद्यो हि कूलानि कुलानि नार्यः ॥ ४५

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630