________________
कातन्त्रव्याकरणम्
भूतपूर्वगत्या सिलोप इति । व्याख्यानादिति । एतदव्यवहितपञ्जीकृद्व्याख्यानादित्यर्थः । ननु यदि भूतपूर्वगत्यैव ह्रस्वादपि सिलोपः क्रियते तदा 'हे वृक्ष' इत्यादौ कथं सिलोपः, विकाराभावेन भूतपूर्वगतेरभावात् ? सत्यम् । अत्रापि सिलोपात् पूर्वं भूत उच्चरित इत्यर्थे सत्यकारं प्रत्यपि भूतपूर्वत्वमस्त्येवेति न दोषः । विकारे सत्येव भूतपूर्वगतिरिति कः
शपथः ।
૧૭૪
'हे वृक्ष' इति । ननु यद्यकारं प्रत्येव ह्रस्वग्रहणं क्रियते तदा 'अनदी श्रद्धाभ्यः' इत्येव क्रियतामित्याह- उत्तरार्थत्वाच्चेति हेमकरः । तन्न । ' हे अम्ब, हे अक्क' इत्यत्र कथं सिलोपः, न चात्र नामी विकृतः ? सत्यम् । टीकाकृता परमतानुवादः कृतः । अस्मन्मते सेर्विसर्गान्त एवावसीयते || १५० |
[समीक्षा]
'हे वृक्ष + सि, हे अग्नि + सि, हे नदी + सि, हे श्रद्धा + सि' इस अवस्था में कातन्त्रकार ने सम्बुद्धिसंज्ञक 'सि' प्रत्यय का लोप करके 'हे वृक्ष, हे अग्ने, हे नदि, हे श्रद्धे' शब्दरूप सिद्ध किए हैं । पाणिनि ने भी सु-लोप का विधान किया है - " एड्हस्वात् संबुद्धेः " ( अ० ६ । १ । ६९) । अतः उभयत्र साम्य ही है |
[रूपसिद्धि]
१. हे वृक्ष ! हे वृक्ष + सि । " आमन्त्रिते सिः सम्बुद्धिः" (२।१।५) से सिप्रत्यय की संबुद्धिसंज्ञा, उसके ह्रस्वान्त लिङ्ग से परवर्ती होने के कारण प्रकृत सूत्र से लोप ।
२. हे अग्ने ! हे अग्नि + सि । पूर्ववत् ह्रस्वान्त लिङ्ग से परवर्ती संबुद्धिसंज्ञक 'सि' प्रत्यय का प्रकृत सूत्र से लोप ।
३. हे नदि ! हे नदी + सि । पूर्ववत् नदीसंज्ञक नदीशब्द से परवर्ती सि प्रत्यय का लोप तथा ईकार को हस्व
४. हे बघु ! हे वधू + सि । पूर्ववत् सिलोप तथा ह्रस्व |
५. हे श्रद्धे ! हे श्रद्धा + सि । सि-लोप तथा एकारादेश ।
६. हे माले ! हे माला + सि । सिलोप तथा एकारादेश || १५० |