________________
नामचतुष्टयाध्याये प्रथमो धातुपादः
[क० च० ]
जसि । पूर्वेणेत्यादि । ननु कथमिदमुच्यते, यावता जकारस्थितावपि "धुटि बहुत्वे त्वे" (२।१।१९) इत्यनेन एत्वमेव प्राप्नोति ? सत्यम्, एत्वविधावजसीति कृते दीर्घः सिध्यतीति कुलचन्द्रः । हेमकरस्तु जकारस्यानुबन्धत्वाद् एत्वमपि निराकृतमिति । महान्तस्तु " घुटि बहुत्वे त्वे" (२।१।१९ ) इत्यत्र धुड्ग्रहणमपनीय सुभोरिति क्रियताम्, किमनेनेत्याहुः । वस्तुतस्तु पूर्वपरयोः सूत्रयोरघुड्विषयत्वाद् अत्रापि अघुविषय एव कल्प्यते इति न दोषः । अत्र उमापतिः
-
५९
स्थिते जकारे विफलं जसीति जस्यानुबन्धत्वमतो न पूर्वम् । एवं च पूर्वापरसूत्रदृष्ट्या घुडन्यधुट्येव कुतोऽत्र देश्यम् ॥
अकारे लोप इत्यादि वृत्तिः । अकारे परे "अकारे लोपम्” (२ । १ । १७) इत्यत्तेन अकारलोपे प्राप्ते वचनमारभ्यते इत्यर्थः । ननु अकारलोपविधौ अजसीति क्रियतां किमनेन ? सत्यम् । एवन्तर्हि 'ते' इति न सिध्यति, किन्तु त्यदाद्यत्वे "जस् सर्व इ:" (२।१।३०) इति कृते दकारस्थाने कृतस्याकारस्य एत्वे पुनस्तकाराकारस्य ऐत्वे 'तै' इत्येवं स्यात् ।
अथ ‘त्यदादीनां डः' इति विधीयतां चेत् तथापि उपकुम्भमिति न सिध्यति, जसः स्थानेऽमिति कृतेऽकारस्य लोपो न स्यादेव । तदर्थमेव सूत्रमिदं चेत्, नैवम् । “ अव्ययीभावात्” (२|४|१) इत्यत्रामुग्रहणमपनीय डमिति कर्तव्यं चेत्, तदा तितव इति न सिध्यति, तन्न । “अकारे लोपम्” (२।१।१७ ) इत्यत्र अजस इति विदध्यात् । जसः सम्बन्धिनि अकारेऽकारलोपो न भविष्यति कुतोऽन्यत्र प्रसङ्गश्चेत् तदा सुखार्थमेव सूत्रमिदम् ।। ९४ ।
[समीक्षा]
अनुबन्धों के उच्चरितप्रध्वंसी होने के कारण जस्-प्रत्ययगत 'ज्' समाप्त हो जाता है, अतः पर में घोषवत् वर्ण के अभाव में पूर्वसूत्र से दीर्घ नहीं हो सकता था, अतः पृथक् सूत्र बनाया गया है, परन्तु समानलक्षण दीर्घ से ही कार्य सिद्ध हो जाने पर सूत्र बनाने की कोई आवश्यकता नहीं रह जाती - इस आपत्ति का समाधान व्याख्याकारों ने इस प्रकार किया है कि समानलक्षण दीर्घ को बाधकर