________________
कातन्वयाकरणम्
संभवति, यदा दीर्घश्रुतिर्भवतीति । दीर्घश्रुतिरपि तदैव संभवति, यदा सन्निपातलक्षणपरिभाषाबाधया जरसादेशे भवतीति भावः । अत इत्यादि । ननु अस्य मते परत्वात् पूर्वमेव जरस्विकल्पपक्षे इकारः, एतावतैव जरसौ, जरे इति सिध्यति । तत्कथमुक्तं सन्निपातलक्षणत्वाज्जरसादेशो न भवतीति ? सत्यम् । एवं योज्या पनी । यथा परमते सन्निपातलक्षणत्वाज्जरसादेशो न भवतीति हेतोर्दीर्घबलात् सन्निपातलक्षणपरिभाषाबाधया जरस् भवति, न तथा स्वमत इति । अपि तु परत्वात् पूर्वमेव जरस् इति हेमकराभिप्रायः। ___ यद् वा वररुचिमतं दूषयन्नाह - अत इत्यादि । अतो दीर्घकरणादित्यर्थः । अयमभिप्रायः - येऽपि दीर्घमाहुस्तन्मतेऽपि 'जरसी' इति पदं न भवितुमर्हतीति । यतो दीर्घकरणबलादीकारस्य जरसादेशादग्रतो विधानेन सफलत्वात् सन्निपातलक्षणत्वाज्जरस् न भवतीति दीर्घकरणम् । एतेन तन्मते 'जरे' इत्येव पदं नित्यं भवितुमर्हति । यद् वा तबलादित्यस्यायमभिप्रायः – केचिद् दीर्घकरणं भूतपूर्वश्रद्धार्थमाहुः । तन्मते तबलाद् भूतपूर्वश्रद्धार्थं दीर्घकरणबलात् सन्निपातलक्षणन्यायस्य बाध एव तद्विषयस्य घटनात् तदप्रवृत्तेः । यत्तु स्वमते सन्निपातलक्षणत्वाज्जरस्न भवतीत्युक्तम् । अस्यायमभिप्रायः - परमते दीर्घबलाद् दीर्घस्य यः सन्निपातः सन्निकर्षस्तल्लक्षणं दीर्घकरणं तद्धतोर्जरसी इति यदुक्तं तदपि न भवति, परत्वादेव पूर्वं जरसादेशस्य प्राप्तेः ।। १२० ।
[समीक्षा]
'श्रद्धा +औ, माला + औ' इस अवस्था में कातन्त्रकार 'औ' को 'इ' आदेश और आ को ए आदेश करके 'श्रद्धे, माले' शब्दरूप सिद्ध करते हैं, जब कि पाणिनि ने यहाँ औ को शी-विधान किया है - "औङ आपः" (अ० ७।१।१८)।
कातन्त्र के कुछ व्याख्याकार ह्रस्व इकारादेश में दोष दिखाते हैं । उनका अभिमत है कि 'जरा + औ' इस अवस्था में पर तथा अन्तरङ्ग होने के कारण जरा को जरस् आदेश पहले ही प्रवृत्त होगा और इस प्रकार आकारान्त के अभाव में श्रद्धासंज्ञा भी नहीं होगी, फलतः ‘औ' को 'इ' आदेश भी नहीं होगा । अतः 'जरसौ' रूप बनेगा 'जरसी' नहीं । जरसादेश के अभाव में औकार को इकारादेश तथा आकार को एकारादेश करने पर 'जरे' यह शब्दरूप निष्पन्न होगा ।