________________
१३७
नामचतुष्टया माये प्रथमो धातुपादः [वि० प०]
शसो० । इह चकारकरणाद् वाक्यार्थद्वयम् । एकः शसोऽकारः पूर्वस्वरमापद्यते, अन्यः सश्च न इति । अत्र ‘अस्त्रियाम्' इति सन्निहितेनैव संबध्यते, न तु व्यवहितेनेत्याह - सश्च नो भवत्यस्त्रियामिति । सान्निध्यं तु पाठकृतमेव ।।१३१।
[क० च०]
शसो० । ननु शसोऽकारः सकारनकारौ भवत इत्यर्थः कथं न स्यादिति चेत्, न । तदा चकारं विहाय स्नाविति विदध्यादित्याह - इह चकारेत्यादि । तस्मात् स इति षष्ठ्यन्तं पदम् । ननु ‘कार्य कार्येण हन्यते' इति न्यायात् कथं पूर्वस्वरमापद्यते इत्युच्यते अकारः सकारश्च नकारो भवतीत्यर्थः कथन्न स्यात्, नैवम् । यद्यादेशस्यैकत्वमुच्यते तदा 'शस् न' इति विदध्यात् । आदेशद्वयं चेत् तदा शसो नकाराविति कृतं स्यात्, किं भिन्नवाक्यार्थचकारकरणेनेति ? अत एव हेमकरेणापि पूर्वकार्यस्य न बाधेत्युक्तमित्याह - चकारेत्यादि ।। १३१ ।
[समीक्षा]
'अग्नि + शस्, पटु + शस्' इस अवस्था में कातन्त्रकार अ को इ तथा स् को न् आदेश करके अग्नीन्, पटून्' शब्दरूप सिद्ध करते हैं | पाणिनि ने पूर्वसवर्ण दीर्घ तथा सकार को नकारादेश का विधान किया है – “प्रथमयोः पूर्वसवर्णः, तस्माच्छसो नः पुंसि" (अ० ६।१।१०२, १०३)। अतः उभयत्र साम्य ही है।
व्याख्याकारों ने सूत्र के 'शसोऽकारः सकारनकारौ भवतः' तथा 'शसोऽकारः सकारश्च नकारौ भवतः' इन अर्थों की भी कल्पना की है, परन्तु हेमकर आदि आचार्यों के अभिमतानुसार दो अर्थों वाले ही पक्ष को समीचीन बताया गया है१. शसोऽकारः पूर्वस्वरमापद्यते, २. सश्च नो भवत्यस्त्रियाम् ।
[रूपसिद्धि]
१. अग्नीन् । अग्नि + शस् । “दुदग्निः" (२। १।८) से अग्निसंज्ञा, प्रकृत सूत्र से 'शस्' प्रत्यय -घटित अकार को इकार, "सपानः सवर्णे दीर्धीभवति परश्च लोपम्" (१।२।१) से पूर्ववर्ती इकार को दीर्घ, परवर्ती इकार का लोप तथा शस्प्रत्ययस्थ सकार को नकारादेश |