________________
१६८
कातन्त्रव्याकरणम्
[दु० वृ०]
स्वस्रादीनां च ऋत आर् भवति घुटि परे । स्वसारौ । नप्तारौ ।
स्वसा नप्ता च नेष्टा च त्वष्टा क्षत्ता तथैव च ।
होता पोता प्रशास्ता च अष्टौ स्वस्रादयः स्मृताः ॥ १४८ ॥ [दु० टी०]
स्वस्रा० | आदिशब्दस्यात्र व्यवस्थावाचित्वात् ' स्वसृ - नप्तृ - नेष्ट्र - त्वष्ट्र
-
क्षत्तृ होतृ - पोतृ - प्रशास्तृ ' एत एवोदाहताः । स्वसृग्रहणमप्राप्तिप्रापणार्थम्, तथा नप्त्रादीनां चाव्युत्पत्तिपक्षे | व्युत्पत्तिपक्षे तु नियमार्थम् । एवंभूतानां सञ्ज्ञाशब्दानाम् अपरेण यथा आर् मा भूद् इति पितरौ पितरः । नीनिशित्विषिक्षिदिहुपूप्रशासीनां तृनन्तानां निपातः, तथा पित्रादीनां च तृनन्तानामेव || १४८ |
,
[वि० प० ]
स्वस्रा० । ननु स्वसृग्रहणमेवास्ताम् । नप्त्रादयस्तु तृजन्तास्तृनन्ता वा नीप्रभृतीनां धातूनां यथायोगं निपातनीयास्ततः पूर्वेणैव आरादेशस्तेषां सिध्यति, नैवम् । द्विविधा हि संज्ञाशब्दाः व्युत्पन्नाः, अव्युत्पन्नाश्च । तत्राव्युत्पत्तिपक्षे पूर्वेण प्राप्तेरभावाद् अप्राप्तिप्रापणार्थमेव तेषामुपादानम् । व्युत्पत्तिपक्षे तु नियमार्थम् – संज्ञाशब्दानां मध्ये नप्त्रादीनामेव स्यात् । अन्यथा पित्रादीनामपि व्युत्पत्तिपक्षे प्रसज्येतेति ।। १४८।
[समीक्षा]
‘स्वसृ + औ, नप्तृ + औ' इस अवस्था में कातन्त्रकार 'ऋ' को आर् आदेश करके तथा पाणिनि 'गुण- रपर उपधादीर्घ' करके 'स्वसारौ, नप्तारौ' शब्द सिद्ध करते हैं - " ऋतो डिसर्वनामस्थानयोः, उरण् रपरः, अप्तृनुतृस्वसृनप्तृनेष्ट्रत्वष्ट्रक्षतृहोतृपोतृप्रशास्तृणाम् " ( अ० ७| ३ | ११०; १ | १ | ५१ ; ६ । ४ । ११) । फलतः यहाँ भी पाणिनीय प्रक्रिया में गौरव स्पष्ट है ।
स्वनादि गण में आठ शब्द पढ़े जाते हैं - स्वसा, नप्ता, नेष्टा, त्वष्टा, क्षत्ता, होता, पोता एवं प्रशास्ता । इनमें 'स्वसृ' शब्द के तृप्रत्ययान्त न होने के कारण “धातोस्तृशब्दस्याऽऽर्” (२।१।६८) से आर् आदेश प्राप्त नहीं होता, शेष सभी