________________
कातन्त्रव्याकरणम् "अकारे लोपम्" (२।१।१७) से आकार-लोप हो जाने पर जस्प्रत्ययान्त रूप 'वृक्षः' ही सिद्ध होता, जो किसी भी रूप में सार्थक नहीं कहा जा सकता था । अतः अनर्थक रूप के वारणार्थ प्रकृत सूत्र बनाया गया है | पाणिनि तो पूर्व-पर के स्थान में दीर्घविधान करते हैं - "एकः पूर्वपरयोः, प्रथमयोः पूर्वसवर्णः" (अ० ६।१।७५, १०२) ।
[रूपसिद्धि]
१. वृक्षाः । वृक्ष + जस् । प्रकृत सूत्र से लिङ्गान्तवर्ती ह्रस्व अकार को दीर्घ, “समानः सवर्णे दीर्धीभवति परश्च लोपम्” (१।२।१) से दीर्घ तथा परवर्ती अकार का लोप, “रेफसोर्विसर्जनीयः" (२।३।६३) से विसर्ग आदेश || ९४ ।
९५. शसि सस्य च नः [२।१।१६] [सूत्रार्थ]
शस् (द्वितीयाविभक्ति - बहुवचन) प्रत्यय के पर में रहने पर लिङ्गान्तवर्ती अकार को दीर्घ तथा शस्प्रत्ययगत स् को न आदेश होता है ।। ९५ |
[दु० वृ०]
अकारो लिङ्गान्तः शसि परे दीर्घमापद्यते, सस्य च नो भवति । वृक्षान् । स्याद्यधिकारः किम् ? अल्पशः ।। ९५ ।
[दु० टी०]
शसि० । ननु 'सप्तम्या निर्दिष्टे पूर्वस्य' (कात० प० २१) कार्यं भवति इति लिङ्गान्तसकारस्य नकारः स्यात् - सुमनसः पश्येति । नैवम् । श्रुतानुमितयोः श्रौतसम्बन्धो विषिर्बलवान्' (कात० प० पा० ९२) इति । किञ्च 'तृतीयान्' इति निर्देशात् नपुंसकपरत्वात् शिरादेश इति पुंसि विधिरयम् । ननु ‘शस् आन्' इ. कथन्न कुर्यात् लघु विस्पष्टं च ? सत्यम्, विचित्रनिर्देशः खलु बालबोधक एव ।।९५ ।
[वि० प०]
शसि । ननु ‘सप्तम्या निर्दिष्टे पूर्वस्य' (कात०प० २१) इति प्रकृतिसकारस्यैव नकारः कथन्न भवति । यथा - 'सुमनसः पश्य' इति । नैवम्, दीर्घसन्नियोगेन विधीयमानो नकारः कथन्तदभावे स्यात्, ‘सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः'