________________
YE
कातन्त्रप्याकरणम् मुग्धबोधव्याकरण में वोपदेव ने एकदेश ‘दी' संज्ञा का प्रयोग किया है - "यूत् स्त्र्येव दी" (सू०९६)।
[रूपसिद्धि]
१. नये । नदी + 3 | प्रकृत सूत्र से नदीशब्दान्तर्गत ईकार की नदीसंज्ञा, "नया ऐ आसासाम्" (२।१।४५) से डे को ऐ आदेश तथा ई को य् आदेश ।
२. वचै । वधू + डे | प्रकृत सूत्र से वधू-शब्दान्तर्गत ऊकार की नदीसंज्ञा, "नया ऐ आसासाम्" (२।१।४५) से डे को ऐ-आदेश तथा ऊ को व् आदेश ।
८९. आ श्रद्धा [२।१।१०] [ सूत्रार्थ] नित्यस्त्रीलिङ्गवाची आकार की श्रद्धा संज्ञा होती है ।। ८९। [दु० वृ०]
आकारो यः स्त्र्याख्यः स श्रद्धासंज्ञो भवति । श्रद्धा, माला | स्त्र्याख्य इति किम् ? कीलालपाः । श्रद्धाप्रदेशाः- "श्रद्धायाः सिर्लोपम्" (२।१।३७) इत्येवमादयः ।। ८९।
[दु० टी०]
आ श्रद्धा । इहाख्याग्रहणं नित्यस्त्रीविषयार्थम् । इह मा भूत्-सोमपाः स्त्री । ननु "स्त्रियामादा" (२।४।४९) विधाने आजिति कृते यत्र श्रद्धाग्रहणेन प्रयोजनं तत्राज्ग्रहणेनैव सिध्यति, एवमभेदोपचारादायिलोपाद् वा श्रद्धापुरुष इति । तदन्तपक्षेऽपि कुन्तान् स्त्रीः, यष्टीर्मनुष्यानिति यथा तथायमपि भविष्यति ? सत्यम्, प्रतिपत्तिरियं गरीयसीति संज्ञा विधीयते ।। ८९ ।
[वि० प०]
आ श्रद्धा । कीलालपा इति । कीलालं पिबतीति "आतो मन्क्वनिबनिबिच्" (४।३।६६) इति । इहाप्याख्याग्रहणमनुवर्तते एव पूर्ववद् वेदितव्यम् ।।८९।
[क० च०]
आ श्रद्धा । इहाख्याग्रहणमनुवर्तते इति । एतेन नित्यस्त्रीलिङ्गस्यैवानेन क्रियते इति 'सोमपाःस्त्री' इत्यत्रोपचारादाकारस्य स्त्रीत्वेऽपि न भवतीति न्यायः । अस्यायमाशयः