________________
४३३
नामचतुष्टयाध्याये तृतीयो युष्पत्पादः न्यायात् समुदायस्य प्रवर्तमानेऽकारस्याकारकरणे प्रयोजनाभावात् । न चोत्तरत्रानुवर्तने प्रयोजनमिति वाच्यम् । 'अनडुहि' इत्यत्र अनडुदिति दकारमात्रस्य दर्शनादिति कुलचन्द्रः।।२६४।
[समीक्षा]
'अप् + भिस्, स्वप् + भ्याम्' इस अवस्था में पाणिनि तथा शर्ववर्मा दोनों ही शाब्दिकाचार्यों ने प् को द् आदेश का विधान करके ‘अद्भिः, स्वद्भ्याम्' शब्दरूप सिद्ध किए हैं। पाणिनि का सूत्र है- "अपो मि" (अ० ७।४।४८)। इस प्रकार उभयत्र साम्य ही है।
[रूपसिद्धि]
१. अद्भिः । अप् + भिस् । प्रकृत सूत्र से पकार को दकार तथा "रेफसोविसर्जनीयः" (२।३।६३) से स् को विसर्गादेश ।
२. स्वद्भ्याम् । स्वप् + भ्याम् । शोभना आपो ययोस्ताभ्याम् । पूर्ववत् प्रकृत सूत्र से पकार को दकारादेश ।।२६४ |
२६५. विरामव्यानादिष्वनडुन्नहिवन्सीनांच [२।३।४४] [सूत्रार्थ]
विराम के विषय में तथा व्यञ्जनादि प्रत्यय के परे रहने पर अनड्वाह्, नभागान्त शब्द एवं वन्स्भागान्त शब्दों के अन्तिम वर्ण को 'द्' आदेश होता है ||२६५।
[दु० वृ०]
विरामे व्यञ्जनादिषु च अनडुनहिवन्सीनां च लिङ्गानाम् अन्तस्य दो भवति । स्वनडुत्, स्वनडुद्भ्याम् । उपानत्, उपानद्भ्याम् ।सुविद्वत्, सुविद्वद्भ्याम् । व्यञ्जनमिह सामान्यम् ।तेन -अनडुत्ता, उपानत्ता, विद्वता ।ये नेष्यते - अनडुह्यम्, उपानह्यम् ।।२६५ ।
[दु० टी०]
विराम० ।विरमणं विरामोऽवसानम् ! व्यञ्जनमेवादिर्वेषामिति बहुव्रीहिः । एकापीयं सप्तमी अर्थवशाद् भिद्यते । विरामकृतं पौर्वापर्यं नास्तीति विरामविषये व्यअनादिषु परत इत्यर्थः । वन्स्यनडुहोस्तु विरामेणैवोदाहरणं संयोगान्तलोपेनाधिष्ठितत्वान्नपुंसकेऽपि विरामव्यञ्जनादावुक्तं नपुंसकादित्यतिदेशबलात् सिध्यति । ननु विरामे दत्वं संयोगान्तलोपं किमिति न बाधते 'येन नाप्राप्तौ यो विधिरारभ्यते स तस्य बाधकः' (व्या०परि० ४२)