________________
२६८
कातन्त्रव्याकरणम्
परन्तु कातन्त्रीय प्रक्रिया के अनुसार केवल ओकार को आकारादेश किया गया है, तदनन्तर दीर्घ तथा लोप भी करना पड़ता है । अतः यहाँ पाणिनीयप्रक्रिया में ही लाघव है।
[रूपसिद्धि]
१. गाम् । गो + अम् । प्रकृत सूत्र से गो- शब्दान्त्य ओकार को आकार, "समानः सवर्णे दीर्घाभवति परश्च लोपम्" (१।२।१ ) से दीर्घ आदेश तथा अम्प्रत्ययस्थ अकार का लोप ।
२. गाः । गो + शस् । पूर्ववत् ओ को आ-आदेश, समानलक्षण दीर्घ, अकारलोप तथा “रेफसोर्विसर्जनीयः' (२।३।६३) से स् को विसर्ग आदेश ॥१९०।
१९१. पन्थिमन्थिऋभुक्षीणां सौ २।२।३५] [सूत्रार्थ]
'सि' प्रत्यय के परवर्ती होने पर ‘पन्थि' आदि शब्दों के अन्त को 'आ' आदेश होता है ।। १९१।
[दु० वृ०]
पथ्यादीनामन्त आ भवति सौ परे । पन्थाः, हे पन्थाः!; मन्याः, हे मन्थाः!; अभुक्षाः, हे अभुक्षाः! ।।१९१।
[दु० टी०]
पन्थि० । पन्थिमन्थिरित्यौणादिको निपातः । ऋभुक्षा विद्यते अस्येति, अस्मादेव वचनाद् 'इ' प्रत्ययो ज्ञातव्यः । संबुद्धौ च परत्वाद् आत्मेवेत्याह – 'हे पन्थाः' ! इति । मन्थि-ऋभुक्षिभ्यां सहचरितः पन्थिशब्द इकारान्तो गृह्यते । तेन ‘राज्ञां पन्थाः' इति विग्रहे राजादित्वाददन्तता राजपथः इति । कथं सुपथी, सुमयी स्त्री; अनृभुक्षी सेना, विभक्तिषु लिङ्गविशिष्टस्याग्रहणात् । तर्हि पथीयतेः क्विप् पथीः ; एवं मथीः । अभुक्षीरित्यत्रापि स्यात्, नैवम् । 'ऋभुक्षीणाम्' इत्यस्य सहचरितस्य रूपप्रधाननिर्देशात् ।
केचित् ‘पन्थिन्, मन्थिन्, ऋभुक्षिन्' इति नान्तां प्रकृतिं गृह्णन्ति । तन्मते "अनन्तो घुटि" (२।२।३६) इत्यत्र न अन्तोऽनन्तः इति पर्युदासाद् अन्तसमीपस्य अकारो