________________
नामचतुष्टयाध्याये तृतीयो युष्पत्पादः
४८१ ३. इच्छति । इषु इच्छायाम् (५।७०)+ति । “अन् विकरणः कर्तरि"(३।२।३२) से प्रकृति - प्रत्यय के मध्य में अन् विकरण, "गमिष्यमां छः" (३।६।६९) से ष् को छ्, "द्विर्भावं स्वरपरश्छकारः" (१।५।१८) से 'छ्' को द्वित्व तथा प्रकृत सूत्र से प्रथम छकार को चवर्गीय प्रथम चकार वणदिश |
४. गच्छति । गम्लु गतौ (१।२७२) +ति । “अन् विकरणः कतरि" (३।२।३२) से 'अन्' विकरण, "गमिष्यमां छः" (३।६।६९) से म् को छ्, "द्विर्भावं स्वरपरश्छकारः" (१।५।१८) से छ् को द्वित्व तथा प्रकृत सूत्र से प्रथम छकार को चवर्गीय प्रथम चकार वणदिश ।।२८२।
२८३. वा विरामे [२।३।६२] [सूत्रार्थ]
विराम के विषय में धुट्संज्ञक वर्गों के स्थान में प्रथम अथवा तृतीय वर्ण आदेश होता है ।२८३।
[दु० वृ०]
विरामे धुटां वर्णानां प्रथमस्तृतीयो वा भवति । विधप्, विधब् । वाक्, वाग् ।। २८३।
[दु० टी०]
वा वि० । वाशब्द इह समुच्चयार्थो न विकल्पार्थः । विकल्पार्थे हि 'विदभ्नोति' इति क्विपि कृते पक्षे भकारस्य स्थितिः स्यात् । यदि पुनरयं विकल्पार्थः स्यात्, अधिकृतेनैव वाग्रहणेन सिध्यति व्याख्यानतो विशेषार्थप्रतिपत्तेर्वेति “पदान्ते धुटां प्रथमः" (३।८।१) इत्यस्यापवादोऽयं 'ज्ञानभुदाश्रयः, ज्ञानभुट्टीकनम्' इत्यादि, तस्याचरितार्थत्वात् ।। २८३।
[वि० प०]
वा वि० । प्रथमस्तृतीयो वेति । वाशब्दः समुच्चये । प्रथमो भवति, तृतीयो वेत्यर्थः । यदि पुनर्विकल्पार्थः स्यात् तदा विदभ्नोतीति क्विपि कृते पक्षे भकारस्थितिरपि स्यात्, अस्त्वेतदिति चेद् नैवम् । व्याख्यानतो विशेषार्थप्रतिपत्तेः समुच्चयार्थ एवायं