________________
११५
नामचतुष्टयाध्याये प्रथमो पातुपादः [समीक्षा]
'हे श्रद्धे, हे माले' आदि में कातन्त्रकार संबुद्धिसंज्ञक सि - प्रत्यय के पर में रहने पर श्रद्धासंज्ञक आकार को एकारादेश करते हैं और पाणिनि श्रद्धासंज्ञा विना ही किए 'आ' को 'ए' आदेश - "संबुद्धी च" (अ० ७।३।१०६)।
[रूपसिद्धि]
१. हे श्रद्धे ! श्रद्धा + सि । “आमन्त्रिते सिः संबुद्धिः" (२।१।५) से सिप्रत्यय की संबुद्धिसंज्ञा, प्रकृत सूत्र से आकार को एकारादेश, पूर्वगति मानकर "हस्वनदीश्रद्धाभ्यः" (२।१।७१) से 'सि' का लोप |
२. हे माले! माला + सि | पूर्ववत् संबुद्धिसंज्ञा, आकार को एकार तथा 'सि' का लोप || ११८।
११९. हस्वोऽम्बार्थानाम् [२।१।४०] [सूत्रार्थ]
श्रद्धासंज्ञक अम्बार्थक शब्दों का संबुद्धिसंज्ञक प्रत्यय के परवर्ती होने पर ह्रस्वादेश होता है ।।११९ ।
[दु० वृ०]
अम्बार्थानां श्रद्धासंज्ञकानां संबुद्धौ ह्रस्वो भवति । हे अम्ब! हे अक्क ! अम्बार्थानामिति सिद्धे ‘ह्रस्व' इति संज्ञापूर्वकत्वात् सुखार्थम् । बहुस्वरत्वाड् ड-लकवतां न स्यात् । हे अम्बाडे! हे अम्बाले! हे अम्बिके! ।।११९ ।
[दु० टी०]
हस्वः। अम्बार्थे अम्बाशब्दः अर्थशब्दसान्निध्यात्, तेन अम्बा अर्थो येषामिति विग्रहः सोऽर्थोऽम्बाशब्देऽस्ति । अम्बाया अपि ह्रस्वो भवति, तद्गुणसंविज्ञानात् । श्रद्धासंज्ञया अम्बार्था विशिष्यन्ते, विशेषणेन च तदन्तविधिरिति अम्बार्थानां श्रद्धासंज्ञकानामिति परिणतिः । श्रुतत्वाच्च श्रद्धाया एव ह्रस्वः, अम्बार्थानां वा श्रद्धाया ह्रस्वो भवतीत्यान्तरतम्यात् ।अदम्बार्थानामित्यादि । ननु अम्बाशब्दोऽयं द्विस्वरस्तत्साहचर्याद् द्विस्वरा एव गृह्यन्ते । यथा अम्बा, अक्का, अल्ला, अज्जा (अत्ता, नन्दा), अच्चा