________________
८८
कातन्त्रव्याकरणम्
अतिविश्वाय' । कातन्त्र में 'न गौणे सार्वनामिकम् ' वचन प्रसिद्ध है । 'सर्व' आदि शब्दों को गण में पढ़े जाने के कारण 'जगत्, कृत्स्न, निखिल' आदि सर्वार्थप्रतिपादक शब्दों की सर्वनामसंज्ञा नहीं होती है।
व्याख्याकारों ने ‘“तीयाद् वा वक्तव्यम्, स्वमज्ञातिधनाख्यायाम्” आदि वार्त्तिकसूत्र - अन्तर्गणसूत्र पढ़कर 'द्वितीयस्मै, द्वितीयाय' आदि रूपों का भी साधुत्व दिखाया है । 'पश्चिम, प्रथम, द्वय' आदि की सर्वनामता के विषय में व्याख्याकारों के विचार पठनीय हैं ।
रूपसिद्धि ]
१ . सर्वस्मै । सर्व + ङे । प्रकृत सूत्र द्वारा सर्वनामसंज्ञक 'सर्व' शब्द से परवर्ती 'हे' के स्थान में 'स्मै' आदेश || १०४ |
२. बिश्वस्मै । विश्व + ङे । पूर्ववत् 'ङे' के स्थान में 'स्मै' आदेश || १०४ | १०५. ङसि ः स्मात् [ २।१।२६]
[ सूत्रार्थ ]
सर्वनामसंज्ञक अकारान्त लिङ्ग = प्रातिपदिक से परवर्ती पञ्चमीविभक्ति - एकवचन ‘ङसि' के स्थान में 'स्मात्' आदेश होता है । । १०५ ।
[दु० बृ० ]
अकारान्तात् सर्वनाम्नो लिङ्गात् परो ङसिः स्माद् भवति । सर्वस्मात् । विश्वस्मात् | अकारान्तादिति किम् ? भवतः । । १०५ ।
[दु० टी० ]
ङसिः । यथा अतिविश्वात् तथा विश्वस्य समीपमुपविश्वम्, उपविश्वात् । पूर्वपदार्थप्रधानोऽयमव्ययीभाव इति ।। १०५ ।
[ क० च० ]
ङसिः । 'सर्वतो जयमन्विच्छेत् पुत्रादेकात् पराजयम्' इति असाधुरिति रक्षितः । अन्ये तु 'गणकृतमनित्यम्' (कात० प०२९) इति न्यायात् साधुत्वमाहुः । अपरे तु 'पुत्रादेकात् पराजयम्' - पुत्रादेव पराजयम् इत्यवधारणार्थत्वान्न सर्वनाम इत्याहुः ||१०५ |