________________
कातन्त्रव्याकरणम्
त्वन्मदोः कार्यिणोरिति । ननु पदस्यैव कार्यित्वम्, न तु त्वन्मदोः । कार्यिसम्बन्धवानिति यः कार्यौति कथमुक्तं त्वन्मदोः कार्यिणोरिति ? कार्यपरम्परया अत्रापि भवतीति त्वन्मदोरपि कार्यित्वं न तु त्वन्मदादेशेनेति व्याप्तिन्यायादित्यर्थः । तुशब्द इत्यादि । ननु द्वितीयायां कथं ते मे न भवतः, तत्र त्वामित्यस्ति बाधकमित्याह - न चेति ।
३४८
न च विकल्पपक्षे तिष्ठतु । अत्र कश्चित् 'ते मे' इति कृत्वा उभयोरेवार्थत्वात्, तन्न चारुतरम् । द्वितीयायामेकत्वे पुनस्त्वामादेश इति पञ्जीस्वरसात् । तस्माद् विशिष्टमेतत् सामान्यं बाधते । ननु कथमत्र सामान्यविशेषभावः षष्ठीचतुर्थ्योर्मध्ये द्वितीया नास्त्येव उभयोर्विशेषरूपत्वाद् यथा सामान्यविशेषभावे । 'अथ परस्मैपदानि ” (३ | १1१ ) इत्यत्र अथशब्देन द्योतकमात्रं स्यामहिपर्यन्तं परस्मैपदसामान्यं सर्वत्रैवास्ति । अतः “नव पराण्यात्मने” (३ । १ । २) इति सामान्यं बाधते । ननु कथमत्रानेनैवमत्रापि विद्यते, यतः षष्ठीचतुर्थीद्वितीयास्विति द्वन्द्वे निष्पन्नं नाम्नां समुच्चयो हि द्वन्द्वः ततः समुच्चीयमानत्वात् पर्यनुगतमिति तस्मिन् द्वितीयापि विद्यते ।" त्वा मा तु द्वितीयायाम्” इत्यत्र द्वितीयात्वेनास्य विशेषत्वमेव । अतस्त्वन्मद्भूतयोरित्यतिदेशबलम्, अनेनोक्तं मुख्यत्वात् ।। २२४ |
[समीक्षा]
'पुत्रस्तव, पुत्रस्तुभ्यं दास्यति' वाक्यों में 'तव - तुभ्यम्' के स्थान में 'ते' तथा 'पुत्रो मम पुत्रो मह्यं दास्यति' आदि में 'मम मह्यम्' के स्थान में 'मे' अथ च पुत्रस्त्वां पातु, पुत्रो मां पातु' इत्यादि स्थलों में ' त्वाम् माम्' के स्थान में 'त्वा-मा' आदेश कातन्त्रकार तथा पाणिनि दोनों ही वैयाकरण करते हैं । इसके फलस्वरूप 'पुत्रस्ते, पुत्रस्त्वा, पुत्रो मे पुत्रो मा' आदि रूप सिद्ध होते हैं । 'ते मे' तथा 'त्वामा' आदेशों के लिए पाणिनि के दो पृथक् सूत्र हैं- “तेमयावेकवचनस्य, त्वामौ द्वितीयायाः " ( अ० ८।१।२२, २३) ।
[रूपसिद्धि]
१ - २. पुत्रस्ते । पुत्रस्तव । पुत्रो मे पुत्रो मम । 'पुत्रः' पद के पूर्व में रहने पर 'युष्मद्- अस्मद्' से षष्ठी - एकवचन 'ङस्' प्रत्यय में निष्पन्न 'तव मम' के स्थान में क्रमशः 'ते मे' आदेश ।