________________
३७२
कातन्त्रव्याकरणम्
[वि० प०]
तव० । 'अतितव, अतिमम' इत्यत्रापि अतिक्रान्तस्येति विशेषः । ननु च युष्मदस्मदादीनां सर्वनामत्वात् कृतस्याकस्तद्ग्रहणेनैव ग्रहणात् तेनैव सह युवावादय आदेशा भवितुमर्हन्ति । तत् कथं युवकाभ्याम्, आवकाभ्याम् इत्यादिषु अकः श्रवणं स्यात् ? सत्यम् । तत्र बहुलत्वाद् आदेशेषु युवावादिषु कृतेषु पश्चादक् भविष्यतीत्याह – युवावादिषु इत्यादि । एवं ‘तवक - ममक' इति उभयोः स्थाने निष्पन्नत्वाद् आदेशस्य सर्वनामत्वं नास्तीति, तत् कथं तवक- ममक' इत्यादौ अक्प्रत्यय: स्यात् ? सत्यम् । तत्र बहुलत्वाद् अग् वेदितव्यः ।।२३४॥
[क० च०]
तव० । अक्-श्रवणम् इत्यकः ककारस्य श्रवणमित्यर्थः । सत्यमित्यादि । ननु किमर्थं बहुलाश्रयणम् ‘आगमात् सवदिशविधिर्बलवान्' (का० परि० ४१) इत्यनेनैवाग्रतो युवावादेशे कृते पश्चाद् अक् भविष्यति ? सत्यम् । अन्तरङ्गत्वाद् युवेत्यनुत्पत्तिदशायामेवाकि युवकाभ्याम् इति न सिध्यतीति बहुलाश्रयणम् ।।२३४ |
[समीक्षा
'युष्मद् + ङस्, अस्मद् + ङस् , अतियुष्मद् + ङस् , अत्यस्मद् + ङस्' इस अवस्था में कातन्त्रकार इस्प्रत्यय के साथ युष्मद् को 'तव' तथा अस्मद् को 'मम' आदेश करके अभीष्ट रूप निष्पन्न करते हैं । पाणिनि ने 'युष्म्-अस्म्' को 'तव- मम' आदेश, "सोऽश्" (अ० ७।१।२७) से ङस् को अश् तथा अद्- भाग का “शेषे लोपः" (अ०७।२।९०) से लोप का विधान किया है । इससे पाणिनीय प्रक्रिया का गौरव स्पष्ट है।
[रूपसिद्धि]
१. तव । युष्मद् + ङस् । युष्मद् को त्वद् आदेश ( ? ), "एषां विभक्तावन्तलोपः" (२।३ । ६) से लोप तथा प्रकृत सूत्र द्वारा ‘त्व + ङस्' के स्थान में 'तव' आदेश |
२. मम । अस्मद् + ङस् । अस्मद् को ‘मद्' आदेश ( ? ) दकारलोप एवं प्रकृत सूत्र से 'म + ङस्' को 'मम' आदेश ।