________________
नामचतुष्टयाध्याये तृतीयो युष्पत्पादः
३४९ ३-४. पुत्रस्ते दास्यति । पुत्रस्तुभ्यं दास्यति । पुत्रो मे दास्यति । पुत्रो मह्यं दास्यति । 'पुत्रः' पद के पूर्ववर्ती होने पर 'युष्मद्- अस्मद्' के चतुर्थी- एकवचन 'डे' प्रत्यय में निष्पन्न 'तुभ्यम् - मह्यम्' के स्थान में क्रमशः 'ते-मे' आदेश |
५-६. पुत्रस्त्वा पातु | पुत्रस्त्वां पातु । पुत्रो मा पातु | पुत्रो मां पातु । 'पुत्रः' पद के पूर्व में रहने पर 'युष्मद्-अस्मद्' शब्दों से द्वितीयाविभक्ति - एकवचन ‘अम्' प्रत्यय में निष्पन्न ‘त्वाम्- माम्' के स्थान में क्रमशः 'त्वा-मा' आदेश ।।२२४।
२२५. न पादादौ [२।३।४] [सूत्रार्थ]
'युष्मद्- अस्मद्' शब्दों से षष्ठी- चतुर्थी- द्वितीया विभक्तियों के बहुवचनद्विवचन- एकवचन में निष्पन्न पद यदि श्लोकपाद के आदि में प्रयुक्त हों तो उनके स्थान में उपर्युक्त 'वस्- नस्-वाम्- नौ-ते - मे- त्वा-मा' आदेश नहीं होते हैं ।।२२५ ।
[दु० वृ०] पादस्यादौ वर्तमानानां युष्मदस्मदादीनां पदमेतान् आदेशान् न प्राप्नोति ।
रुद्रो विश्वेश्वरो देवो युष्माकं कुलदेवता।
स एव नाथो भगवान् अस्माकं पापनाशनः॥ पादादाविति किम् ? 'पान्तु वो नरसिंहस्य' इत्यादि ।। २२५ । [दु० टी०]
न पादा० । वृत्तानामार्यादीनां चतुर्थो भागः पाद इह गृह्यते । आदिशब्दोऽयमिह गुणमात्रे वर्तते, विषयसप्तमीयम् । 'आमन्त्रितं पूर्वमविद्यमानवत्' इति न वक्तव्यम् । यस्माद् आमन्त्रणमाक्षिप्तक्रियापदं वर्तते । हे देवदत्त! अभिमुखे भवः इत्याभिमुख्ये नियुज्यते ।अभिमुखीभूतः क्रियायां विनियुज्यते ।तत्र देवदत्तेत्येतावतार्थस्य समाप्तत्वात् कुतो भिन्नवाक्यपदात् प्राप्तिरिति । छात्रा युष्माकं स्वम्, छात्रौ युवयोः स्वम्, छात्र तव स्वम् । यदा पुनरियं युक्तिरनित्या तदा विभाषा भवत्येव ।
अत आह-जसन्तं विशेष्य वाऽऽमन्त्र्य परमविद्यमानवदिति । छात्रा वैयाकरणा युष्माकं स्वम् । छात्रा वैयाकरणा वः स्वम् इत्यादि व्यवस्थितविभाषया च सामान्यवचनं