________________
कातन्त्रव्याकरणम्
तथाऽत्रापि जसोऽकारस्यादेः कथं न स्यादित्याह - जसित्यभेदबलाद् वेति । एकवर्णत्वादन्तस्येत्यादि । ननु अन्तस्यापीकारे कृतेऽन्तरङ्गत्वात् “जसि ” (२।१।१५) इत्यनेन दीर्घे सति साध्यं सिध्यति किं तस्येकारनिरासेन ? सत्यम्, अन्तरङ्गत्वाद् " अकारे लोपम्” (२। १ । १७) इत्यनेन प्राप्तमकारलोपं बाधित्वा “ जसि” (२ । १ । १५) इत्यनेन कृतेऽपि दीर्घे विकारपक्षे परलोपं बाधित्वा परत्वादकारस्येत्वं स्यात् ।
९६
न च 'असिद्धं बहिरङ्गम्' (कात० प० ३३ ) इति न्यायादन्तरङ्गे एत्वे कर्तव्ये बहिरङ्गस्येकारस्य सिद्धत्वमिति वाच्यम्, स्वरानन्तर्ये तस्यानित्यत्वात् । ननु तथाप्यन्तरङ्गत्वात् ‘“जसि” (२।१।१५) इति दीर्घे सति परलोपो बाधितः स्यात् तन्निरासार्थं वर्णान्तनिरास इति महान्तः ।“ अल्पादेर्वा" (२।१।३१) इति - वाग्रहणादिति । ‘उभयोर्विभाषयोर्मध्ये यो विधिः' (कात० प० ११ ) इति न्यायाद् युक्तिमूलक एव । तथाहि पूर्वत्र वाग्रहणादेव सिद्धे यदत्र वाग्रहणं तन्मध्ये नित्यार्थं भवतीति चेत् परत्र वाग्रहणमुत्तरत्र वानिवृत्त्यर्थमिति कथन्न स्यात् ? सत्यम् । " द्वन्द्वाच्च” (२।१।३२) इति चकारो वानुकर्षणार्थ एव, अन्यथा चकारो व्यर्थः स्यादिति ।। १०९ ।
[समीक्षा]
‘सर्व + जस्, विश्व + जस्' इस अवस्था में जस् को इकारादेश करके कातन्त्रकार ‘सर्वे, विश्वे’ आदि प्रयोग बनाते हैं; जबकि पाणिनि 'जस्' को 'शी' आदेश करते हैं - “जसः शी' (अ० ७ । १ । १७) । पाणिनि ने दीर्घ ईकार का उच्चारण “नपुंसकाच्च” (अ० ७|१|१९) इस उत्तरवर्ती सूत्र के लिए किया है । इससे 'त्रपुणी, जतुनी' इत्यादि शब्दरूपों में दीर्घ ईकार दृष्ट होता है, परन्तु प्रकृतसूत्र के अनुसार अकारान्त शब्द से उत्तरवर्ती 'जस्' को 'शी' आदेश होता है । अकारान्त शब्द से उत्तरवर्ती चाहे ह्रस्व इकार हो या दीर्घ', सभी का गुणादेश हो जाने पर 'ए' वर्ण ही दिखाई पड़ता है 'इ' अथवा 'ई' नहीं। इस प्रकार ह्रस्व इकार से ही कार्य सिद्ध हो जाने पर दीर्घ ईकार का निर्देश व्यर्थ सिद्ध हो जाता है - इस दृष्टि से कातन्त्रीय ह्रस्व 'इ' का विधान ही संगत प्रतीत होता है ।
व्याख्याकारों के अनुसार इस सूत्र में अकारान्त का अधिकार माना जाता है, अवर्णान्त का नहीं, अन्यथा 'सर्वा' शब्द से भी 'जस्' प्रत्यय को 'इ' आदेश' प्रवृत्त हो जाता । 'एकवर्णविधिरन्ते प्रवर्तते अनेकवर्णविधिः सर्वस्य' (कात० प०