________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
षष् + आम् । अनेन नुरागम:, “हशषछान्तेजादीनां डः, षंडो णो ने ” ( २ | ३ | ४६; ४ । ४३) इति डस्य णत्वम् । "तवर्गश्चटवर्गयोगे चटवर्गी" (२।४।४६ ) इति नस्य णत्वम् । पञ्चानामिति । तथैव आमि नुरागमः । “नान्तस्य चोपधायाः” (२।२।१६) इति दीर्घः । " लिङ्गान्तनकारस्य " (२।३।५६ ) इति प्रकृतिनकारस्य लोपः । 'येन विधिस्तदन्तस्य ' (कात० प० ३ ) इति सिद्धे किमन्तग्रहणमित्याह- अन्त इत्यादि । अन्यथा " अष्टनः सर्वासु ” (२ | ३ | २०) इति नकारस्यात्वे कृते नान्तत्वाभावान्नुरागमो न स्यात् । अथ 'आगमादेशयोरागमो विधिर्बलवान्' (कात० प० ४० ) इति भविष्यतीति चेत्, नैवम् |‘नित्यानित्ययोर्नित्यविधिर्बलवान्' (कात० प० ४९) इत्यात्वमेव स्यादिति । अत्रापि संख्याया इति संबन्धे षष्ठीयम् । अतः संख्यायाः संबन्धिन्यामीति विशेषणात् समाससंबन्धिन्यामीति न भवति । प्रियाः षड् येषाम्, प्रियाः पञ्च येषाम् इति विग्रहे ‘प्रियषषाम्, प्रियपञ्च्ञाम्' इति गौणत्वं वा पूर्ववदिहापीति ।। १५४ ।
१८१
[क० च०]
संख्यायाः। षश्च नश्चेति । ननु द्वन्द्वसमासे सति भिन्नपदत्वात् “रषृवर्ण०" (२।४।४८) इत्यादिना णत्वं न प्राप्नोति ? सत्यम् । समासान्तसमीपयोर्वेति समासान्तत्वाण्णत्वमविरुद्धमेवेति कुलचन्द्रः । तन्न । उच्चारणार्थस्याकारास्यैव समासान्तता, न तु नकार स्पेति । तर्हि कथं णत्वमित्याह तवर्ग इत्यादि । पक्षान्तरमाह - गौणत्वमिति । पूर्ववदिति । प्रियत्रीणामित्यादिवदित्यर्थः ।। १५४ ।
[समीक्षा]
‘षष् + आम्, पञ्चन् + आम्' इस स्थिति में कातन्त्रकार 'नु' आगम तथा पाणिनि 'नुट्' आगम करके ' षण्णाम्, पञ्चानाम् ' प्रयोग सिद्ध करते हैं। अतः उभयत्र साम्य है | पाणिनि का नुडागमविधायक सूत्र है - " षट्चतुर्म्यश्च " (अ० ७|१|५५) ।
व्याख्याकारों ने सूत्रस्थ ‘अन्त' पद की पहले अनावश्यकता बताकर सार्थकता सिद्ध करते हुए कहा है कि वर्तमान में नकारान्त न होने पर भी यदि पूर्व में वह शब्द नकारान्त रहा हो तो उससे भी 'नु' आगम करने के लिए 'अन्त' पद का पाठ किया गया है । फलतः 'अष्टानाम्' पद में 'अष्टन्' शब्द से न् को आत्व