________________
३९६
कातन्त्रव्याकरणम्
तिसदृशे प्रत्यये सौ च भवतीत्यर्थः । बहुलत्वं तु तथैव समासेऽपि प्रत्ययलोपलक्षणाद् भवत्येव । छन्दस्येतौ योगाविति भाष्यकारो भाषते । सर्ववर्म्मणस्तु वचनाद् भाषायामप्यवसीयते । तथा च मघवद्वज्रलज्जानिदानमिति, 'श्लथीकृतप्रग्रहमर्वतां ब्रज' इति च दृश्यते । वन्तुना प्रयोग इति परो ब्रूते तर्हि व्याप्तिरपि स्यात् || २४४ |
[वि० प० ]
सौ च० । प्रकृतत्वादिह विभक्तिरेवानुवर्तते । यद्यपि विभक्तिग्रहणेन सेरपि ग्रहणं तथापि ‘असौ' इति प्रतिषेधनिरासार्थं सौ चेति कृतमित्याह - विभक्तौ सौ चेति । कथन्तर्हि माघवतम् इत्याह- तद्धित इत्यादि । इहायं वाशब्दो वक्ष्यमाणे पुनर्वाग्रहणाद् बहुलार्थः प्रतिपत्तव्यः, तद्वलादेतेष्वपि भवतीत्यर्थः ।। २४४।
[क० च० ]
सौ च० । ननु भघवन्तुरादेश इति कथं विज्ञायते, मघवानिति दीर्घो वनान्त एवादेशः कथन्न स्यात् । नैवम् । अर्वन्तिप्रस्तावाद् हस्वोपवस्त्वन्त एवादेश इति । ननु तथाप्युदनुबन्धत्वं कथं ज्ञातमिति चेद् अत एव दीर्घात् । कथमन्यथा " अन्त्वसन्तस्य चाधातोः सौ” (२।२।२० ) इत्यनेन दीर्घः स्यादिति || २४४ |
[समीक्षा]
‘मघवन् + सि, मघवन् + औ, मघवन् + जस्, मघवन् + सुप्, मघवन् + अण् + सि, मघवन् + य + सि, मघवन् + ई' इस अवस्था में मघवन् शब्द को 'मघवन्तु' आदेश करके कातन्त्रकार ने 'मघवान्, मघवन्तौ मघवन्तः, मघवत्सु, माघवतम्, मघवत्यम्, घवती' शब्द सिद्ध किए हैं। पाणिनि ने 'मघवन्' शब्द के अन्तिम वर्ण को 'तृ' आदेश (मघवा बहुलम् - अ० ६ |४|१२८) तथा नुमागम (अ० ७/१/७०) का विधान किया है । इस प्रकार पाणिनीय प्रक्रिया में गौरव स्पष्ट है !
सूत्र में 'मघवान्' शब्द का उल्लेख है 'मघवन्तु' काहीं; फिर मघवन्तु आदेश का उल्लेख वृत्तिकार ने क्यों किया है, इसके कारणों का स्पष्टीकरण व्याख्याकारों ने किया है ।
[ रूपसिद्धि ]
१. मघवान्। मघवन् सि । सिलोप, मघवन्तु आदेश, " अन्त्वसन्तस्य० (२।२।२० ) से दीर्घ तथा संयोगान्तलोप |
""