________________
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः
३६५
[क० च०]
आन्० । ननु संख्याविशेषणात् कथमलिङ्गका इति । अलिङ्गका इति प्रयोगो भवितुमर्हति ? सत्यम् | लिङ्गमेव लिङ्गकम्, न विद्यते लिङ्गकं यासामिति । अत एव के प्रत्यय इत्यादिनैव इकारो न भवति । अतस्तत्रोक्तं परग्रहणात् स्त्रीकृताकार एव परो यस्मात् ककारात् तस्मिन्नेव । अत्र तु अन्या विभक्तिः कृता तत्र आप्रत्ययः । विभक्त्यन्त्यकृताकार इति । यद् वा कत्यव्ययादीनां विशेषणम् । एत्वविधावशसीति क्रियतामित्याह - किं चेति || २३०|
[समीक्षा]
' युष्मद् + शस्, अस्मद् + शस्, अतियुष्मद् + शस्, अत्यस्मद् + शस्' इस अवस्था में कातन्त्रकार 'अमू' को 'आन्' आदेश करके 'युष्मान्, अस्मान्' आदि शब्द सिद्ध करते हैं। जबकि पाणिनि ने “शसो न" (अ० ७ । १ । २९) से केवल ‘नू' ही आदेश किया है, अतः उन्हें " द्वितीयायां च” (अ० ७।२।८७) से आकार भी करना पड़ता है । अतः प्रक्रिया की दृष्टि से पाणिनीय प्रक्रिया को ही गौरवधायक कहा जा सकता है ।
[रूपसिद्धि]
१. युष्मान् । युष्मद् + शस् । “एषां विभक्तावन्तलोपः” (२ । ३ । ६) से दकारलोप, प्रकृत सूत्र से शस् को 'आन्' आदेश, “समानः सवर्णे दीर्घीभवति परश्च लोपम्” (१।२।१ ) से समानलक्षण दीर्घ तथा 'आन्' के आकार का लोप ।
२ . अस्मान् । अस्मद् + शस् । पूर्ववत् दकार- लोप, शस् को आन्, दीर्घ एवं आकार का लोप ।
समानलक्षण
३. अतित्वान् । अतियुष्मद् । शस् | त्वामतिक्रान्तान् । त्वद्- आदेश, दकारलोप, आन्, समानलक्षणदीर्घ, आकारलोप ।
४.
अतिमान् । अत्यस्मद् + शस् । मामतिक्रान्तान् । मद्- आदेश, दलोप, शस् को आनू, समानलक्षण दीर्घ एवं आनू के आकार का लोप ।। २३०।