________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
१३१
[वि० प० ]
ईकारा० । अधिकृतया नद्या ईकारों विशिष्यते इत्याह - नदीसंज्ञकेकारान्तादित्यादि । नदीसंज्ञक ईकारोऽन्तः समीपो यस्य तद् नदीसंज्ञकेकारान्तम् इह प्रकरणबलाल्लिङ्गमेवोच्यते । अत एव लक्ष्मीरित्यत्र धातोरन्त ईकार इति कुतः प्रसङ्गः ? तथाहि "लक्षेरीर्मोऽन्तश्च" ( उ० ३ | ३६) इत्युणादौ लक्षेरीप्रत्ययेऽस्य च मकारोऽन्त इति । अथाव्युत्पन्न एव लक्ष्मीशब्द इति पक्षस्तदाप्यन्तग्रहणबलाद् विहितविशेषणमत्र मन्तव्यमित्यालोच्य पञ्चम्या वाक्यार्थमाह - ईकारोऽन्तो यस्मादिति । यथा नद - महशब्दाभ्यां स्त्रियामीप्रत्ययो विहितस्तथा नात्रेत्यर्थः ।। १२७ । [क० च०]
ईकारा० । ननु ' ईकारान्तात्' इत्यनेन नद्या इत्यस्य कथमन्वयः, यावता ईकारान्तः शब्दः स नदी भवितुं नार्हति ? सत्यम् । नदीशब्देन नद्यन्त उपचर्यते । तत ईकारान्तो यो नद्यन्त इत्युक्तेऽर्थान्नदीसंज्ञक ईकार एव विशेषणविशेष्यभावेन लभ्यते इत्याह – अधिकृतेत्यादि । अन्तग्रहणादिह लिङ्गान्यपदार्थत्वादेव । व्युत्पन्नपक्षे लक्ष्मीरित्यत्र न भवति । अव्युत्पन्नपक्षे विहितविशेषणेनैव दोषाभाव इति ॥। १२७ । [समीक्षा]
'नदी + सि, मही + सि' इस अवस्था में कातन्त्रकार लिङ्ग्ङ्गसंज्ञकतथा नदीसंज्ञक ईकारान्त शब्द से परवर्ती 'सि' प्रत्यय का लोप करके 'नदी, मही' शब्दरूप सिद्ध करते हैं । पाणिनि ने भी ड्यन्त शब्दों से परवर्ती 'सु' प्रत्यय का लोप किया है" हत्यायो दीर्घात् सुतिस्यपृक्तं हल" (अ० ६ |१ | ६८ ) |
-
व्याख्याकारों ने ‘ईकारान्तात्' के स्थान में 'ईकारात्' पाठ तथा 'लक्ष्मी' शब्द को अव्युत्पन्न माने जाने के विषय में अपने विचार तथा समाधान प्रस्तुत किए हैं।
[रूपसिद्धि]
१. नदी । नदी + सि । " ईदूत् स्त्र्याख्यौ नदी” (२ ।१ ।९) से ईकार की नदीसंज्ञा तथा उससे परवर्ती सिप्रत्यय का प्रकृत सूत्र द्वारा लोप ।
२. मही। मही +सि । पूर्ववत् 'मही' शब्द की नदीसंज्ञा एवं प्रकृत सूत्र से सिप्रत्यय का लोप ।। १२७ ।