________________
कातन्त्रव्याकरणम्
है - "इकोऽचि विभक्तौ " (अ० ७ १।७३) । अपनी- अपनी रचनाशैली के अनुसार अनुबन्धयोजना भिन्न-भिन्न की गई है। अतः उभयत्र प्रक्रियासाम्य है ।
[ रूपसिद्धि]
२२२
१. वारिणी । वारि + औ । “औरीम् ” ( २।२।९) से औ को ई, प्रकृतसूत्र से 'नु' आगम, उसकी स्वर से बाद में योजना तथा " रघुवर्णेभ्यः ०" (२।४।४८ ) इत्यादि से नकार को णकारादेश |
२. वारिणे । वारि + ङे । प्रकृत सूत्र से 'नु' आगम, उसकी स्वर के पश्चात् योजना तथा नकार को णकारादेश || १६८ |
१६९. अस्थिदधिसक्थ्यक्ष्णामनन्तष्टादौ [ २।२।१३]
[ सूत्रार्थ ]
टा- आदि विभक्तिस्थ स्वर वर्ण के परवर्ती होने पर नपुंसकलिङ्ग में नाम्यन्त 'अस्थि, दधि, सक्थि तथा अक्षि' शब्दों के अन्तिम वर्ण के स्थान में 'अन्' आदेश होता है ।। १६९ ।
[दु० वृ०]
नाम्यन्तानां नपुंसकलिङ्गानामस्थ्यादीनां टादौ स्वरेऽन्तोऽन् भवति । अस्थ्ना, दध्ना, सक्थ्ना, अक्ष्णा, अत्यस्थ्ना, अतिदध्ना छात्रेण । अकारोच्चारणं किम् ? अस्नि, अस्थनि वा स्यात् || १६९ । [दु० टी०]
अस्थि० । नपुंसकग्रहणं नामिग्रहणं चास्थ्यादीनां विशेषणम् इति पञ्चम्यन्तमपि षष्ठ्यन्ततया विपरिणमते इत्याह - नपुंसकलिङ्गानामिति। पञ्चमीनिर्देशमन्तरेण विहितविशेषणं नास्ति, तदन्तविधिरेवेत्याह- अत्यस्नेत्यादि । अस्थ्यतिक्रान्तेन दध्यति - क्रान्तेन वा छात्रेण इति विगृह्य तत्पुरुषः । तथा अत्यस्थ्ना स्त्रिया, नपुंसकलिङ्गास्थ्याद्यन्तायाः प्रकृतेरनपुंसकवृत्तेरपि ग्रहणमुपपद्यते । केवलानामपि भवितव्यम्, व्यपदेशिवद्भावात् । 'त्रपुणी' इति नोरवकाशः 'प्रियास्थना' इत्यनादेशस्य अस्थ्ना, दध्ना इत्युभयप्राप्तौ परत्वादन् भवति । नन्वस्थ्यादीनि स्वभावतो नपुंसकान्येव, नपुंसकाधिकारः संज्ञाशब्दा