________________
१८५
नामचतुष्टयाध्याये प्रपमो पातुपादः ण० २) णत्वं दृश्यते । ग्रामस्य प्रधानभूतः पुमान् ग्रामणीरुच्यते । एवं ग्रामण्याम् । एकदेशविकृतस्यानन्यवद्भावाद् णत्वेऽप्याम् भवत्येव । येन वर्णेन शब्देन वा यो विधिरारभ्यते स तदन्तस्य भवति, एकसिगन्नाद्यन्तवदुपचारात् ।। १५६। ॥ इति श्रीदुर्गसिंहविरचितायां कातन्त्रवृत्तिटीकायां द्वितीये नाम्नि चतुष्टये प्रथमो पातुपादः समाप्तः॥
[वि० प०]
नियः ग्रामण्याम् इति । ग्रामं नयतीति । "सत्सूद्विषः"(४।३।७४) इत्यादिना क्विप्, तत्रापिशब्दबलात् पूर्वपदस्थेभ्यः संज्ञायामिति णत्वम् । ततश्च ग्रामप्रधानभूतः पुरुषो ग्रामणीरुच्यते । णत्वेऽप्येकदेशविकृतस्यानन्यवद्भावात् 'येन विपिस्तदन्तस्य' (कात० प०३) इति केवलस्याद्यन्तवद्भावात् ।। १५६। ॥ इति श्रीमत्रिलोचनदासकृतायां कातन्त्रवृत्तिपञ्जिकायां द्वितीये नाम्नि चतुष्टये प्रमो धातुपादः समाप्तः॥
[समीक्षा]
'नी + ङि, ग्रामणी + ङि' इस अवस्था में कातन्त्रकार तथा पाणिनि (डेराम्नद्याम्नीभ्यः - अ०७।३।११६) दोनों ही 'ङि' को 'आम्' आदेश करके नियाम्, ग्रामण्याम्' शब्दरूप निष्पन्न करते हैं । अतः उभयत्र साम्य ही है । सूत्ररचनाशैली के सिद्धान्तानुसार कातन्त्रकार कार्टी का प्रथमान्त तथा कार्य का द्वितीयान्त निर्देश करते हैं- ङि:+ आम् । पाणिनि के अनुसार कार्यों का षष्ठ्यन्त तथा कार्य का प्रथमान्त निर्देश होता है- डे: + आम् ।
[रूपसिद्धि]
१. नियाम् । नी + ङि । प्रकृत सूत्र द्वारा ङि को आम तथा "ईदूतोरियुवी स्वरे" (२।२।५६) से ई को इय् आदेश ।
२. ग्रामण्याम् । ग्रामणी + ङि । प्रकृत सूत्र से ङि को आम् “अनेकाक्षरयोस्त्व०" (२।२।५९) से ई को य् आदेश ।। १५६ ।
॥ इति द्वितीये नामचतुष्टयाप्याये समीक्षात्मकः प्रथमो पातुपादः समाप्तः॥