________________
३७७
नामचतुष्टयाध्याये तृतीयो युष्मत्पादः आकमः स्थानिवद्भावाद् यदा पुनः पश्चात् सुरागमस्तदा कथं सिध्यति । अथ 'सकृद्गतौ विप्रतिषेधे यद् बाधितं तद् बाधितमेव' (का० परि० ३६) इति न्यायात् सुरागमो न भविष्यति ? सत्यम् । तथापि सकारग्रहणं केवलस्य मा भूद् इत्याह-सामित्यादि । प्रिया यूयं येषां त्वामतिक्रान्तानाम् इति विग्रहे युष्मदस्मदोरुपसर्जनत्वादिह सर्वनामत्वं नास्तीति, न च सुरागमः । किं च युवाम् आवाम् इत्यत्र "अमौ चाम्" (२।३।८) इति कृतेऽपि स्यात्, विशेषाभावादिति ।।२३७।
[क० च०]
सामा०। सामाकम् आपद्यते इति द्वितीया कथन्न प्रतीयते ? सत्यम् । सर्वत्रादेशस्य प्रथमान्ततया दृष्टत्वादादेशिनामकारस्तेन सह साहचर्याद् वा नेयं शङ्का आगमयुक्तत्वाद् युष्मदस्मदोरेव न गौणस्येति । अतो युष्मदस्मदोर्निदर्शनार्थम् आभ्यामिति वृत्तौ पाठः । अथ किमिदं सामित्यस्य किमभिधेयमित्यर्थः । अथ युष्मदस्मत्सम्बन्धिन्यामिति भविष्यति इत्याह - किञ्चेति । “अमौ चाम्" (२।३।८) इति कृते स्यादिति पञी। नन्वत्र लाक्षणिकत्वादेव न भविष्यति ? सत्यम् । युष्मानाचक्षाणानामित्यर्थे 'यूषां युष्माम्' इति । अत्र आकम् न स्यादिति । एतदपि विषयीकरोति ।। २३७)
[समीक्षा]
'युष्मद् + आम्, अस्मद् + आम्' इस अवस्था में सु या सुट् आगम करके 'साम्' के स्थान में 'आकम्' आदेश का विधान कातन्त्रकार तथा पाणिनि दोनों ही आचार्य करते हैं, जिसके फलस्वरूप 'युष्माकम्, अस्माकम्' शब्दरूप सिद्ध होते हैं । पाणिनि का भी एतादृश ही सूत्र है- “सामाकम्" (अ०७।१।३३)। अतः उभयत्र समानता ही है।
[रूपसिद्धि]
१. युष्माकम् । युष्मद् + आम् । 'युष्षद्' शब्द की सर्वनामसंज्ञा, "सुरामि सर्वतः” (२।१।२९) से 'सु' का आगम, "तृतीयादौ तु परादिः" (२।१।७) के नियमानुसार आम् के आकार से पूर्व में इसकी योजना तथा प्रकृत सूत्र से साम् को आकम् आदेश ।
२. अस्माकम्। अस्मद् + आम् । पूर्ववत् सर्वनामसंज्ञा, सु का आगम तथा प्रकृत सूत्र से साम् को आकम् आदेश ।।२३७।