________________
२६४
कातन्त्रव्याकरणम् लोपाभावेऽपि घिरिति कथन्नाशक्यते ? नैवम्, अलोप इत्यर्थकथनमात्रम् । अल्लोप इत्येव सूत्रं कार्यमित्यर्थः ।। १८८।
[समीक्षा]
'वृत्रहन् + शस्, वृत्रहन् + टा' इस अवस्था में अकारलोप के अनन्तर कातन्त्रकार तथा पाणिनि दोनों ने ही ह को घ् आदेश करके 'वृत्रघ्नः, वृत्रघ्ना' शब्दरूप सिद्ध किए हैं | पाणिनि का सूत्र है - "हो हन्तेणिन्नेषु" (अ०७।३।५४)।
[रूपसिद्धि]
१. वृत्रघ्नः। वृत्रहन् + शस् । “अवमसंयोगाद्" (२।२।५३) से नकार की उपधा (अकार) का लोप, प्रकृत सूत्र से हकार को घकारादेश तथा "रेफसोविसर्जनीयः' (२।३।६३) से स् को विसर्गादेश ।
२. वृत्रघ्ना। वृत्रहन् +टा । पूर्ववत् नकार की उपधा (अकार) का लोप तथा ह् को घ् आदेश ।। १८८)
१८९. गोरौ घुटि [२।२।३३]
[ सूत्रार्थ]
घुट - संज्ञक प्रत्यय के परे रहते मुख्य 'गो' शब्द के अन्त को औ आदेश होता है ।। १८९।
[दु० वृ०]
गोर्मुख्यस्यौर्भवति घुटि परे । गौः, गावौ, गावः । गोर्युटीति किम् ? हे चित्रगो ! हे चित्रगवः ।। १८९।
[दु० टी०]
गोः। गोमुख्यस्येत्यादि । ‘गौणमुख्ययोर्मुख्य कार्यसम्प्रत्ययः' (कात० प० २) भवतीति । अथ किमर्थमिदमाश्रीयते चित्रा गौर्यस्येति विग्रहे गोरप्रधानस्यान्त्यस्य "स्त्रियामादादीनां च" (२।४।४९) इति ह्रस्वत्वे पदान्तरत्वान्न भविष्यति, नैवम् । 'एकदेशविकृतमनन्यवद्' (कात० प०१) इति प्राप्नोति । यथा 'अतिराभ्याम्' इत्यत्रात्वं 'येन विधिस्तदन्तस्य' (कात० प० ३)।