________________
नामचतुष्टयाप्याये तृतीयो पुष्पत्पादः तस्माद् अनवकाशत्वात् प्राग् गत्वमेव प्राप्नोतीति हान्तत्वाभावान्नादिचतुर्थत्वं भवितुमर्हति, अकृतवद्ग्रहणात् प्राक् प्रवर्तमानमपि गत्वं पश्चाद् भवतीत्याहुः । अपरे तु व्यक्तिपक्षे ग्रन्थो योजनीयः इत्याहुः । तथाहि - 'व्यक्ती प्रतिलक्ष्ये लक्षणानि भिवन्ते' इति न्यायाद् ‘गोधुक्' इत्यत्रानवकाशत्वेन हकारस्य बलवत्त्वाद् प्राग् आदिचतुर्थत्वं प्राप्तुमर्हति । तदा दादित्वेनानवकाशत्वाद् गत्वमपि प्राप्तुमर्हतीति । उभयोरेवानवकाशत्वे किं स्यादिति विरोधात् पर्यायेण प्राप्तौ ‘गोधुट् , गोधुक्' इति पदद्वयस्य प्रसङ्गः स्यात्, यथा व्यक्तौ पर्यायेण प्राप्तौ 'युगपद् वचन' इति वक्ष्यति । ततश्च यस्मिन् पक्षे हकारोपादानबलाद् आदिचतुर्थत्वं प्रवर्तते, तस्मिन्नेव पक्षे दादित्वाभावाद् गत्वस्याप्राप्तिरेवेति । उभयविरोधपरिहारार्थम् अकृतवद्ग्रहणमिति पत्रीकृतो हृदयम् । ननु तथापि अकृतवद्ग्रहणं गत्वसाधकं न क्रियताम्, गोधुगित्यत्र चतुर्थत्वेऽपि एकदेशविकृतस्यानन्यवद्भावाद् गत्वं भविष्यतीति चेत् तथापि यद् अकृतवद्ग्रहणं तद् बोधयति -अस्वशब्दोक्ते एकदेशविकृतस्यानन्यवद्भावादिति नास्तीति । अत्र दादित्वेनैव स्वशब्दोक्तत्वात् । अतो नास्वशब्दोक्तत्वादिति परिभाषेति हेमकराशयः ।।२७१।
[समीक्षा]
'निगुह् + सि, निगुह् + भ्याम्, ज्ञानबुध् + सि, ज्ञानबुध् + भ्याम्, गर्दभ् + सि, गर्दभ् + भ्याम्, गर्दभ् + त्व' इस अवस्था में कातन्त्रकार तथा पाणिनि दोनों ही आचार्य अन्तिम वर्ण से पूर्ववर्ती वर्गीय तृतीय वर्ण को चतुर्थ वदिश करके 'निघुट् , निघुड्भ्याम्, ज्ञानभुत्, ज्ञानभुद्भ्याम्, गर्धप्, गर्धब्भ्याम्, गर्धप्त्वम्' आदि शब्दरूप सिद्ध करते हैं । एतदर्थ पाणिनि ने भष्भाव का प्रयोग किया है - "एकाचो वशो भष् अषन्तस्य स्वोः" (अ०८।२।३७)।
[विशेष]
१. 'गोदुह् + सि' इस अवस्था में द् को ध् आदेश पूर्व हो जाने पर धातु के दकारादि न रहने पर "दादेहस्य गः" (२।३।४७) से ह् को ग् आदेश नहीं हो सकता है, फलतः ‘गोधुक्' आदि रूप निष्पन्न नहीं किए जा सकते । अतः सूत्रकार ने प्रकृत चतुर्थवणदिश को 'अकृतवत्' कहा है, जिससे गकारादेश उपपन्न हो जाता है।