________________
3०७
દ્વતીય પરિ ननु चोपक्रमाधिकरणन्यायेनासञ्जातविरोधित्वात् प्रत्यक्षमेकागमाद् बलीयः किं न स्यात् ।
. उच्यते-यत्रैकवाक्यता प्रतीयते, तत्रैकस्मिन्नेवार्थे पर्यवसानेन भाव्यम्, अर्थभेदे प्रतीतैकवाक्यताभङ्गप्रसङ्गात् । अतस्तत्र प्रथममसञ्जात. प्रतिपक्षेण 'प्रजापतिर्वरुणायाश्वमनयद्' इत्याधुपक्रमेण परकृतिसरूपार्थवादेन दातुरिष्टौ बुद्धिमधिरोपितायां तद्विरुद्धार्थ 'यावतोऽश्वान् प्रतिगृह्णीयात् तावतो वारुणान् चतुष्कपालान्निर्वपेत्' इत्युपसंहारगतं पदजातमुपजातप्रतिपक्षत्वाद् यथाश्रुतार्थसमर्पणेन तदेकवाक्यतामप्रतिपद्यमानमेकवाक्यतानिहाय णिजर्थमन्तर्भाव्य तदानुगुण्येनैवात्मानं लभते इति उपक्रमस्य प्राबल्यम् । यत्र तु परस्परमेकवाक्यता न प्रतीयते तत्र पूर्ववृत्तमविगणय्य लब्धात्मकं विरुद्धार्थकं वाक्यं स्वार्थ बोधयत्येवेति न तत्र पूर्ववृत्तस्य प्राबल्यम् । . अत एव षोडशिग्रहणवाक्यं पूर्ववृत्तमविगणय्य तदग्रहणवाक्यस्यापि स्वार्थबोधकत्वमुपेयते, किन्तुभयोर्विषयान्तराभावाद् अगत्या तत्रैव विकल्पानुष्ठानमिष्यते ।।
एवं चाद्वैतागमस्य प्रत्यक्षेणैकवाक्यत्वशङ्काऽभावात् पूर्ववृत्तमपि तदविगणय्य स्वार्थबोधकत्वमप्रतिहतम् । तदर्थबोधजनने च
"पूर्व परमजातत्वादबाधित्वैव जायते ।
___ परस्यानन्यथोत्पादान्नाद्याबाधेन सम्भवः ॥" इत्यपच्छेदन्यायस्यैव प्रधनिः, नोपक्रमन्यायस्य ।
. अत एव लोकेऽपि प्रथमवृत्तं शुक्तिरूप्यप्रत्यक्षमाप्तोपदेशेन बाध्यत इति ॥२॥
(શંકા) અને ઉપકમાધિકરણ ન્યાયથી, વિરોધી (હનુ) ઉત્પન ન થયો હોવાથી પ્રત્યક્ષ જ આગમ કરતાં વધારે બળવાન શા માટે ન હોય ?
(ઉત્તર) (આની સામે) કહેવામાં આવે છે કે જ્યાં એકવાકયતા પ્રતીત થાય છે ત્યાં એક જ અર્થ માં પર્યવસાન થવું જોઈએ, કારણ કે અર્થભેદ હોય તે જ્ઞાત થયેલી એકવાક્યતાને ભંગ થાય. તેથી ત્યાં પહેલાં જેનો વિરોધી ઉત્પન્ન નથી
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org