________________
कातन्त्रव्याकरणम्
३ . यः । यद् + सि । “त्यदादीनाम विभक्तौ ” (२३।२९) से द् को अ, प्रकृत सूत्र से यकारोत्तरवर्ती अकार का लोप तथा स् को विसर्ग - "रेफसोर्विसर्जनीयः” (२।३।६३) ।
४. सः । तद् + सि । “त्यदादीनाम विभक्तौ ” ( २ | ३।२९) से द् को अ, प्रकृत सूत्र से तकारोत्तरवर्ती अकार का लोप, "तस्य च ' (२।३।३३) से तू को स् तथा स् को विसर्ग |
६६
५. उशना। उशनस् + सि । "उशनः पुरुदंशोऽनेहसां सावनन्तः १ ( २ | २ | २२ ) से स् को अन्, प्रकृत सूत्र से नकारोत्तरवर्ती अकार का लोप, "व्यञ्जनाच्च” (२।१।४९ ) से सि-लोप, "घुटि चासंबुद्धौ” (२।२।१७) से नू की उपधा को दीर्घ तथा “लिङ्गान्तनकारस्य” (२।३।५६ ) से नलोप || ९६ ।
९७. भिसैस् वा [ २।१।१८ ]
[ सूत्रार्थ ]
अकारान्त लिङ्ग (प्रातिपदिक) से परवर्ती भिस् प्रत्यय के स्थान में ऐस् आदेश विकल्प से होता है || ९७|
[दु० वृ० ]
अकारान्ताल्लिङ्गात् परो भिसैस् वा भवति । वृक्षैः । वाशब्दः पक्षान्तरं सूचयति - एस्, ऐस् वा । ऐस्करणादतिजरसैरिति केचित् || ९७ |
[दु० टी०]
भिस्० | 'अर्थवशाद् विभक्तिविपरिणाम:' ( कात० प० २५) इति प्रथमया चरितार्थत्वात् पञ्चम्या विपरिणाम इत्याह- अकारान्ताल्लिङ्गादित्यादि । अकारादाकारस्य जात्यन्तरत्वादिह मालाभिरिति कुतः प्राप्तिः । स्यादिसम्बन्धादनर्थकत्वाच्च ओदनभिस्मिटा, ब्राह्मणभिस्मा इत्यत्र च भिस्मा ओदनः, तद्दग्धिका च भिस्मिटोच्यते । वाशब्द इह न विकल्पार्थः । वृक्षेभिरिति प्रयोगस्य भाषायामदर्शनात् । अत आह - वाशब्दः पक्षान्तरं सूचयति – एस् ऐस् वेति । एवं सति जरामतिक्रान्तैः कुलैरतिजरैरिति सिद्धम् । ऐत्वं भवति एसि सति सन्निपातविधेरनिमित्तत्वाज्जरा जरस् न भवत्येकदेशस्यानन्यवद्