________________
कातन्त्रप्याकरणम् तदा निःसन्देहाथमेवाकारोच्चारणं कृत्वा सलोपश्चेति कुर्वीत । किं च यदि सोर्ग्रहणमभिप्रेयात् तदा सुपीति पानुबन्धमेव निर्दिशेत्, नात्र संदेहे गुरुलाघवचिन्ता युक्तिमतीति ।। १४३ ।
[क० च०]
आ सौ । ननु कृतेऽप्यकारे उच्चारणार्थेऽविशेषाद् द्वयोरेव ग्रहणं कथं न स्यादित्याह-किञ्चेति । तथा "सावन्सेर्डा वा" कृतेऽपि प्रक्रियागौरवं भवतीति दुर्गः। अयमाशयः – 'उशनस्' इत्यत्र ऋद्ग्रहणं कृत्वा तेनैवान् विधीयतामिति केचित् । अत एप डीति कर्तव्यम् । तर्हि "आ च न सम्बुद्धौ" (२।१।७०) इत्यत्र आ-निषेधो व्यर्थः स्यादिति चेत्, नैवम् । “अम् च न संबुद्धी" इति कर्तुं शक्यत्वात् । एवं सति प्रश्लेषव्याख्यानाभावात् कथं हे गार्गीमातः, हे वात्सीमातः' इत्यादिकं सिध्यति चेत्, न । चकारस्याव्ययस्य बहुलत्वात् तल्लाभो भविष्यति, यदुक्तम्-“आ च न सम्बुद्धौ" इति कर्तव्यम्, व्यवस्थितविभाषया आकारस्य प्रायिकता बोद्धव्या, न तु सार्वत्रिकतेति । डा-पक्षे च "म च न सम्बुद्धौ" इति कर्तव्यम् । 'डा' इति कृते सपूर्वानुवृत्तिर्नाशङ्कनीया, तन्निवृत्त्यर्थम् 'ऋतः सेर्डा' इति कर्तव्यम् इत्याशयः।।१४३।
[समीक्षा]
'पितृ + सु, मातृ + सु' इस अवस्था में कातन्त्रकार ऋकार को आकार आदेश तथा 'सि' प्रत्यय का लोप करके 'पिता, माता' शब्दरूप निष्पन्न करते हैं, परन्तु पाणिनि "अनुशनसुरुदंसोऽनेहसां च" (अ०७।१।९४) से 'ऋ' को 'अनङ्' आदेश, "सर्वनामस्थाने चासंबुद्धी" (अ०६।४।८) से नकार की उपधा (अकार) को दीर्घ तथा "नलोपः प्रातिपदिकान्तस्य" (अ० ८।२।७) से नलोप का विधान करते हैं। इस प्रकार पाणिनीय प्रक्रिया में गौरव (विस्तार) स्पष्ट परिलक्षित होता है।
[रूपसिद्धि]
१. पिता। पितृ + सि | "पातुविभक्तिर्जमवल्लिङ्गम्" (२।१।१) से 'पितृ' शब्द की लिङ्गसंज्ञा तथा प्रकृत सूत्र द्वारा ऋ को आ-सिप्रत्यय का लोप ।
२. माता । मातृ + सि । पूर्ववत् लिङ्गसंज्ञा, ऋ को आ एवं सि-प्रत्यय का लोप ।।१४३।