________________
नामचतुष्टयाध्याये द्वितीयः सखिपादः
२१७. स्त्री च [ २।२।६१]
३२३
[सूत्रार्थ]
विभक्तिसम्बन्धी स्वरवर्ण के परे रहते स्त्रीशब्द को धातुवद्भाव होता है ।। २१७।
[दु० बृ०]
स्त्रीशब्दो धातुवद् भवति विभक्तिस्वरे । स्त्रियौ, स्त्रियः ।। २१७ | [दु० टी०]
स्त्री० । स्त्रियमतिक्रान्ताविति विग्रहे यदा अप्रधानस्य ह्रस्वो विधीयते, तदौकारे, ओसि च कथमियादेशः, अम् - शसोरपि कथं विभाषा अतिस्त्रियौ, अतिस्त्रियः । अतिस्त्रियम्, अतिस्त्रीम् । अतिस्त्रियः, अतिस्त्रीन् पश्य इति धातुवद्भावे नहि दीर्घयोरियुवौ प्रवर्तेते ? सत्यम् । एषु वचनेषु स्त्रीशब्दस्याप्रधानस्यापि न " स्वरो हस्वो नपुंसके” (२।४।५२) इति योगविभागादियमिष्टसिद्धिरिति । अन्येषु विभक्तिस्वरेषु ह्रस्व एवेति इदुत्कार्यमेव । यथा 'अतिस्त्रियः, अतिस्त्रिणा' इत्यादि समूहनीयम् । 'शस्त्र्यौ, शस्त्र्यः' इत्यत्र न भवति 'अर्थवद्ग्रहणे नानर्थकस्य' (का० परि० ४ ) इति न्यायात् “भूरवर्षाभूरपुनर्भूः " ( २ । २ । ५८) इति वचनानन्तरं “भ्रूः स्त्री च, वाऽम्शसोः, अनेकाक्षरयोस्त्वसंयोगाद् यवौ' इति कृते विभाषा संबध्यते यत्ववः विधौ । अथ 'भवतो वादेरुत्वम्” (२२/६३) इति पुनर्वचनं क्रियते । 'द्वयोर्विभाषयोग् ये यो विधिः स नित्यः' (का० परि० ११ ) इति किं धातुवद्भावेन चेत्, न । प्रतिपत्तिरियं गरीयसी । अथ 'आ धातोरघुट्स्वरे" (२।२।५५) ततः “ईदूतोरनेकाक्षरयोस्त्वसंयोगाद् यवौ स्वरे” तदनन्तरम् इयुवावीत्यादौ कृतेऽसंयोगादिति संबध्यते, तदा 'श्रियौ, श्रियः' इति न सिध्यति । चकार उक्तसमुच्चयमात्रे ।।२१६।
66
[समीक्षा]
'स्त्री + औ, स्त्री + जस्' इस स्थिति में कातन्त्रकार तथा पाणिनि दोनों ही ई को इस आदेश करके 'स्त्रियौ, स्त्रियः' शब्दरूप सिद्ध करते हैं । अन्तर यह हैं कि पाणिनि “ स्त्रियाः" (अ० ६ । ४ । ७९ ) सूत्र द्वारा साक्षात् इयङ् आदेश का विधान करते हैं, जबकि कातन्त्रकार ने धातुवद्भाव करके इयु आदेश किया है।