Book Title: Siddhartha
Author(s): Kalyankirtivijay
Publisher: Bhadrankaroday Shikshan Trust
Catalog link: https://jainqq.org/explore/009972/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ सिद्धार्थः जर्मनमूलम् हरमान-हेस: आङ्ग्लानुवादः हिल्डा रोसनेरः संस्कृतानुवादः मुनिकल्याणकीर्तिविजयः प्रकाशक जयतु भरादयः श्रीभद्रङ्करोदय शिक्षण ट्रस्ट, गोधरा वि.सं. २०७० ई.सं. २०१३ Page #2 -------------------------------------------------------------------------- ________________ सिद्धार्थः German: Herman Hess English Translation: Hilda Rosner Sanskrit Translation: Muni KalyanKirti Vijay संस्कृतानुवादकः मुनिकल्याणकीर्तिविजयः प्रथमं संस्करणम् वि.सं. २०७० ई. २०१३ प्रकाशक: प्रतिकृतयः मूल्यम् प्राप्तिस्थानम् चित्राणि द्रव्यसाहाय्यम् मुद्रणम् श्रीभद्रङ्करोदय शिक्षण ट्रस्ट, गोधरा ५०० १५०/ श्रीविजयनेमिसूरीश्वरजी स्वाध्याय मन्दिर १२, भगतबाग, नवा शारदामन्दिर रोड, पालडी, अमदावाद ३८०००७ दूरभाष: ०७९-२६६२२४६५, ०९४०८६३७७१४ सरस्वती पुस्तक भण्डार ११२, हाथीखाना, रतनपोळ, अमदावाद ३८०००१ नैनेश सरैया, सूरत श्रीघाटकोपर जैन श्वे. मू. पू. तपा संघ, श्रीमुनिसुव्रतस्वामी जैन देरासर, नवरोजी लेन, घाटकोपर (प.), मुम्बई प्रारंभ, अमदावाद मो. ९८२५०११४१४ Page #3 -------------------------------------------------------------------------- ________________ प्रास्ताविकम् कश्चन पाश्चात्यदेशीयो दार्शनिको विद्वान् पौर्वात्यानि दर्शनानि तत्तत्त्वज्ञानमाध्यात्मिकतां चाऽऽत्मसात्कृत्य यदा साहित्यं सृजति तदा कः परिणामो जायेत ? तत्रैकस्मिन् पार्श्वे शुद्धा तार्किकता प्रमाणप्रतिबद्धता निष्ठा विश्लेषणमौदार्यं सरलतेत्यादीनि तत्त्वानि द्योतन्तेऽपरत्र च वेदवेदान्तोपनिषदागम-त्रिपिटकादिषु विविधदर्शनशास्त्रेषु च वर्णितानि तत्त्वानि स्फुरद्रूपं चाऽध्यात्मज्ञानं प्रभासन्ते । जर्मनदेशीयो नोबेलपुरस्कारविजेता महाविद्वान् हरमानहेस एतादृश एव साहित्यकारोऽस्ति । पाश्चात्यं तत्त्वज्ञानं तु तेन सहजतयैवाऽऽत्मसात् कृतम्, सहैव पौर्वात्यं तत्त्वज्ञानमपि तयैव सहजतयाऽऽत्मसात् कृतमस्ति । अध्यात्मबोधोऽपि तस्य सहजविमलो वर्तते । एतच्च कथमिव जातमिति ज्ञातुं पूर्वभूमिकां पश्यामस्तावत् - Page #4 -------------------------------------------------------------------------- ________________ ऐसवीये १८७७ तमे संवति जर्मनीदेशे लब्धजन्मनोऽस्य विदुषः पिता जर्मनीय एव धर्मगुरुरासीत् माता च फ्रान्सदेशीयाऽऽसीद् । मातामहश्च धर्मगुरुरेवाऽऽसीत् भारतीयतत्त्वविद्योपासकश्चाऽपि, यतस्तेन भारतदेशे एव खैस्तधर्मगुरुतया वर्षाणि यावत् कार्यं कृतमासीत् । स प्राकृत - पाली - संस्कृत-मलयालमबङ्गादिकास्त्रिंशदधिका भाषा जानाति स्म पौर्वात्यदर्शनानां च विशदमवगाहनं कृतवानासीत् । अथ च, हरमानहेसस्य पित्रा मात्रा चाऽपि भारतदेशे धर्मप्रचारकत्वेन कार्यं कृतमासीत् । एतैः सर्वैः कारणैस्तस्य गृहे पाश्चात्यदर्शनानां खैस्तधर्मशास्त्राणां च यथा, तथैव पौर्वात्यदर्शनानां भारतीयधर्मशास्त्राणां चाऽपि परिशीलनं वरीवर्ति स्म । ततश्चाऽऽबाल्यादेव हरमान - - हेस: सर्वैरपि दर्शनैस्तत्त्वज्ञानेन च परिचितो जातः फलतश्च शान्तिप्रियो जातः, आध्यात्मिकता चाऽपि तस्योत्कटा जाता । १८९९तमाद् वर्षात् तस्य साहित्यसर्जनप्रवृत्तिः प्रारब्धा । १९१२तमे वर्षे स जर्मनीदेशं त्यक्त्वा स्विट्झर्लेन्डदेशं गतवान् मरणपर्यन्तं च तत्रैवोषितः । १९४६तमे वर्षे तस्य साहित्यविषयको नोबेलपुरस्कारः प्राप्तः । १९६२ तमे वर्षे च स मरणं प्राप्तवान् । तस्य साहित्यं विश्वविश्रुतं जातं, विश्वस्य बह्वीषु भाषासु तदनूदितमपि जातम् । तस्य कृते वैश्विक अध्यात्मविदो गौरवं धारयन्ति प्रशंसन्ति च । तस्य गौरवं कुर्वतैकेनाऽध्यात्मविदैवमपि कथितमस्ति यत् – "अव्ययोऽपि सततं विनाशशीलोऽयं संसारोऽस्ति । तस्य च ग्रन्थिर्येन विमोचिता स यथार्थो वेदविद् अस्ति । सिद्धार्थस्य लेखको हरमान-हेस: अप्येतादृशो वेदविद् आसीत्" । (अश्विन महेता "छबि भीतरनी" इति पुस्तके) । Page #5 -------------------------------------------------------------------------- ________________ तस्य साहित्ये प्राधान्येनाऽयं ध्वनिरभिव्यज्यते - - धर्मो न कदाऽप्यन्येभ्यः शिक्षितुं शक्यः । सोऽन्तःकरणादेव समुदेति स्वानुभूत्यैव च साकारो भवति ।। - उपदेशाज्ज्ञानं प्राप्येत कदाचित्, न पुनः प्रज्ञा । - सत्यं न कस्यचिदनुयायित्वेन प्राप्येत, तत् तु स्वयमेव शोधयितव्यम् । शब्दाः पूर्णसत्यं व्यक्तीकर्तुमसमर्था एव । पूर्णसत्यं त्वनुभूतेविषयः । - जगत्यस्मिन् प्रेम एव श्रेष्ठः पदार्थः । - प्रत्येकं मनुष्यस्यैकमेव कर्तव्यं - स्वीयो मार्गः स्वयमेव शोधयितव्यः । तेन १९२३तमे वर्षे लिखितोऽयं सिद्धार्थ इत्याख्य उपन्यासः । अत्र ब्राह्मणपरम्परा, श्रमणपरम्परा, बौद्धपरम्परा, भारतीया जीवनशैली, विशुद्धमध्यात्मतत्त्वं स्वात्मनिष्ठा - इत्यादीनि तत्त्वानि सुतरां द्योतन्ते । अस्य चोपन्यासस्याऽनुवादोऽपि विश्वस्य बहीषु भाषासु जातोऽस्ति । १९५३तमे वर्षेऽस्याऽऽङ्ग्लभाषायामनुवादो हिल्डारोसनेर-इत्यनेन कृतः । गूर्जरभाषायामपि कथाया एतस्याश्चत्वारोऽनुवादाः सञ्जाताः । ऐदम्प्राथम्येन यदा मयाऽस्य गूर्जरानुवादः पठितस्तदारभ्यैव मे मनस्यस्य संस्कृतभावानुवादं कर्तुमिच्छा जागृता । अतो मयाऽऽङ्ग्लानुवादोऽपि पठितस्तस्यैव च प्रामाणिकत्वात् तमालम्ब्यैव संस्कृतभाषया भावानुवादः कृतोऽस्ति । अस्य च साद्यन्तं संशोधनं पठनं क्षतिसम्मार्जनं च मम पूज्यगुरुभगवद्भिराचार्यश्रीविजयशीलचन्द्रसूरिभिः, पूज्योपाध्यायश्रीभुवनचन्द्रजीमहाराजैः, पूज्यमुनिश्रीकीर्तिचन्द्रजीमहाराजैश्च कृतमस्तीत्ययं मे महतो सौभाग्यस्य विषयः । Page #6 -------------------------------------------------------------------------- ________________ पूज्यगुरुभगवतां कृपयैवैतदनुवादकार्यं कुर्वाणोऽहं जीवनस्य बहुविधानमूल्यान् पाठान् शिक्षितवानस्मि सततं च स्फुरदानन्दोत्सानन्तःकरणे समुच्छलतोऽनुभूतवानस्मि । एते एतादृशाश्चाऽन्येऽप्यनुभवा अस्याऽनुवादस्य पाठकेभ्योऽपि भविष्यन्तीति पूर्णश्रद्धावानस्म्यहम् । अस्य पुस्तकस्य शुद्धमक्षराङ्कनं श्रीहरजीभाई पटेलश्रीकिरीटभाई पटेल-इत्येताभ्यां (क्रिश्ना ग्राफिक्स) कृतमस्ति चित्राङ्कनं च श्रीनैनेश-सरैया इत्यनेन कृतमस्ति तथा कला मुद्रणव्यवस्था च श्रीआनन्द शाह-इत्यनेन निर्वोढाऽस्ति । एतेषां समेषामपि कार्तश्यं वहामि । एनमनुवादं पठित्वा संस्कृतज्ञा वैश्विकसाहित्योन्मुखा भवेयुरित्याशासमानो विरमामि । श्रीमहावीरस्वामिनिर्वाणकल्याणकपर्व (दीपावली पर्व) वि.सं. २०६९ साबरमती (अमदावाद) Page #7 -------------------------------------------------------------------------- ________________ सिद्धार्थ: प्रथमो विभागः Page #8 -------------------------------------------------------------------------- ________________ 4 -w ನ-NNSMILE Page #9 --------------------------------------------------------------------------  Page #10 -------------------------------------------------------------------------- ________________ १. ब्राह्मणस्य पुत्रः गृहस्य शीतलच्छायायां, नावां पार्श्वस्थे सरित्तटीये सूर्यप्रकाशे, पाण्डुरवनस्याऽञ्जीरवृक्षस्य च च्छायासु सुरूपो ब्राह्मणपुत्रः सिद्धार्थः स्वीयवयस्येन गोविन्देन सह संवर्धितः । पवित्रे सान्ध्यस्नानविधौ शुचौ च हविर्दानविधौ नित्यं नदीतटे स्नानं कुर्वतस्तस्य स्कन्धौ सूर्यातपवशात् ताम्रवर्णो बभूवतुः । मधुरं गायन्त्यां तन्मातरि, विद्वद्भिश्चर्चयति च तत्पितरि सहकारवाटिकासु क्रीडतस्तस्य दिनानि व्यक्रामन्ति स्म ।। आ बहोः कालात् सिद्धार्थो विद्वज्जनचर्चासु भागं वहति स्म, गोविन्देन सह विविधान् विषयान् विचारयति स्म, तेनैव च सह भावनाया ध्यानस्य चाऽभ्यासमपि करोति स्म । नादब्रह्मण ॐकारस्य श्वासग्रहणेन सहाऽन्तरुच्चारणं स नितरां जानाति स्म । तेनौवोच्चारणेन सह यदा स सर्वात्मना निःश्वसिति स्म तदा तदीयं ललाटं शुद्धेनाऽऽत्मतेजसा देदीप्यते स्म । निजास्तित्वस्याऽन्तस्तले विद्यमानस्य विश्वात्मना चैकत्वं धारयतोऽविनाशिनो निजात्मनोऽनुसन्धानमुज्जागरणं च कर्तुं स सुतरां जानाति स्म । निजपुत्रोऽतीव प्रज्ञावान् जिज्ञासुश्चेति विलोक्य तत्पितुश्चित्तं प्रसन्नमासीत् । स तं - 'प्रकाण्डविद्वत्तया सत्पुरोहिततया ब्राह्मणश्रेष्ठतया च वर्धमानोऽस्त्यय'मिति विलोकयति स्म । तथैवोर्जस्वलस्य सुरूपस्य मृदुगात्रस्य पूर्णविनयेन व्यवहरतश्चतस्य स्फूर्तिमत् चलनोपवेशनोत्थानादिकं निभाल्य तन्मातुर्हृदयं गर्वेण विकाशं प्राप्नोति स्म । अथ चोन्नतभूविशालनेत्रो ललितदेहयष्टिश्च युवा सिद्धार्थो ३ Page #11 -------------------------------------------------------------------------- ________________ यदा नगरवीथिषु परिभ्राम्यति स्म तदा तं विलोकयन्तीनां ब्राह्मणकन्यानां हृदयानि स्नेहपर्याकुलानि भवन्ति स्म । तन्मित्रं गोविन्दस्तस्मिन् सर्वेभ्योऽप्यधिकतया स्निह्यति स्म । सिद्धार्थस्याऽनवद्या गतिर्मतिश्च तथा तस्य प्रत्येकं चेष्टानां सौन्दर्यं तन्मनः प्रीणयति स्म । सिद्धार्थस्य प्रत्येकं कर्म वचनं च तस्य तोषाय जायते स्म । परमेतेषां सर्वेषामप्युपरिष्टात् तस्मै सिद्धार्थस्य पारदर्शिनी प्रज्ञा, सूक्ष्मा उत्कटाश्च विचाराः, दृढं मनोबलं समुच्चश्च व्यवसायोऽतितमां रोचते स्म ।। गोविन्दः सुतरां जानाति स्म यद् – 'नैषः सामान्यो ब्राह्मणोऽलसः पुरोहितो, धनलुब्धो ज्यौतिषिकोऽभिमानी गुणहीनश्चोपदेशको धूर्तो दुर्वृत्तश्चाऽर्चको वा भविता, अथवा विशाले मेषयूथे स एकः सुमूल् मेषोऽपि च नैव भविष्यति' । किञ्च गोविन्दः स्वयमपि तादृशो भवितुं नैवाऽभिलषति स्म नाऽपि च तादृशानां स्वजातीयानां सहस्रशो ब्राह्मणानामन्यतमो भवितुमिच्छति स्म । स स्ववल्लभं तेजस्विनं च सिद्धार्थमेवाऽनुसिसीर्षति स्म । तथा यदि परं कदाचित् सिद्धार्थो भगवद्भावं प्राप्नुयात् तेजोलोकं वा प्रविशेत् तदा गोविन्दोऽपि तन्मित्रतया, तत्सहयायितया, तत्सेवकतया, तदङ्गरक्षकतया, तद्ध्वजधारितया, तत्प्रतिच्छायतया वा तमनुसर्तुमिच्छति स्म । एवं च सर्वेऽपि सिद्धार्थे स्निह्यन्ति स्म, सोऽपि च सस्मितं सानन्दं च सर्वान् प्रीणयति स्म । अथ चैवं स्थितेऽपि सिद्धार्थः स्वयं सुखी नाऽऽसीत् । पाटलवर्णेषु अञ्जीरोद्योनेषु भ्राम्यन्, उपवनस्याऽऽनीलच्छायायामुपविश्य ध्यायन्, प्रत्यहं पवित्रस्नानेन स्वाङ्गानि क्षालयन्, गहनेषु Page #12 -------------------------------------------------------------------------- ________________ सहकारवनेषु विधिना पूर्णश्रद्धया यागं कुर्वाणः स सर्वेषामप्यभीष्टो वल्लभः सुखकारी चाऽऽसीत्, तथाऽपि तस्य हृदयमानन्दरहितमासीत् । नद्याः प्रवाहात्, तारकाणां स्फुरणात्, सूर्यस्य च द्रवीभूतेभ्यः किरणेभ्यः सकाशात् स्वप्ना अविश्रान्ताश्च विचारा तन्मनस्यागच्छन्ति स्म । यज्ञानां धूमस्तोमात्, वेदस्य ऋचामुच्चारात्, वृद्धब्राह्मणानामुपदेशाच्च तदन्तःकरणं व्याकुलं भवति स्म । असन्तोषस्य बीजानि सततमेतैरेतादृशैश्चाऽन्यैर्निमित्तैस्तस्य हृदये उप्यन्ते इतीव सोऽनुभवति स्म । मातापित्रोर्गोविन्दस्य च पूर्णस्नेहोऽपि तं सर्वथा सुखिनं शान्तं सन्तुष्टं तृप्तं च कर्तुं नैव समर्थ इति तस्य प्रतिभाति स्म । _ 'तत्पूज्यपित्राऽन्यैश्च विद्वद्भिाह्मणैर्निजं सर्वमपि ज्ञानं सर्वमपि च पाण्डित्यं तस्य प्रतीक्षारते मस्तिष्कभाजने प्रवाहितमासीत्, तथाऽप्यद्याऽपि तद्भाजनमपूर्णमेवाऽस्ति, प्रज्ञाऽसन्तुष्टैवाऽस्ति, स्वात्माऽशान्त एवाऽस्ति तथा हृदयं ह्यस्थिरमेवाऽस्ती'ति तच्चित्ते वारं वारमाशङ्का भवति स्म । ___ 'यद्यपि स्नानानि शुभान्यासन् तथाऽपि तान्यङ्गान्येव क्षालयितुमलं न तु पापानि, नाऽपि च व्यथितं हृदयं शमयितुम् । यज्ञ-बलिदानादयो देवानां पूजा-प्रार्थनाद्याश्च श्रेष्ठा एवाऽऽसन् परन्तु किमेत एव सर्वस्वमासीत्, किं तैः सत्यं सुखमानन्दश्च प्राप्तुं शक्यो वा ?' 'देवानामपि का वार्ता ? किं ब्रह्मैव जगदिदं सृष्टवान् वा? किं स कश्चनैक आत्मैवाऽथवा सर्वात्मा नाऽस्ति खलु? किमेते देवा अस्मादृशा एव मरणधर्माणोऽशाश्वताश्च न सन्ति वा ? तथा च कथमेतेभ्यो देवेभ्यो हविर्दानं तेषां पूजा चोचिते विवेकयुते वा ? नन्वात्मानमृतेऽन्यस्य कस्य वा पूजाऽऽदरश्च Page #13 -------------------------------------------------------------------------- ________________ कर्तव्यतयोचितावास्ताम् ?' ' तथा सोऽप्यात्मा कुत्राऽन्वेष्टव्यः ? स कुत्र वा वसति स्म ? कुत्र वा तस्य शाश्वतं स्पन्दनं भवति स्म ऋते प्रत्येकं मनुष्यस्याऽऽन्तरतमं स्वम् ?' ‘परन्त्विदमप्यान्तरतमं स्वं कुत्र विद्यते ? किं वाऽस्ति तत् ? तन्नहि केवलं मांसमस्थि वा, नाऽपि च विचार: संवेदनं वा । एतदेव ननु पण्डितैरुपदिष्टमासीत् । परन्तु तर्हि स कुत्र विद्यमान आस्ते? तं ज्ञातुं शोधयितुं वाऽन्यः को वा पन्था स्यात् ? न कश्चिदपि तं दर्शितवान् ज्ञातवान् वा न तस्य पिता, न ब्राह्मणाः, नैव च पवित्रा मन्त्राः स्तोत्राणि वा' । 'ब्राह्मणाः सर्वमपि जानन्ति तेषां शास्त्रेषु च सर्वमपि ज्ञापितमस्ति । आम्, सर्वमपि लिखितमस्ति तत्र । तेषां गतिः सर्वत्राऽप्रतिहताऽऽसीत् - जगतः सृष्टिः, वाच उत्पत्तिः, अन्नं, श्वासोच्छ्वासाः, इन्द्रियाणां समारचनं, देवानां कार्याणीत्यादिषु सर्वत्र । तैर्हि सङ्ख्यातीतानि वस्तूनि ज्ञातानि । एवं सत्यपि यदि तैरेकमेव परमं वस्तु नैव ज्ञातं तर्हि सर्वेषामप्येतेषां वस्तूनां ज्ञानस्य किं वा मूल्यं स्यात् ?' 'वेदानां बहूनि सूक्तानि विशेषतश्च सामवेदस्योपनिषद इदमान्तरतमं तत्त्वमेव वर्णयन्ति स्म । “आत्मैव जगदिदं सर्वम्" इति तत्र वर्णितमस्ति । “मनुष्यः सुषुप्तावन्तःकरणं प्रविश्याऽऽत्मन्येव निवसति' इत्यपि तत्र कथितमस्ति । एतानि सूक्तानि ह्यद्भुतया विद्यया पूर्णान्यासन् । मधुमक्षिकाभिः शुद्धं मधु इव ऋषिभिः सर्वमपि विज्ञानं मधुरया भाषया तत्रैव सङ्गृहीतमासीत्' । 'नैव नैव नैव, विदुषां ब्राह्मणानां सुज्ञया परम्परया सङ्गृहीतं संरक्षितं चेदमप्रमेयं ज्ञानं नैवाऽस्त्युपेक्षार्हम् । किन्तु ६ Page #14 -------------------------------------------------------------------------- ________________ क्व सन्ति ते ब्राह्मणाः पुरोहिता विपश्चितश्च यैरिदं परमज्ञानं न केवलं सफलतया प्राप्तमेव अपि त्वनुभूतमपि ? क्व वा ते विद्यावन्तः कृतसंस्कारा वा सन्ति ये सुषुप्तावात्मानमुपलभ्य जागृतावपि तं धारयितुं समर्थाः ? आजीवनं, मनसो वाचः कायस्य कर्मकालेऽपि ! सिद्धार्थो बहून् गुणवतो ब्राह्मणान् जानाति स्म । सर्वेषामप्युपरिष्टात् तु तत्र पवित्र आदरणीयो बहुश्रुतो विद्वान् तस्य पितैवाऽऽसीत् । तद्व्यक्तित्वमनुपमं चरितं च शान्तमुदात्तं चाऽऽसीत् । तस्य जीवनं निर्दोषमासीत् । तस्य वाणी वैदग्ध्यपूर्णाऽऽसीत्, उत्तमाः सुन्दराश्च विचारास्तन्मस्तिष्कमधिष्ठितवन्तः । ‘किन्तु तादृशः प्रज्ञावानपि स किं सानन्दं जीवति स्म वा ? तदन्त:करणे शमानुभूतिर्भवति स्म वा ? किं सोऽपि तत्त्वान्वेषको नाऽऽसीत् ? किं तस्याऽप्यतृप्तिर्नैव पीडयति स्म वा ?' 'कयाचिदतृप्ततृष्णयैव किं सोऽपि पवित्रतीर्थस्थानानि वारं वारं न पर्यटति स्म ? यागान् नाऽऽचरति स्म ? शास्त्राणि न परिशीलयति स्म वा ? ब्राह्मणानां च परिसंवादेषु भागं न वहति स्म ? किमर्थम् ? किमर्थं ननु तादृशेन निष्पापवृत्तेनाऽपि तत्पित्रा प्रत्यहं स्वीयपापानि क्षालयितुं स्वं च स्वच्छयितुं प्रयतितव्यम् ? तत् किं तदभ्यन्तरे आत्मा नाऽऽसीद् वा ? अथवा किं स आत्मानं नैव जानाति स्म वा ? किं तस्य हृदये निरालम्बसुखस्य स्रोतो नाऽऽसीद् वा ? वस्तुतः स्वेन स्वात्मन्येव तत् स्रोतोऽन्वेष्टव्यं प्राप्तव्यं च। ततोऽन्यद्धि सर्वमप्यस्ति भ्रमणं व्यामोहश्च' । एते एतादृशाश्चाऽन्ये विचारा बहुशः सिद्धार्थस्य चित्ते उद्भवन्ति स्म ये तच्चित्ते काञ्चनाऽतोषणीयां तृषं गभीरं च विषादं जनयन्ति स्म । ७ Page #15 -------------------------------------------------------------------------- ________________ नैकशः स छान्दोग्योपनिषदो वचनमेतदावर्त्तयति स्म मनसि - __“स वा एष आत्मा । तस्य ह वा एतस्य ब्रह्मणो नाम सत्यमिति । अहरहर्वा एवंचित् स्वर्गलोकमेति' । एवं चाऽऽवर्तयतस्तस्य बहुशः स 'स्वर्गलोकः' निकटतमः प्रतिभाति स्म, किन्तु न स कदाऽपि तं प्राप्तवान्, न च कदाऽपि तस्य तीव्रा तृट् शान्ताऽभवत् । किञ्च यानपि महाविदुषः स जानाति स्म येषां चोपदेशं श्रुत्वा प्रसन्नो भवति स्म, तेषामेकतमोऽपि तं स्वर्गलोकं न पूर्णतया प्राप्तवान् कदाचित्, नाऽपि च तदीया तृट् शान्ता जाता किल । अथाऽन्यदा यथापूर्वं सिद्धार्थो गोविन्दमाहूतवान् - "गोविन्द ! मया सह वटवृक्षसमीपमागच्छतु, आवां तत्र ध्यानाभ्यासं करिष्यावः" । तौ गतौ । वटवृक्षस्य चाऽधस्तात् परस्परं किञ्चिद् दूरमुपविष्टौ । तत ओङ्कारस्योच्चारणात् पूर्वं सिद्धार्थो मृदुस्वरेण श्लोकमेनमुदितवान् – प्रणवो धनुः शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते । अप्रमत्तेन वेद्धव्यं शरवत् तन्मयो भवेत् ॥ __ ततो द्वावपि ध्यानमग्नौ बभूवतुः । यदा च ध्यानस्य निश्चितः कालः पूर्णोऽभवत् तदा गोविन्दः स्वासनादुत्थितः । सन्ध्याकालः सन्निहित आसीदतः सान्ध्यविधिमाचरितुं समयोऽयमिति विचिन्त्य तेन सिद्धार्थ आहूतः । किन्तु स नैवोदतरत् । स हि ध्याने गाढं लीन आसीत् । तदक्षिणी दूरतमं किञ्चन लक्ष्यं पश्यतीव स्थिरे आस्ताम् । जिह्वाग्रं च दन्तयोर्मध्ये मनाग् दृश्यते स्म, श्वासोच्छ्वासौ चाऽत्यन्तं सूक्ष्मीभूतौ । एवं च स ओङ्कारस्य ध्याने सर्वथा मग्न आसीत्, तस्य चाऽऽत्मा Page #16 -------------------------------------------------------------------------- ________________ शर इव ब्रह्म प्रति प्रेषित इव प्रतिभाति स्म । इत्थं च तत्प्रवृत्तयो बहुतरामन्तर्मुखा अभवन् । अथैकदा केचन श्रमणाः सिद्धार्थस्य नगरे विहरन्तः समागता आसन् । ते हि त्रयः पर्यटकास्तापसा आसन् – अतीव कृशदेहाः क्लान्ता मध्यमवयसश्च । तेषां स्कन्धौ मलमलिनौ रक्तक्लिन्नौ चाऽऽस्तां, शरीरं च नग्नप्रायं सूर्यातपेन च दग्धमिवाऽऽताम्रवर्णमासीत् । ते एकाकिनो विलक्षणा जगद्विमुखाश्च सन्तो मनुजसमाजेऽवसन्नाः शृगाला इव प्रत्यभासन्त । तेषां परित उपशान्तभावस्योच्छिन्नदेहोपचारस्य निर्दयात्मसंयम-स्य चाऽऽभा विलसमानाऽऽसीत् । तस्मिन् सायङ्काले ध्यानं समाप्य सिद्धार्थो गोविन्दमकथयत् - "वयस्य ! श्वः प्रातः सिद्धार्थः श्रमणैः सह गमिष्यति । स श्रमणो भविष्यति" । सिद्धार्थस्य कृतनिश्चयं वदनं दृष्ट्वा, धनुषः शर इव तन्मुखान्निर्गतांस्ततश्चाऽप्रतिनिवर्तमानान् शब्दांश्चैतान् श्रुत्वा गोविन्दः स्तब्धो जातः । मित्रस्य मुखं विलोक्यैव स ज्ञातवान् यद् – “अयमारम्भो जातोऽस्ति । सिद्धार्थः स्वनिश्चिते मार्ग एव गन्तुमुत्कोऽस्ति । तस्य भावि स्वयमेवोद्घटमानमासीत्, तेन च सह गोविन्दस्य स्वीया नियतिरपि" । तन्मुखं शुष्ककदलीफलत्वच इव विवर्णं जातम् । स उच्चैः पृष्टवान् – “किन्तु सिद्धार्थ ! भवतः पिताऽत्राऽर्थेऽनुमंस्यते वा ?" सहसा प्रतिबुद्ध इव सिद्धार्थस्तत्समक्षं विलोकितवान् । विद्युद्वेगेन तेन तत्र गोविन्दस्य चित्तं, तच्चिन्ता, निजेच्छानुवर्तनप्रगुणता च पठिता । स मृदुतयोक्तवान् - "गोविन्द ! आवां वृथैव शब्दानां व्ययं न करिष्यावः । अयं हि मे निर्णयोऽस्ति यत्, श्वस्तने प्रभातेऽहं श्रमणजीवनं प्रारप्स्ये । इतः परमस्य चर्चा Page #17 -------------------------------------------------------------------------- ________________ माऽस्तु" । गृहं प्राप्य सिद्धार्थस्तत्राऽपवरके गतो यत्र तत्पिता दर्भासने उपविष्ट आसीत् । सः स्वपितुः पृष्ठभागे तावत्कालं स्थितो यावत् तत्पिता तदुपस्थितिमलक्षयत्, “अरे ! सिद्धार्थ ! त्वमसि वा ? किमर्थमत्र स्थितोऽसि ? किमपि कथनीयं वर्तते वा ? वद तावत्" इति च पृष्टवान् ।। सिद्धार्थः कथितवान् – “तात ! अहं कथयितुमागतोऽस्मि यत् श्वः प्रभातेऽहं भवदाज्ञया गृहं त्यक्त्वा श्रमणतापसैः सम्मीलितुं श्रामण्यं चाऽङ्गीकर्तुमभिलषामि । अत्र चाऽर्थे भवतो न काऽप्यापत्तिः स्यादिति मम श्रद्धाऽस्ति" । एतच्छ्रुत्वा चिरकालं यावत् ब्राह्मणो मौनमाश्रितवान् । यदा तस्मिन्नपवरके शान्तेर्भङ्गो जातस्तदा तत्र स्थिते लघुवातायने दृश्यमानं नभो बयस्तारका अतिक्रान्ता आसन, गतिरपि च तासां परावृत्ताऽऽसीत् । किन्तु पुत्रस्तत्रैव किल हस्तौ बद्ध्वा शान्तः स्थिरश्च स्थितवानासीत्, पिताऽपि च तथैव निजे कुशासने उपविष्ट आसीत् । ततश्च पिता तं कथितवान् – “निष्ठुरं कोपाकुलं वा वचनं ब्राह्मणानां कृतेऽनुचितमस्ति । किन्तु मम हृदयेऽसन्तोषो वर्तते । इतः परमहमिमां विज्ञप्तिं श्रोतुं सिद्धो नाऽस्मि" । शनैः स आसनादुत्थितवान् । परन्तु सिद्धार्थस्तत्रैव तस्यामेव च मुद्रायां मौनं स्थितवानासीत् । एतद् दृष्ट्वा पिता पृष्टवान् – “इदानीमपि किं वा प्रतीक्षसे ?" "तत् तु भवान् जानात्येव" - सिद्धार्थ उदतरत् ।। श्रुत्वैतदप्रसन्नीभूतस्तत्पिता ततो निर्गतः, स्वशय्यायां च सुप्तवान् । किन्तु तन्नयनयोर्निद्रा नाऽऽयाति स्म । प्रायशो मुहूर्तानन्तरं स पुनरुत्थितवान्, इतस्ततः सञ्चर्य ततो गृहाद् बहिरागतवांश्च । लघोर्वातायनात् तेन दृष्टं यत् - इतोऽपि सिद्धार्थस्तत्रैवाऽपवरके Page #18 -------------------------------------------------------------------------- ________________ तस्यामेव मुद्रायां निश्चलतया स्थितोऽस्तीति । तस्य मलिनं नेपथ्यं चन्द्रप्रभायां प्रभासमानमासीत् । एतद् दृष्ट्वा खिन्नहृदयस्तत्पिता स्वीयशय्यां प्रतिनिवृत्तः ।। मुहूर्तान्तरं पुनरपि विगतनिद्रोऽसौ पुनरप्यागतस्तत्र, तं च तथैव दृष्ट्वा दुःखितः सन् प्रतिनिवृत्तः । एवं प्रतिमुहूर्तं स आगच्छति स्म, सिद्धार्थं च तथैव चन्द्रज्योत्स्नायां, तारकद्युतौ तमसि वा स्थितं विलोकयति स्म । एतेन तस्य हृदयं समकालमेव रुषा, चिन्तया, शुचा, भयेन च पूरितम् । अथ रात्रेरन्तिमे यामे प्रत्यूषात् पूर्वं स पुनरप्यागतस्तत्र, सिद्धार्थं च तथैव स्थितं दृष्टवान् । उन्नतोऽयं युवा तस्याऽपरिचित इव प्रतिभाति स्म । ___ "सिद्धार्थ !" - सोऽवदत्, “किमर्थं त्वमत्र स्थितोऽसि?" "भवान् जानात्येव पितः !" । "किं त्वमेवमेव समग्रं दिनमारात्रि च स्थास्यसि वा?" "आम्, अहं स्थास्यामि प्रतीक्षां च करिष्ये" । "त्वं श्रान्तो भविष्यसि सिद्धार्थ !" "भवतु पितः !" "निद्रा त्वां बाधिष्यते" । "मैवं पितः ! निद्रा मां नैव बाधिष्यते" । "त्वं मरिष्यसि भोः !" "नाऽहं बिभेमि मरणात पितः !" "पित्राज्ञापालनादपि मरणं तेऽधिकं रोचते वा ?" "सिद्धार्थेन पितुराज्ञा न कदाऽपि लोपिता" । "तहि त्वं स्वनिर्णीतं त्यक्ष्यसि वा ?" "पिता यत् कथयिष्यति तदेव सिद्धार्थः करिष्यति" । Page #19 -------------------------------------------------------------------------- ________________ तावतोषसः प्रत्यग्रप्रभया सोऽपवरकः प्रकाशितो जात: । ब्राह्मणेन दृष्टं यत् पुत्रस्य पादौ मनाक् कम्पेते स्म किन्तु तन्मुखं निष्प्रकम्पमासीत् नेत्रे च सुदूरं निरीक्षेते स्म । 'सिद्धार्थो मया सहाऽत्र गृहे चिराय नैव स्थाता' इति तन्मनसि प्रतिभातं, ‘ननु तेन गृहमिदं त्यक्तमेवाऽस्ति' । अतस्तेन सिद्धार्थस्कन्धोपरि हस्तं निधाय मृदुतयोक्तं " वत्स ! त्वं सुखेन वनं गच्छ, श्रामण्यं चाऽङ्गीकुर्याः । यदि त्वया तत्र शान्तिः प्राप्येत तदाऽत्राऽऽगत्य ममाऽपि तत्प्राप्तिप्रक्रियां शिक्षयेः । यदि च त्वं तत्र निराशो भवेस्तदाऽपि प्रतिनिवर्तस्व, आवां पुनरपि यज्ञं समारचयिष्यावः । गच्छेदानीं स्वमातृपार्श्वे, निवेदय च तस्यै स्वीयं निर्णयम् । ततस्तां प्रणम्य तदाशिषा स्वकार्यं साधय । मम त्वधुना प्रातर्विध्यर्थं नदीगमनस्य समयो जातोऽस्ति" । ततः स स्वहस्तमुत्थाप्य यावद् बहिर्गन्तुमारब्धस्तावता सिद्धार्थेन स्वस्थानाच्चलितुं प्रयतितम् । यद्यपि स मनाक् कम्पितोऽ ऽभवत्, तथाऽपि स्वयमेव स्वं संयम्य पितरं प्रणतवान् मातुश्च पार्श्वे गत्वा पित्रादेशानुसारं सर्वमपि निवेदितवान् । ततो जडीभूताभ्यामिव पादाभ्यां स प्रत्यूषे इतोऽपि निद्रितं नगरं परित्यज्य यावन्निःसृतस्तावदेव नम्रीभूतैका छायाऽन्तिमादुटजाद् बहिरागत्य तेन सह मीलिता । स गोविन्द आसीत् । सिद्धार्थः सस्मितं तमभ्यवादयत् – “ तर्हि भवानप्यागतो ननु ?" — "आम्, अहमागतोऽस्मि' ', स उदतरत् ॥ १२ Page #20 -------------------------------------------------------------------------- ________________ 3. พาน เลยละ Page #21 -------------------------------------------------------------------------- ________________ २. श्रमणैः सह तस्मिन् सायङ्काल एव सिद्धार्थो गोविन्दश्च श्रमणैः सह मीलितौ । ततस्तौ श्रमणेभ्यस्तैः सह वासार्थं दीक्षादानार्थं च विज्ञप्तिं कृतवन्तौ । श्रमणा अपि सहर्षं तयोविज्ञप्तिं स्वीकृतवन्तः । सिद्धार्थेन स्वीयवस्त्राणि कस्मैचिद् दुर्गतब्राह्मणाय प्रदत्तानि, स्वयं च केवलं कटिवस्त्रमस्यूतं गैरिकवर्णं च प्रावारमधारयत् । प्रत्यहमेकवारमेव भुङ्क्ते स्म सः, न पुनः कदाऽप्यग्निपक्वं भुङ्क्ते स्म । कदाचित् स पक्षं यावदुपवासान् कदाचिच्च मासोपवासमपि करोति स्म । तस्य देहान्मेदो-मांसादिकं व्यलीयत । तस्य कृशास्वङ्गलिषु नखा दीर्घत्वमभजन् चिबुके च शुष्कं रूक्षं च श्मश्रु आविर्भूतम् । विलक्षणाः स्वप्नास्तस्य विस्फारितनेत्रपटले प्रतिफलन्ति स्म । स्त्रीणां दर्शनेन तस्य दृष्टिहिमशीतला भवति स्म । नगरवीथ्यां च पर्यटत उत्तमनेपथ्यान् जनान् दृष्ट्वा तस्य मुखमोष्ठौ चाऽवधीरणया वक्रीभवन्ति स्म। स बहून् जनान् पश्यति स्म – वाणिज्यरतान् वणिजः, मृगयासक्तान् राज्ञः, मृतमनुशोचतस्तत्स्वजनान्, देहविक्रयं कुर्वतीर्वेश्याः, रुग्णानुपचरतो वैद्यान्, वपनादिमुहूर्तानि निर्णयतो मौहूर्तिकान्, परस्परं स्निह्यतः प्रेमिणः, स्वापत्यानि लालयन्तीर्जननीश्चेत्यादीन् – किन्तु चिन्तयति स्म यदेकतमोऽप्येतेषां दृष्टिपातमपि नाऽर्हति, यतः सर्वमप्येतद् दुर्गन्ध्येवाऽस्ति, उच्छलदसत्यस्य गन्धेन भृतम् । सर्वत्रैन्द्रियिकविषयाणां तुच्छसुखानां विनश्वरसौन्दर्यस्य चेन्द्रजालमेव प्रसृमरमास्ते । सर्वेऽपि सुनिश्चितं विनाशं प्रत्येव धावन्तः सन्ति । विश्वमेतत् कटुकं जीवनं च दुःखमेवाऽऽस्ते ।। सिद्धार्थस्यैयकमेव ध्येयमासीत् – 'शून्यत्वप्राप्तिः' - १४ Page #22 -------------------------------------------------------------------------- ________________ तृष्णायाः शून्यत्वम्, इच्छायाः शून्यत्वं, स्वप्नानां शून्यत्वं, रागद्वेषयोहर्ष-शोकयोश्च शून्यत्वं, प्रान्ते चाऽहङ्कारस्य लयः । ततश्च शून्ये हृदये समुद्भूतायाः परमशान्तेरनुभवनं शुद्धतमान्तःकरणधारायाश्चाऽनुभवनं तस्य परमं लक्ष्यमासीत् । यदा ह्यात्मा सम्पूर्णतया जितो भवेत्, अहङ्कारः समूलनाशं नश्येत्, सर्वेऽपि कामास्तर्षाश्चोपशान्ता भवेयुस्तदैवाऽन्तिमोऽन्तरतमोऽन्तरात्मा - यो हि जीवनस्याऽद्यावध्यप्रकटं सर्वोच्चं च सत्यमासीत् स - उद्घटितो भवेत् । एतदेव मनसिकृत्य स श्रामण्यमङ्गीकृतवानासीत् । सिद्धार्थो निःशब्दतया प्रचण्डे सूर्यातपे पीडां तृषं च सहमानो तिष्ठति स्म – तावत् तिष्ठति स्म यावत् तस्य पीडातृषोरनुभूतिरेवोपशम्येत । एवमेव स वर्षति धाराबद्धं धाराधरे तिष्ठति स्म । तस्य गलद्विन्द्वार्द्रमस्तकाज्जलं स्तब्धयोस्तदंसयोस्तदूर्वोस्तत्पादयोश्च पतत् तदङ्गानि जडीकरोति स्म । किन्तु स तत्र तावत् तिष्ठति स्म यावत् तदङ्गानि निष्प्रकम्पाणि स्थिराणि च न भवन्ति । तथैव स कण्टकेष्वपि शान्ततया निविशति स्म । तस्य त्वचि कण्टकवेधनेन तीव्रवेदना भवति स्म, ततो रक्तं परिस्रवति स्म, व्रणानि च भवन्ति स्म । किन्तु यावद् रक्तस्त्रावः स्वयमेव नोपरमति, कण्टकवेधनं नोपशाम्यति शल्यानां वेदना च न निवर्तते तावत् तत्रैव कण्टकेषु स निष्प्रकम्पतया दृढतया चाऽधितिष्ठति स्म । एवंरीत्या शरीरं साधयित्वा स आसनसिद्धिमपि कृतवान् । ततः स प्राणायाम प्राणधारणं प्राणस्थिरीकरणं च शिक्षितवान् । तेन सहैव स हृदयस्पन्दनान्यल्पीकर्तुं निरोद्धं चाऽपि शिक्षितवान् । स तानि स्पन्दनानि तथाऽल्पयति स्म यथा तानि विरलतयैव Page #23 -------------------------------------------------------------------------- ________________ श्रोतुं शक्येरन् । अथ च श्रमणवृद्धान्मार्गदर्शनं प्राप्य श्रमणतन्त्रानुसारं मनोनिग्रहमात्मसंयमं ध्यानं चाऽप्यभ्यसितवान्। स परकायप्रवेशमपि साधितवान् । अन्यदैको बको वंशपादपे उड्डीयाऽऽगतः । तं दृष्ट्वा सिद्धार्थस्तच्छरीरे स्वात्मानं प्रवेशितवान् । तेनैव शरीरेण स वनेषु पर्वतेषु चोडीनवान्, बकवत् तटाकतीरेषूपतिष्ठन् मत्स्यान् खादितवान्, कदाचिद् बकक्षुधं सोढवान्, तद्भाषया भाषितवान् तन्मरणेन च मृतोऽपि । अथाऽन्यदा मृतमेकं शृगालं नदीतटे पतितं दृष्ट्वा तत्राऽपि स प्रविष्टवान् । ततो मृतशृगालो भूत्वा तट एव निपतितवान्, शोथं प्राप्तवान्, कुथितवान्, गलितवान्, तरक्षुभिश्च तस्याऽङ्गानि विघटितानि गृद्धैश्च भक्षितानि, प्रान्ते सोऽस्थिपञ्जरं भूत्वा ततश्च चूर्णीभूय वातावरणे सम्मिश्रणं प्राप्तवान् । एवं च सिद्धार्थस्याऽऽत्मा मरणं शटनं गलनं भस्मीभवनं चाऽनुभूय जीवनचक्रस्य दुःखपूर्णं परिभ्रमणमपि चाऽनुभूय स्वदेहे प्रतिनिवृत्तः । सिद्धार्थः, यत्र भवभ्रमणं समाप्तं भवति, यत्र कार्यकारणभावः शून्यतां प्राप्नोति यत्र च दुःखविहीना शाश्वतता प्रारभ्यते तादृशे बिन्दावागत्य, मृगयार्थमागतो व्याध इव दर्यां, नवतृष्णया प्रतीक्षारतः स्थितवान् । स स्वीयमिन्द्रियगणं दमितवान्, स्मृति विनाशितवान्, शरीरं परित्यज्य च सहस्रशो विविधान् रूपान् धृतवान् । स पशूभूय, कुणपीभूय, अश्मीभूय, काष्ठीभूय, वारीभूय चाऽपि पुनरुज्जागरणं प्राप्तवान् । प्रत्येकं सूर्योदये चन्द्रोदये च स पुनः स्वत्वं प्राप्तवान्, पुनरपि भवचक्रे दोलायितवान्, तृष्णया पीडितो भूत्वा, स्वपुरुषार्थेन तां तृष्णां निगृहीतवान् पुनश्च नूतनां तृष्णामनुभूतवान् । १६ Page #24 -------------------------------------------------------------------------- ________________ श्रमणानां सहवासात् स बहुतरं शिक्षितवानासीत् । स स्वात्मलोपनस्य प्रभूतान् प्रकारान् विज्ञातवान् । स स्वैच्छिक - दुःखसहनेन पीडाजयेन चाऽऽत्मनिग्रहाध्वगोऽभवत् । एवं क्षुधाजयेन तर्षजयेन श्रमजयेन च स स्वनिग्रहं साधितवान् । स ध्यानसाधनया मनसः सर्वसङ्कल्पशून्यकरणेन चाऽपि स्वनिग्रहं साधितवान् । एवं चाऽनेकान् मार्गान् स साधितवान् । स सहस्रशः स्वविलोपनं कृतवान्, नैकदिनानि यावच्च शून्यत्वस्थितिं प्राप्तुं शक्तवान् । किन्तु, यद्यपि सर्वेऽप्येते मार्गास्तं शून्यीभवितुं समाधौ च स्थातुं नितरां सहायका भवन्ति स्म, तथाऽपि पर्यवसाने तु ते तं पुनरपि पूर्वतनस्थितावानयन्ति स्म । सहस्रशः सिद्धार्थः स्वशरीरं त्यक्त्वा बहिर्गतवान्, शून्यत्वं प्राप्तवान्, पशु-पक्षिषु पृथिवी - वनस्पत्यादिषु च स्वात्मानं प्रवेशितवांश्चाऽऽसीत्, तथाऽपि ततः प्रतिनिवर्तनं स्वशरीरे पुनरागमनं वा त्वपरिहार्यमेव भवति स्म । तन्मुहूर्तमनिवार्यमेवाऽऽसीत् यदा स दिवा वा रात्रौ वा छायायां वाऽऽतपे वा वर्षासु वा स्वं पुनरपि सिद्धार्थतया देहात्मभावेनाऽनुभवेत्, पुनरपि च जीवनचक्रस्य दारुणां दुःसहां च यातनामधिषहेत । अथाऽऽसीद् गोविन्दः, यस्तस्यैव प्रतिच्छायीभूतः सन् तस्यैव च पथि व्रजन् तत्तुल्यानेव प्रयत्नान् करोति स्म । तावुभौ परस्परं साधनाया अभ्यासस्य च प्रयोजनं विना विरलतयैव भाषेते स्म । कदाचित् तौ सहैव ग्रामेषु स्वकृते गुरूणां च कृते भिक्षाग्रहणार्थं गच्छतः स्म । अन्यदा तादृश एव भिक्षाटनकाले सिद्धार्थो गोविन्दं पृष्टवान् “भोः ! किमावां काञ्चित् प्रगतिं प्राप्तौ वा ? आवाभ्यां किं पूर्वनिर्धारितं ध्येयं प्राप्तं वा ?" १७ — Page #25 -------------------------------------------------------------------------- ________________ गोविन्दोऽवदत् - "आवाभ्यां सुबहु शिक्षितमस्ति, इतोऽपि च शिक्षमाणौ स्वः । भवांस्तु महान् श्रमणो भविष्यति, सिद्धार्थ ! । भवता प्रत्येकं पाठो विद्या च शीघ्रतयाऽधिगताऽस्ति । वृद्धश्रमणा बहुशो भवन्तं प्रशंसन्ति । कदाचिद् भवानपि पवित्रो महापुरुषो भविष्यति' । सिद्धार्थेनोक्तं - "भोः ! भवदुक्तं मे तथ्यं न प्रतिभाति । श्रमणानां पार्वे यदहमेतावत्पर्यन्तं शिक्षितवानस्मि तत्सर्वं त्वहं मदिरागृहे वारवधूगृहे द्यूतगृहे वाऽऽगतानां धूर्तानां शौण्डानां च मध्ये स्थित्वाऽपि सरलतया शीघ्रतया चाऽशिक्षिष्ये" ।। गोविन्द उक्तवान् – “सिद्धार्थ उपहसति ननु ! ध्यानं प्राणायामाः क्षुत्तुषोः पीडायाश्चाऽसंवेदनशीलता - इत्येतत् सर्वं कथं वा भवान् तेषां दुरात्मनां पार्वात् अशिक्षिष्यत ?" सिद्धार्थः स्वगतोक्तिं कुर्वाण इवाऽतीव मृदुतयोक्तवान् - "किमस्ति ध्यानं? किं देहशून्यताऽस्ति ? किं वाऽस्ति प्राणधारणं? किमस्ति वा तपःकरणम् ? सर्वमप्येतत् स्वस्मात् पलायनमस्ति, स्वल्पकालमपक्रमणमस्त्येतद् आत्मवेदनातः, तथाऽस्तीत्वरिकमुपशमनमेतत् स्वस्य पीडायाः" । "एकः शकटवाहकोऽपि मदस्थानं गत्वाऽऽसवं नालिकेरजलं च स्वल्पकालीनमौषधमिव पीत्वा स्वस्मात् पलायते । ततः स न स्वचेतनामनुभवति, न जीवनस्य दुःखेन दुःखीभवति । केवलं स स्वल्पकालमुपशमनमनुभवति । मद्यचषकाणामुपरिष्टात् गाढनिद्रामग्नः सः, सिद्धार्थ-गोविन्दाभ्यां महापरिश्रमेण दीर्घकालीनयोगसाधनया तपश्चरणेन च साधितया देहमुक्तावस्थया या शून्यत्वस्थितिः प्राप्ता, तां, सुतरामनुभवति" । ___गोविन्द उदतरत् – “वयस्य ! भवानेवं वक्तुमर्हति, तथाऽपि भवान् सुतरां जानाति यन्नाऽस्ति भवान् शकटवाहको १८ Page #26 -------------------------------------------------------------------------- ________________ न वा कश्चित् श्रमणो मद्यपोऽस्ति । मद्यपस्तु जीवनात् पलायनमवश्यं प्राप्नोति, सोऽवश्यं स्वल्पकालीनां विश्रान्तिं निर्वृतिं चाऽप्यनुभवति, किन्तु यदा तस्य भ्रान्तिर्निवर्तेत यदा च स भानं प्राप्नुयात् तदा सर्वमपि यथावत् साक्षात्करोति । न तस्य विवेको वर्धते न च बोधः, नाऽपि च स कञ्चिदुष्कर्षं विकासं वा साधयति" । सिद्धार्थः सस्मितमुक्तवान् "नाऽहं जानामि भोः ! यदहमपि कदाऽपि मद्यपो भविष्यामि न वा । तथाऽपि सिद्धार्थोऽहं साधनया ध्यानेन च केवलं स्वल्पकालीनां विश्रान्तिमनुभवामि । ततश्चाऽहं प्रज्ञातो निर्वाणाच्च तथा दूरीभूतोऽस्मि यथा गर्भस्थः कश्च भ्रूण: । गोविन्द ! एतावदेवाऽहं जानामि" । अथाऽन्यदाऽपि सिद्धार्थो गोविन्देन सह गुरूणां गुरुभ्रातॄणां च कृते भिक्षार्थं व्रजन् कथितवान् – " ननु गोविन्द ! किमावां सन्मार्गे प्रस्थितावुतोन्मार्गे ? किमावाभ्यां किञ्चिदिव ज्ञानं प्राप्तं वा ? किमावां निर्वाणासन्नौ स्वो वा ? उत भ्रमणाद् निवर्तितुं यतमानावावां वर्तुलेष्वेव परिभ्राम्यावः ?" गोविन्द उक्तवान् "आवाभ्यां पर्याप्तं शिक्षितमस्ति सिद्धार्थ ! । यद्यपीतोऽपि बहु शिक्षणीयं वर्तते तथाऽपि नाऽऽवां वर्तुलगतौ स्वः, आवयोर्गतिरूर्ध्वमुखैवाऽस्ति । अथ चाऽयं मार्ग एव चक्राकारः, किन्तु तस्य कियन्त्यपि सोपानान्यावाभ्यामतिक्रान्तानि'' । सिद्धार्थोऽपृच्छत् – “अस्माकं पूज्याचार्यः श्रमणज्येष्ठो भवते कियद्वयाः प्रतिभाति भोः !' ? गोविन्देनोक्तं – “मन्ये यद् ज्येष्ठः षष्टिवर्षदेशीयोऽवश्यं “षष्टेर्वर्षाणामायुस्तथा स्यात्" । — तथा च सिद्धार्थ उक्तवान् १९ — Page #27 -------------------------------------------------------------------------- ________________ ऽप्यद्ययावन्निर्वाणं नैव प्राप्तम् । स सप्ततिवर्षीयो भविष्यति, अशीतिवर्षीयोऽपि; तथैव भवान् अहमपि च तद्वदेव च वृद्धौ भविष्यावः, शुभानुष्ठानानि तपो ध्यानं च करिष्यावः, किन्तु निर्वाणं नैव प्राप्स्यावः, न स प्राप्स्यति न वाऽऽवाम् । गोविन्द ! अहं दृढ मन्ये यत् श्रमणानामेतेषामेकतमोऽपि प्रायशो निर्वाणं न प्राप्स्यति । आश्वासनानि त्ववश्यं प्राप्नुयाम, आत्मवञ्चनार्थं युक्तीरपि शिक्षेमहि, किन्तु यत् सारतत्त्वमपेक्षितमत्र - सन्मार्गरूपं तन्नैवोपलभामहे' । “मा मैवं त्रासदायकान् शब्दानुच्चरतु सिद्धार्थ !" “गोविन्दोऽवदत् – “तत् कथं वा शक्यं यद् बहूनां ब्राह्मणानां, बहूनां विदुषां बहूनां भगवतामुग्रतपस्विनां श्रमणानां बहूनां सत्यान्वेषकाणामात्मार्थिनां पवित्रपुरुषाणां च मध्यादेकतमोऽपि सन्मार्गं नैव प्राप्स्यति ?" सिद्धार्थो व्यथितेनोपहासमिश्रितेन स्वरेण मृदुतया सदुःखमुक्तवान् – “अचिरेणैव, गोविन्द ! भवन्मित्रं श्रमणानां मार्गं त्यक्ष्यति, यत्र स भवता सहाऽद्ययावत् प्रस्थितः । अहं तीव्रतृषा पीड्ये गोविन्द !, किन्त्वस्मिन् दीर्घे श्रमणपथे मे तृड् नैव क्षीणा जाता न वा नहिवद् भूता । अहं ज्ञानप्राप्तौ सदाऽप्यतृप्तोऽस्मि ममाऽस्तित्वं च प्रश्नैरेव पूरितमस्ति । प्रत्येकं वर्षं मया विद्वांसो ब्राह्मणाः पृष्टाः, प्रत्येकमब्दं च मया पवित्रा वेदाः पृष्टाः । कदाचिद् गोविन्द !, तत् तथैव - तुल्यतया प्रशस्यं तुल्यतया चातुर्यपूर्णं तुल्यतया च पवित्रमभविष्यद् यदि मया त एव प्रश्नाः कस्मैचिद् वानराय गण्डकाय वा पृष्टा अभविष्यन् । कोऽपि जनो न किञ्चिदपि शिक्षितुं शक्तः इति बोद्धुं मया सुदीर्घकालो व्ययितोऽस्ति, अथाऽपि च तत् पूर्णतया ज्ञातुं न प्रभवामि" । २० Page #28 -------------------------------------------------------------------------- ________________ "अत एव दृढतया मन्येऽहं यत्, सर्वेषां सारभूतं तत्त्वं तत् किञ्चिदस्ति यत् शिक्षणात् पाण्डित्याद् वा ज्ञातुं नैव शक्यम् । मित्र ! एकमेव ज्ञानमस्ति यदन्तनिहितं सार्वकालीनं चाऽस्ति, तदस्ति 'आत्मा', यो मय्यपि विद्यते त्वय्यपि विद्यते सर्वेषु च जीवेषु विद्यते । तथाऽहमपि ह्येतद् विश्वसितुमारब्धोऽस्मि यद् आत्मज्ञानस्याऽस्य द्वावेव महाशत्रू - पण्डिताः पाण्डित्यं च" । तदा च गोविन्दो मार्गे एव स्तिमित इवाऽवस्थितः, स्वहस्तौ चोन्नीय कथितवान् – “सिद्धार्थ ! ईदृशैर्वचनैर्मा स्वमित्रस्य पीडामापादयतु । सत्यं, भवच्छब्दा मां क्लेशयन्ति । चिन्तयतु भोः ! यद्, यदि त्वदुक्तप्रकारेण शिक्षणं विद्या वा नाऽभविष्यत् तदाऽस्माकं पवित्रवेदानां, ब्राह्मणानां पूज्यतायाः श्रमणानां वा शुचितायाः को वाऽर्थोऽभविष्यत् ? यद्येवं तर्हि सिद्धार्थ ! सर्वेषां वस्तूनां का गतिरभविष्यत्, अस्मिञ्जगति किं वा पवित्रमस्थास्यत् किं च वाऽनय॑मलौकिकं चाऽभविष्यत् ?" अथो गोविन्दः स्वगतमेव मन्दध्वनिनोपनिषदां सूक्तमेकमुच्चरितवान् - "कश्चिद् धीरः प्रत्यागात्मानमैक्षत । आवृतचक्षुरमृतत्वमिच्छन् ॥" सिद्धार्थस्तूष्णीक आसीत् । गोविन्दवचनेषु स चिराय चिन्तितवान् । “आम्", स नतमस्तकः स्थित्वा विचारयन्नाऽऽसीत्, “ननु यदप्यस्मान् पवित्रं भासते ततः किं वाऽवशिष्यते? किं रक्ष्यते किं चोध्रियते ?" स मस्तकमधुनोत् । अथ च द्वयोरपि यूनोः श्रमणैः सह योगाभ्यासं कुर्वतोवर्षत्रयं व्यतीतम् । तावताऽन्यदा नैकस्रोतोभ्यस्ताभ्यां लोकप्रवादरूपेण किंवदन्तीरूपेण च समाचार एकः श्रुतः । एकः कश्चन महात्मा Page #29 -------------------------------------------------------------------------- ________________ प्रादुर्भूत आसीत् जगत्यां, यन्नाम गौतम इत्यासीत्, यश्च भगवान् बुद्धः इत्याख्ययया प्रथितयशा आसीत् । स जागतिकानां दुःखानां क्लेशानां च जयं प्राप्तवान् आसीत् पुनर्जन्मनश्चक्रं च निरुद्धवानासीत् । शिष्यगणेन परिवृतो लोकांश्चोपदिशन् स समस्ते देशे पर्यटितवान् आसीत् । तस्य पार्वे न काश्चित् सम्पदः, न किञ्चनाऽगारं न च स्त्र्यपि विद्यन्ते स्म । केवलं... काषायिकं वस्त्रमेकं धृतवानपि उन्नतभूरयं पवित्रपुरुषः पर्यटति स्म, बहवो विद्वांसो ब्राह्मणा राजानो राजपुत्राश्च तं प्रणमन्ति स्म तदन्तेवासिनश्च भवन्ति स्म । एष समाचारः एष लोकप्रवाद एषा च कथाऽत्र तत्र सर्वत्र जनानां कर्णोपकर्णगता प्रसृता च । ब्राह्मणा नगरेषु प्रसारयन्ति स्म श्रमणाश्च वनेषु । एवं च गौतमबुद्धस्य नामाऽनवरततया तयोमित्रयोः श्रवणगोचरतां गतं, कदाचिन्निन्दारूपेण कदाचिच्च प्रशंसारूपेण, क्वचित् सम्यक्तया क्वचिच्च विपरीततया। यथा हि, महामार्या पीडिते देशे यदि कदाचित् जनप्रवाह उत्तिष्ठते यद् – अस्ति कश्चन प्राज्ञो महापुरुषो यस्य वचनानि श्वसनं चाऽपि पीडितान् जनान् सान्त्वयितुं रोगमुक्ताश्च कर्तुमलमिति, यदा चैषा वार्ता देशे सर्वत्र प्रसरेत् जनाश्च तामेव चर्चयेयुस्तदा बहवस्तां विश्वसन्ति बहवश्च शङ्कन्ते, बहवस्तु सपद्येव सर्वाणि कार्याणि विमुच्य तं महापुरुषमन्वेषयन्तस्तत्पावें गच्छन्ति - अस्मद्धितकार्ययमेवेति कृत्वा । अथैतत्प्रकारेणैव गौतमबुद्धस्याऽपि शाक्यकुलोत्पन्नस्य समाचारः प्रवादश्च समस्ते देशे प्रसृतः । “स परमज्ञानं धारयति स्म" - श्रद्धालव उक्तवन्तः, "तस्य पूर्वजन्मनां स्मरणमासीत्, तेन निर्वाणं प्राप्तमत इतः परं स भवचक्रे नैव पर्यटिष्यति, नाम २२ Page #30 -------------------------------------------------------------------------- ________________ रूपयोर्दुःखमयस्रोतस्सु च नैव मज्जिष्यति" । तस्य विषये बह्व्योऽद्भुता अश्रद्धेयाश्च वार्ता श्रूयन्ते स्म । यथा, स चमत्कारान् करोति स्म, समारं जितवान् आसीत्, देवैश्च सह सम्भाषणं कर्तुं शक्त आसीत् । किन्तु तस्य द्वेषिणो विरोधिनोऽश्रद्धालवश्च जनाः कथयन्ति स्म यत् "गौतमः प्रमादी धूर्तश्चाऽस्ति, स केवलं मधुरवचनैर्जनान् प्रतारयति, स्वयं तु महता वैभवेन विलासितया च दिनानि यापयति, यज्ञान् तिरस्करोति, तस्य न किमपि ज्ञानं विद्यते, तथा स नैव योगाभ्यासं नाऽपि च देहदमनं तपश्चरणं वा जानाति" । बुद्धविषयक वार्ताऽऽकर्षिक्यासीत्, किञ्चित् सम्मोहनमिवाऽऽसीत् तस्याम् । जगद् हि दुःखैर्व्यथितमासीत् जीवनं च प्रतिपदं विषमं दुर्गमं चाऽऽसीत् । एतादृशे काले एषा नूतनाऽऽशेव जागृता । एको हर्षदः सान्त्वनदायकः शान्तिकरः सुन्दराभिश्चाऽऽशंसाभिः परिपूर्णः सन्देशं समागत इव सर्वत्र बुद्ध एव चर्चागोचरो भवति स्म । सकलभरतखण्डस्य युवका एनं प्रवादं श्रुत्वा कुतूहलिनो आशंसिनश्च सञ्जाता आसन् । प्रत्येकं नगरेषु ग्रामेषु च महायशसः शाक्यमुनेः समाचारं कथयितारो यात्रिणोऽपरिचिता वैदेशिकाश्चाऽपि स्वागतार्हा जायन्ते स्म । शनैः शनैः समाचारा एते वने वसतां श्रमणानां कर्णगोचरत्वमपि प्राप्ताः । सिद्धार्थ - गोविन्दावपि तत्समाचारलेशं शङ्काभृतमाशंसापूर्णं चाऽपि श्रुतवन्तौ । श्रमणज्येष्ठाय प्रवादोऽयं न रोचते स्मेति तौ तद्विषयिक चर्चामतिविरलतयैव कुरुतः स्म । ज्येष्ठेन श्रुतचरमासीद् यद् – 'बुद्धोऽयं पुरा कश्चन वनवासी श्रमण आसीत्, किन्तु पश्चात् स सर्वं तत् त्यक्त्वा विलासमयं भौतिकसुखपूर्णं च जीवनं जीवति स्म । ईदृशे गौतमे तस्य आदरः कथं वा भवितुमर्हेत् ? २३ — Page #31 -------------------------------------------------------------------------- ________________ अथाऽन्यदा गोविन्दः स्वमित्रमुक्तवान् – “अद्यैकस्मिन् ग्रामे एकेन ब्राह्मणपुत्रेणाऽहं भिक्षार्थमामन्त्रितः । यदाऽहं तद्गृहं प्राप्तस्तदा तत्रैकोऽन्यो ब्राह्मणपुत्रो मगधेभ्य आगत आसीत् । स स्वनेत्राभ्यां प्रत्यक्षमेव बुद्धं दृष्ट्वा, तद्वाणी च साक्षाच्छ्रुत्वैवाऽऽगतः । तत्सकाशाद् बुद्धवर्णनं श्रुत्वा नूनमेवाऽहमुत्सुको जातोऽस्मि यत्, कदाऽऽवामुभावपि तस्य पूर्णपुरुषस्य मुखादुपदेशं श्रोष्यावः ? वयस्य ! किमावामपि इतस्तस्योपदेशं श्रोतुं गच्छेव वा ?" सिद्धार्थोऽकथयत् - "मया तु चिन्तितमासीद् यद् गोविन्दस्तु श्रमणैः सहैव वत्स्यति, षष्टिं सप्ततिं वा वर्षाणि यावत् इहैव स्थित्वा श्रमणैः शिक्षिता विद्या अभ्यसनीया - इत्येव तस्य ध्येयमिति मे मतिरासीत् । किन्तु भवद्विषयेऽहमत्यल्पं जानामि गोविन्द ! । भवतो मनसि ईदृशो विचारोऽपि जागर्ति तन्नैव ज्ञातवानहम् । किं भवानपि ममेवेदानीं नूतने पथि सञ्चरितुं, बुद्धस्योपदेशं च श्रोतुमिच्छति वा !" ___ गोविन्देन कथितं - "मित्र ! भवान् ममोपहासं कृत्वाऽऽनन्दं प्राप्तुमर्हति । भवतु नाम । किन्तु सिद्धार्थ ! किं भवानपि तस्य पूर्णपुरुषस्योपदेशं श्रोतुमुत्सुकोऽस्ति न वा ? तथा भवतैवैकदा मे कथितमासीद् यद् - अहमचिरेणैव श्रामण्यं त्यक्ष्ये इति - तद् भवान् स्मरति न वा ?" तन्निशम्य सिद्धार्थो हसितः । तद्धासध्वनौ शोकमिश्रितोपहासो द्योतते स्म । तेनोक्तं - "भवता सुष्ठुक्तं गोविन्द !, भवतः स्मृतिरपि प्रशंसाहा॑ । किन्तु तदा मया किञ्चिदन्यदपि कथितमासीत्, तदपि स्मर्तव्यं भवता, यन्ममोपदेशेषु पाण्डित्ये शिक्षणे च श्रद्धा नाऽस्ति, उपदेशकानां वचनानि नहिवदेव रोचन्ते मे । किन्तु, भवतु नाम, यद्यपि तस्योपदेशस्योत्तमानि फलानि तु निश्चित २४ Page #32 -------------------------------------------------------------------------- ________________ मावाभ्यामास्वादितान्येव ! तथाऽप्यहं तं नूतनोपदेशं श्रोतुं सिद्धोऽस्मि । गोविन्दोऽवदत्- "भवन्तमत्राऽर्थे सम्मतं दृष्ट्वाऽतीव प्रमुदितोऽस्मि । किन्तु, गौतमस्योपदेशमश्रुत्वैवाऽऽवाभ्यां तस्य श्रेष्ठफलान्यास्वादितानीति भवान् कथं वदति ? कृपया बोधयतु माम्'' । सिद्धार्थ उक्तवान् – “एतस्य फलस्योपभोगं कुर्यावाग्रेनानि च फलानि प्रतीक्षेवहि । एतत्फलत्वं नाम श्रमणमार्गात् नौ प्रतिनिवर्तनं, तदर्थं त्वाऽऽवां गौतमस्य ऋणिनौ स्वः । अग्रे च यदीतोऽपि श्रेष्ठानि फलानि स्युस्तदा तानि शान्त्या प्रतीक्षेवहि" । अथ च तस्मिन्नेव दिने सिद्धार्थो ज्येष्ठाय श्रमणाय सङ्घत्यागार्थं निवेदितवान् । स यद्यपि शिष्यजनोचितेन विनयेन नम्रतया च स्वनिवेदनं कृतवान्, किन्तु तयोर्द्वयोः श्रामण्यत्यागनिर्णयं श्रुत्वा स श्रमणज्येष्ठोऽत्यन्तं क्रुद्धो जात उच्चैश्च तौ निर्भत्सितवान् । एतेन यद्यपि गोविन्दः स्तब्ध: किकर्तव्यविमूढश्च जात:, तथाऽपि सिद्धार्थस्तु स्वस्थतयैव गोविन्द - कर्णयोर्मन्दतयोपजपितवान् – “अधुनाऽहमस्य वृद्धजनस्य दर्शयामि यन्मयाऽपि तत्पार्श्वात् किञ्चित् शिक्षितमस्ति" इति । ततः स तस्य श्रमणज्येष्ठस्य समीपं गत्वैकाग्र्येण स्थितः । स स्थिरतया तस्य वृद्धस्य नयनयो: पश्यन् त्राटकं कृतवान्, संमोहनं कृत्वा च तं स्ववशं कृतवान्, नि:शब्दं कृतवान्, तत्सङ्कल्पशक्तिं स्वायत्तीकृतवान् । स्वेच्छानुसारं च वर्तितुं तमादिष्टवान् । वृद्धः श्रमणो मूको जातः, तद्दृष्टिर्जडीभूता, मनोबलं विकलं जातं, शरीरं च शक्तिहीनं जातम् । सिद्धार्थस्य संमोहनशक्तेः पुरतः स सर्वथा सामर्थ्यरहितोऽभवत् । सिद्धार्थस्य विचाराः श्रमणस्य विचारान् पराभूतवन्तः । सिद्धार्थेच्छानुसारमेव २५ Page #33 -------------------------------------------------------------------------- ________________ तेन वर्तितव्यमभवत् । ततश्च स बहुशस्तावनमत्, ताभ्यामाशिषः प्रायच्छत्, प्रवासार्थं गद्गदतया शुभेच्छाः कृतवान् । तौ द्वावपि च तदर्थं तस्मै कार्तश्यमुपदर्शितवन्तौ, तं नत्वा च ततः प्रस्थितौ । मार्गे गोविन्द उक्तवान् – “सिद्धार्थ ! भवता श्रमणानां पार्वादियदधिकं शिक्षितमस्ति तन्मया नैव ज्ञातमासीत् । ईदृशस्य श्रमणज्येष्ठस्य संमोहनं वशीकरणं च नामाऽत्यन्तं दुष्करं कार्यम् । इदं सत्यं यद् यदि भवान् अत्रेतोऽप्यधिकमस्थास्यत् तदा शीघ्रमेव जलोपर्यपि चलितुं शक्तोऽभविष्यत्" । "मम नाऽस्ति काऽपि वाञ्छा जलोपरि चलनस्य' - सिद्धार्थोऽवदत्, “भवन्तु नाम श्रमणा एव तादृशीभिर्विद्याभिः सन्तुष्टाः" । Page #34 --------------------------------------------------------------------------  Page #35 -------------------------------------------------------------------------- ________________ ३. गौतमः श्रावस्तीनगरे प्रत्येकं बालकोऽपि महायशसो बुद्धस्य नाम जानाति स्म, प्रत्येकं गृहं चाऽपि मौनतया भिक्षां याचमानान् गौतमस्य भिक्षुकान् सर्वविधां भिक्षां दातुमुत्सुकमासीत् । नगरासन्नमेव गौतमस्याऽभीष्टा वसतिः जेतवनाभिधमुपवनमासीत्, यद्धि पूर्णपुरुषस्य परमोपासकेन धनाढ्यश्रेष्ठिनाऽनाथपिण्डिकेन बुद्धाय तच्छिष्येभ्यश्च समर्पितमासीत् । , अथैताभ्यां द्वाभ्यामपि युवतापसाभ्यां पृच्छया जनवादेन च ज्ञातमासीद् यद् गौतमस्य वसतिरस्मिन्नेव प्रदेशे विद्यते । यदा तौ द्वौ श्रावस्तीनगरं प्राप्तौ तदा प्रथमे एव गृहे भिक्षार्थं मौनतया स्थितयोस्तयोर्द्रागेव गृहिण्या भिक्षान्नमुपढौकितम् । द्वाभ्यामपि तदन्नं विभक्तं, सिद्धार्थेन च तस्यै स्त्रियै पृष्टं 'आर्ये ! आवां द्वावप्यरण्यादागतौ स्वो महाज्ञानिनो बुद्धस्य दर्शनार्थं तन्मुखपद्माच्च निःसृतमुपदेशामृतं पातुं किं तत्रभवती ज्ञापयेत् आवां, कुत्र स भगवान् निवसति ?” 44 स्त्रियोक्तं " भवन्तावुचिते स्थले एवाऽऽगतौ भोः श्रमणौ ! । महाज्ञानी भगवान् बुद्धोऽधुनाऽनाथपिण्डिकस्य जेतवनाभिधोद्याने उषितोऽस्ति । तत्र तदुपदेश श्रवणार्थमागतानां जनानां कृते महदानुकूल्यं वर्ततेऽतो भवन्तौ तत्रैव रात्रिवासं कल्पयितुं शक्नुयाताम्' । — — श्रुत्वैतत् प्रहृष्टौ गोविन्दः सानन्दमवदत् – “अहो ! एवं, तर्हि सिद्धं नौ कार्यं, आवयोर्यात्रा समाप्तेव । किन्तु कथयतु भोः यात्रिकाणां मातर् ! किं भवती बुद्धं जानाति खलु ? किं भवत्या कदाऽपि स भगवान् दृष्टचरः खलु ?" २८ Page #36 -------------------------------------------------------------------------- ________________ तया गदितं – "अवश्यं श्रमण ! मयाऽनेकशः स पूज्यो दृष्टोऽस्ति । बहुधा स भगवान् काषायवस्त्रधारी नगरमार्गेषु भिक्षार्थमटन्, शान्ततया भिक्षापात्रं गृहद्वाराग्रे धरन्, भृतं च भिक्षापात्रं गृहीत्वा प्रतिनिवर्तमानश्च मयाऽवलोकितोऽस्ति" । एतत् सर्वं गोविन्दो मन्त्रमुग्धो भूत्वा श्रुतवान् । स इतोऽपि बहु प्रष्टुं श्रोतुं च समुत्सुक आसीत् किन्तु सिद्धार्थस्तस्य गमनकालं स्मारितवान् । ततो द्वावपि तां प्रति कार्तश्यं दर्शयन्तौ निर्गतौ । अथ जेतवनं प्रति गमनार्थं बहवो बुद्धानुयायिनो भिक्षुका यात्रिकाश्च प्रस्थिता आसन् अत एतावपि द्वौ कमपि मार्गमपृष्ट्वा तेषामेव पृष्ठतो जेतवनं प्रति प्रस्थितौ । यदा तौ तत्र प्राप्तौ तावता रात्रिर्जाताऽऽसीत् । यात्रिकाणामागमनं तु निरन्तरं भवति स्म । सर्वेषामपि तेषां निवासं प्रार्थयमानानां प्राप्नुवतां च शब्दैर्वातावरणं कोलाहलमयं सञ्जातम् । एतावपि श्रमणावभ्यस्तारण्यजीवनौ शीघ्रमेव मौनमेव चाऽऽवासं प्राप्तवन्तौ प्रत्यूषपर्यन्तं च तत्रैवोषितौ । __सूर्योदयवेलायां तु तत्र प्रभूतान् श्रद्धालुजनान् बुद्धदर्शनार्थमत्युत्सुकान् दृष्ट्वा तौ विस्मयाकुलौ जातौ । काषायवस्त्रधारिणो बहवो भिक्षवस्तस्य विशालस्योद्यानस्य प्रत्येकं मार्गेषु सञ्चरन्ति स्म । यत्र तत्र वृक्षाणामधस्तात् केचिद्ध्यानार्थमुपविष्टाः, केचितु शास्त्रादिचर्चासु संलग्नाः । एवं च दूरतस्त्वेतदुद्यानं मधुमक्षिकाभिः सङ्कुलो मधुकोश इव प्रत्यभासत । ततः प्रायशः सर्वेऽपि भिक्षवो भिक्षाग्रहणार्थं स्वस्वभिक्षापात्रं गृहीत्वा नगरं प्रति प्रस्थिताः । ते हि प्रत्यहमेकवारमेवाऽभुञ्जत । अन्येषां तु का वार्ता ? स्वयं भगवान् बुद्धोऽपि नगरे भिक्षाटनं करोति स्म। २९ Page #37 -------------------------------------------------------------------------- ________________ सिद्धार्थस्तं दृष्ट्वान् केनचिद् देवेन च निर्दिष्ट इवाऽभिज्ञातवानपि । स तं महायशस्विनं भिक्षापात्रधरं, प्रशान्ततया चलन्तं, निराडम्बरं, काषायवस्त्रधारिणं वीक्षितवान् । ततः पार्वे एव स्थितं गोविन्दं स निभृतमुक्तवान् – "पश्य भोः ! अयमेव स महायशस्वी बुद्धः"। गोविन्दस्तं सावधानं दृष्टवान् । यद्यपि काषायवस्त्रधारिणां शतशो भिक्षूणामेवाऽन्यतमः स झटिति समभिज्ञायमानो नाऽऽसीत् तथाऽपि गोविन्दस्तमभिज्ञातवान् । आम्, स एवाऽऽसीद् बुद्धः । द्वावपि तं निरीक्षमाणावेव तमनुगतवन्तौ । बुद्धः स्वमार्गे उपशान्ततया गच्छन्नाऽऽसीत् । तन्मुखमण्डलं गाढं विचारमग्नमिवाऽभासत । अथाऽपि नैव तद् विषण्णं नाऽपि च प्रहृष्टमासीत् । स स्वचित्तेऽत्यन्तं प्रसन्नतामनुभवन्निवाऽलक्ष्यत । स्वस्थशिशोर्मुखे इव तस्याऽपि वदनेऽव्यक्तं स्मितमुल्लसति स्म । अन्यभिक्षव इव सोऽपि शाटकमेकं धृत्वा चलन्नासीत् तथाऽपि तस्य वदनं, पदन्यासाः, शमवती भूमिन्यस्ता दृष्टिः, लम्बमानो हस्तः, हस्तस्य च प्रत्येकमङ्गुल्यः, ननु समग्रमप्यस्तित्वं केवलं परमां शान्ति पूर्णतां चैव द्योतयति स्म । तस्य सम्पूर्णेऽपि व्यक्तित्वे न काऽपि तृष्णा स्पृहा वा प्रकटति स्म न वा कस्याऽप्यनुकरणं तत्राऽभासत । केवलमविच्छिन्ना शान्तिरक्षीयमाणं तेजोऽनिर्वचनीया च स्वस्थता स्फुरति स्म । ___ नगरं प्राप्य गौतमो भिक्षार्थमितरभिक्षुवदेव गृहाण्यटितवान् । इमौ च द्वौ श्रमणौ तस्य पूर्णतयोपशान्तेन व्यवहारेण, अक्षुब्धयाऽऽकृत्या चैव तमभिज्ञातवन्तौ । तत्राऽऽकृतौ न काऽपि काङ्क्षाऽभिलाषो वा, न कोऽपि दम्भो न वा कोऽपि प्रयत्नो 30 Page #38 -------------------------------------------------------------------------- ________________ दृश्यते स्म । केवलं तेजः शान्तिश्चैव द्योतेते स्म । 'अद्याऽऽवां साक्षात् तस्यैव मुखादुपदेशं श्रोष्यामः", सहसा गोविन्दोऽवदत् । 44 किन्तु सिद्धार्थस्तं नैवोदतरत् । उपदेशश्रवणे तस्यौत्सुक्यं नाऽऽसीदेव । उपदेशात् काचिन्नूतना शिक्षा प्राप्येतेत्यत्राऽपि तस्य श्रद्धा नाऽऽसीत् । यद्यपि तेन गोविन्देन च कर्णोपकर्णं तस्य महाज्ञानिन उपदेशस्यांऽशाः श्रुतचरा एव, तथाऽप्यद्य तु तस्य पूर्णमपि ध्यानं गौतमस्य मस्तके, तदंसयोः, तच्चरणयो:, तस्य स्थिरे लम्बमाने च हस्ते चैवाऽऽसीत् । तस्य प्रत्येकमङ्गुल्याः प्रत्येकं सन्धिभ्यः ज्ञानमेव स्फुरदिव प्रत्यभासत । ते हि सन्धयो ननु सत्यमेवोद्गिरन्तः सत्यस्य निर्मलं प्रकाशमेव चोच्छ्वसतोऽनुभूतास्तेन । एषोऽयं बुद्धो ननु प्रत्येकमणुषु पवित्रतम आसीत् । इतः पूर्वं कदाऽपि सिद्धार्थेन न कञ्चित् प्रति ईदृश आदरो बहुमानो वा दर्शितो न वाऽऽकर्षणमनुरागश्चाऽप्यनुभूत आसीत् । तौ द्वावपि तूष्णीमेव नगरे बुद्धमनुसृतवन्तौ स्वस्थानं च प्रतिनिवृत्तौ । ताभ्यां तद्दिने उपोषितुं निर्णीतमासीत् । तावता ताभ्यां प्रतिनिवर्तमानो गौतमो विलोकितः, स्वशिष्यवृन्दमध्ये उपविश्य पक्षिणोऽप्यपर्याप्तमत्यल्पम् अन्नं गृहीत्वा स आम्रनिकुञ्जच्छायासु कुत्राऽपि निलीनो जातः । सायं हि शान्ते सूर्यातपे सर्वेऽपि सत्वरमेकत्र मिलिताः - बुद्धोपदेशं श्रोतुम् । ताभ्यामपि श्रुतस्तस्योपदेशः । तस्य स्वरो हि सर्वथाऽविकलः सौम्यः स्वस्थः शान्तिमयश्चाऽऽसीत् । गौतमः उपादिशत् – “दुःखमस्ति, दुःखकारणानि सन्ति, दुःखमुक्तेरुपाया अपि सन्ति । जीवनमिदं दुःखरूपमेव, जगदपीदं दुःखपूर्ण ३१ Page #39 -------------------------------------------------------------------------- ________________ मेवाऽस्ति । किन्तु दुःखमुक्तेर्मार्गोऽपि सम्प्राप्तोऽस्ति । ये केऽपि बुद्धदर्शितं मार्गमनुसरिष्यन्ति ते सर्वेऽपि निर्वाणं प्राप्स्यन्ति" । तस्य वचनपद्धतिर्मुदुलाऽपि दृढाऽऽसीत् । चत्वार्यार्यसत्यानि, अष्टाङ्गं च मार्ग बोधयित्वा सधैर्यं तेन विविधदृष्टान्तैः पुनः पुनः प्रेरणाभिश्च स्वीयोपदेशः सरलतया प्रवर्तितः । दिवि प्रसरत् तेज इव, ननु काचित् तेजसोल्लसिता तारकेव स्पष्टतया स्वस्थतया च तस्य वाणी श्रोतृहृदयेषु प्रासरत् । यदा स प्रवचनं समर्थितवान् तदा रात्रिः प्रवर्तमानाऽऽसीत् । बहवो यात्रिकास्तच्चरणयोर्वन्दित्वा स्वं सङ्के स्वीकर्तुं विज्ञप्तवन्तः । बुद्धस्तेषां सङ्घप्रवेशमनुमतवान् कथितवांश्च – “भवद्भिः सम्यक्तयोपदेशः श्रुतोऽस्ति । सङ्घ सम्मील्याऽत्रभवन्तः ससुखं विहरन्तु दुःखानां चाऽन्तं कुर्वन्तु" । तावता लज्जालुर्गोविन्दोऽप्यग्रे आगतो निवेदितिवांश्च – "अहमपि महायशस्विनं बुद्धं तत्सर्वं च प्रति मम निष्ठां समर्पयितुमुत्कोऽस्मि' । ततः स सङ्के स्वस्वीकारार्थं विज्ञप्ति कृतवान् स्वीकृतश्च बुद्धेन । रात्रिविश्रामार्थं गते बुद्धे, तत्क्षणमेव गोविन्दः सिद्धार्थसमीपं गत्वोत्सुकतया कथितवान् - "सिद्धार्थ ! यद्यप्यह भवन्तमुपालब्धुं नाऽर्होऽस्मि । तथाऽपि कथयामीदं यदावां द्वावपि भगवतोऽस्य वाणीं श्रुतवन्तौ तत्कथितमुपदेशं चाऽपि धारितवन्तौ । गोविन्दो हि तद् बोधं श्रुत्वा तन्मार्ग स्वीकृतवानस्ति, किन्तु सिद्धार्थ ! मित्र ! किं भवानपि निर्वाणपथमेनं समाक्रमितुमुत्साहवान् नाऽस्ति वा? किमिति भवान् अद्याऽपि चिरायते? इतोऽपि किं वा प्रतीक्षते भवान् ?" शब्दानिमान् गोविन्दमुखाच्छ्रुत्वा सिद्धार्थः सहसा निद्रातो Page #40 -------------------------------------------------------------------------- ________________ जागृत इव । स गोविन्दस्य मुखं चिरायाऽवलोकितवान् । ततः स मृदुतयोक्तवान्, उपहासलेशोऽपि तत्र नाऽऽसीत् – “गोविन्द ! मम सुहृत् ! भवान् पदं निहितवानस्ति, भवान् स्वमार्ग निर्णीतवानस्ति । भवान् हि सर्वदा मम प्रियमित्रं वर्तते, गोविन्द ! भवान् सर्वदा मामेवाऽनुसरति । बहुधा मया चिन्तितमासीत् यत् - किं गोविन्दो मया विनाऽपि कदाचिदपि - स्वात्मविश्वासेनैव - पदमात्रमपि क्रमिष्यति वा ? किन्तु, अद्य भवता स्वसामर्थ्य दर्शितमस्ति मित्र !, भवता स्वपथश्चितोऽस्ति । आऽन्तं भवान् तमेव मार्गमनुसरेत् निर्वाणं दुःखमुक्तिं च प्राप्नुयात्" । गोविन्दो हीतोऽपि तत्कथनमर्म नाऽवबुद्धवान्, अतोऽधीरतया पुनस्तं कथितवान् - "वदतु, मम प्रियमित्र ! वदतु यद् - भवानपि बुद्धं प्रति स्वनिष्ठासमर्पणं विना नाऽन्यत् किमपि कर्तुं शक्तोऽस्तीति"। सिद्धार्थस्तत्स्कन्धे स्वहस्तं निवेश्य सौम्यतया कथितवान् - "भवता ममाऽऽशीर्वचांसि श्रुतानि भोः !, अहं पुनरपि कथयामि - भवान् आऽन्तमिममेव मार्गमनुसरेत्, भवान् निर्वाणं प्राप्नुयात्" । तत्क्षणमेव गोविन्दोऽवगतवान् यत् - तस्य मित्रं तं विहाय गच्छतीति । तस्य नेत्रे अश्रुक्लिन्ने जाते। "सिद्धार्थ !" - रुदन्नेव स उक्तवान् । सिद्धार्थः सस्नेहं तमुक्तवान् – “मा विस्मरत्वेतद् गोविन्द ! यद् - भवान् बुद्धस्य पवित्रभिक्षुष्वन्यतमः । भवता गृहं पितरौ च त्यक्तानि, भवता स्वजातिः सम्पत्तिश्चाऽपि त्यक्ते, अपि च स्वस्येच्छाऽपि भवता परित्यक्ता, मैत्र्यपि च भवता परित्यक्ता । अद्य श्रुतस्य बोधस्याऽयमेव सारः, भगवतो बुद्धस्याऽपि ह्यत्रैव तात्पर्यम् । Page #41 -------------------------------------------------------------------------- ________________ इदमेव हि भवताऽप्यभिलषितम् । गोविन्द ! अहं तु श्वो गमिष्यामि' । ततो द्वावपि सुहृदौ तत्रोपवने चिराय विहृतौ । ततश्च भूमौ शयितौ, परन्तु निद्रा नैवाऽऽगता। गोविन्दः स्वमित्रं वारं वारं सनिर्बन्धं पृष्टवान् यत् – किमर्थं स बुद्धोपदशितं मागं नाऽनुसरति ? किं काचित् क्षतिस्तेन तत्राऽन्विष्टा वा? किन्तु प्रतिवारं सिद्धार्थस्तं निराकृतवान् – “गोविन्द ! शान्तो भवतु, स्वस्थो भवतु । महायशस्विनो भगवत उपदेशः सर्वथा श्रेष्ठोऽस्ति । कथं वाऽहं तत्र क्षतिमन्वेष्टुं प्रभवेयम् ?" प्रत्यूष एव, बुद्धस्य प्रधानशिष्येष्वन्यतमो भिक्षकस्तत्रोपवने आगत्य गोविन्दमन्यांश्च जनान् - यै रात्रौ बुद्धस्य मार्गो स्वीकृत आसीत् तान् - काषायवस्त्रधारणार्थं दीक्षान्तप्रवचनश्रवणार्थं कर्तव्यसूचनार्थं चाऽऽहूतवान् । तदा गोविन्दः स्वमित्रमालिङ्ग्य ततो निर्गतो भिक्षुकवस्त्राणि च परिहितवान् । गहन विचाराधीनः सिद्धार्थश्चाऽऽम्रकुञ्जेषु भ्रमणं कुर्वन् महायशस्विनं गौतमं दृष्टवान् । स सादरं सविनयं च तं वन्दितवान् । तं प्रति बुद्धस्य प्रतिक्रियाऽतीव सद्भावपूर्णा सौम्या चाऽस्तीति विलोक्य तेन यूना धैर्यमवलम्ब्य भगवता सह सम्भाषितुं तदनुमतिर्याचिता । भगवताऽपि मौनमेवेषच्छिरश्चालनपूर्वकं स्वसम्मतिः प्रदर्शिता ।। सिद्धार्थ उक्तवान् – "भगवन् ! ह्यो भवतोऽद्भुतमुपदेशं श्रोतुं सौभाग्यं मया प्राप्तमासीत् । अहं हि बहुदूरवर्तिप्रदेशात् भवन्तमेव द्रष्टुं श्रोतुं चाऽत्र समित्रः समागतोऽस्मि । इतः परं भवन्मार्गमाश्रितो मे सुहृद् अत्रैव स्थास्यति । अहं तु मम यात्रामनुवर्तयिष्यामि । ३४ Page #42 -------------------------------------------------------------------------- ________________ "यथा भवत इच्छा" - भगवता पूर्णसौजन्येनोक्तम् । "मम कथने कदाचिद् धृष्टताऽपि स्यात्", सिद्धार्थोऽनुवर्तयत्, “किन्तु मम विचारान् यथावद् अनिवेद्य नाऽहं भगवत्सकाशाद् निर्गन्तुमुत्कोऽस्मि । किं भगवत्पादो मम कथनं - किञ्चिद् दीर्घतरं - श्रोष्यति वा ?" बुद्धेन तूष्णीमेव स्वसम्मतिः सूचिता । सिद्धार्थोऽवदत् - "भगवन् ! सर्वप्रथमं त्वहं भवत उपदेशं सर्वथा प्रशंसामि । तत्र सर्वमपि पूर्णतया स्पष्टं प्रमाणितं चाऽस्ति । भवता हि जगदिदं पूर्ण-शाश्वताखण्डशृङ्खलाबद्धं कार्य-कारणभावेनाऽन्वितं च वर्णितम् । तथ्यमिदमियत्स्पष्टतया न कदाऽपि प्रस्तुतं नाऽपि हीयदप्रतिकार्यतया प्रमाणितं वा । यदा कश्चिद् ब्राह्मणो भवबोधदृष्ट्या जगदिदं पश्येत् - सर्वथा संवादि, सर्वथा नियमितं, स्फटिकवन्निर्मलं स्पष्टं च, दैवं दैवतं वाऽनवलम्बमानं - तदा तस्य हृदयं नूनं शीघ्रतया स्पन्दितुमारभेत"। "जगदिदं शुभं वा भवेदशुभं वा, जीवनं सुखमयं वा भवेद् दुःखपूर्णं वा, शाश्वतं वा भवेन्नश्वरं वा - एतत्सर्वस्य नाऽस्ति किमपि महत्त्वं; किन्तु समग्रविश्वस्यैक्यं, प्रत्येकं घटनानां परस्परं सुसङ्गतता, लघोर्महतो वा सर्वस्याऽपि ह्येकस्मिन्नेव स्रोतसि, एकस्मिन्नेव जन्ममरणयोः कार्य-कारणनियमे समावेशः - भवत उदात्तोपदेशात् स्पष्टतयेदं तत्त्वं प्रकाशते भोः पूर्णपुरुष !। किन्तु, एकत्र भवदुपदेशे हीदमैक्यमयं च समग्रवस्तूनां तार्किकोऽन्वयः खण्डितो भवति । एकस्माद् सूक्ष्मच्छिद्रादैक्यस्य विश्वे किञ्चिदपूर्वं, किञ्चिन्नवं, तादृशं किञ्चित् – यत् पुरा नाऽऽसीत्, यच्च प्रदर्शयितुं प्रमाणयितुं वा न शक्यं - प्रविशति, तद्धि Page #43 -------------------------------------------------------------------------- ________________ निर्वाणस्य सिद्धान्तः । भवत्प्रतिपादितः संसारत उत्थानस्य अनेनैव सूक्ष्मरन्ध्रेण खलु शाश्वतस्यैकस्य च विश्वस्य नियम: खण्डितो भवति । आक्षेपकरणार्थं कृपया क्षम्यताम्" । गौतमः शान्त्या स्थिरतया च तच्छ्रुतवानासीत् । तत: स पूर्णपुरुषः सौम्य-मृदु-स्पष्टस्वरेण कथितवान् – “भवता ह्युपदेशः सम्यक्तया श्रुतोऽस्ति भो ब्राह्मणपुत्र !, तथा श्रवणानन्तरं तदुपरि गभीरं चिन्तनं यद् भवता कृतं तदपि प्रशस्यम् । भवता या क्षतिस्तत्राऽन्विष्टा सा इतोऽपि विचारार्हा । भवान् हि ज्ञानपिपासुरस्ति तथाऽपि तर्कजालं शब्दजालं च प्रति जागरूको भवतु । तर्काः खलु निरर्थकाः, ते सुन्दरा असुन्दरा वा भवेयुः, चातुर्यपूर्णा मूर्खतापूर्णा वा भवेयुः, यः कोऽपि तान् स्वीकर्तुं निराकर्तुं वाऽर्हति'" । " यद्यपि, उपदेशं श्रुत्वा भवता यच्चिन्तितं तत्र मेऽभिप्रायो नाऽस्ति, नाऽपि च तदुपदेशस्य लक्ष्यं ज्ञानपिपासूनां विश्वस्वरूपज्ञापनम् । तस्य लक्ष्यमस्ति किञ्चिद् भिन्नमेव, तद्धि दुःखमुक्तिः । इदमेव हि गौतम उपदिशति नाऽन्यत्" । "कृपया भगवन् ! मयि कुपितो मा भवतु " - सिद्धार्थ उक्तवान् । “अहं हि भवता सह शब्दानधिकृत्य विवदितुं न कथयामीदम् । तथा भवान् सत्यमेव वदति यत् तर्का: खलु निरर्थकाः । किन्तु अहमन्यदपि किञ्चित् कथयानि वा ? प्रभो ! अहं भवद्विषये क्षणमात्रमपि न शङ्के । भवतो बुद्धत्वविषयेऽपि न मे मनसि शङ्कालेशोऽपि, तथा भवता तदुच्चं ध्येयं प्राप्तमस्ति यद्धि सहस्रशो ब्राह्मणा ब्राह्मणपुत्राश्च प्राप्तुं प्रयतन्ते - एतदपि शङ्कातीतमेव । इदं ध्येयं भवता, स्वयमेव निश्चितेन पथा स्वप्रयत्नैरेव च प्राप्तमस्ति विचारैः, ध्यानेन, ज्ञानेन स्वप्रबोधनेन च । भवता ह्युपदेशश्रवणैर्न किञ्चिदपि शिक्षितमस्ति इति खलु मे ३६ - Page #44 -------------------------------------------------------------------------- ________________ मतिः । अतोऽहं विचारयामि यद् न कोऽपि जनः केवलमुपदेशश्रवणेनैव निर्वाणं प्राप्नुयात्, तथा हे भगवन् ! भवच्चित्ते यदा ज्ञानप्रबोधो जातस्तत्क्षणीयां परिस्थितिं भवानपि न कमपि जनं शब्दरुपदेशैर्वा विवरीतुं शक्तः । परमज्ञानिनो बुद्धस्योपदेशो हि बहून् विषयान् व्याप्नोति, प्रभूतं शिक्षयति - सदाचारेण कथं जीवितव्यम्, असत्पथश्च कथं परिहर्तव्यः - इत्यादि । किन्तु भगवता - लक्षेष्वेकेनैव केवलं - स्वयं यदनुभूतं तस्य निर्देशोऽपि ह्यस्मिन् स्पष्टे सारवति चोपदेशे नैव प्राप्यते । इदमेव भवदुपदेशश्रवणकाले मया विचारितं समनुभूतं च । अत एवाऽहं मम स्वमार्गे एव गमिष्यामि, नाऽन्यं श्रेष्ठं वा सिद्धान्तं धर्मं वा मृगयितुं, यतोऽहं जानामि यत् - स नाऽस्त्येव - किन्तु, सर्वान् सिद्धान्तान् गुरूंश्च परिहर्तुं तथैकाक्येव मम ध्येयं प्राप्तुं मर्तुं वा । परन्तु, भगवन् ! अहं सदैव स्मरिष्यामि दिनमिदं क्षणं चेमं - यदा किल कश्चन पवित्रो महापुरुषो मम दृष्टिपथमागत इति" । बुद्धस्याऽक्षिण्यवनते जाते तस्याऽलब्धतलं वदनं पूर्णसमवृत्तिमभिव्यनक्ति स्म ।। सोऽतीव मृदुतयोक्तवान् – “भवत ऊहः क्षतिमुक्तः स्यादित्याशासेऽहम् । भवान् स्वीयं ध्येयं प्राप्नुयात् । किन्तु कथयतु माम् - किं भवता मम भिक्षूणां सङ्घो दृष्टो वा ? - दृष्टा वा एते मम भ्रातरो ये ममोपदेशं प्रति समर्पिताः ? किं भवान् चिन्तयति भोः श्रमण ! यन्मदुपदशितं मागं त्यक्त्वा सांसारिकं तृष्णामयं च जीवनं प्रति निवर्तनं श्रेयस्करमेतेषामुचितं प्रतिभायात् खलु ?" "अयं विचारो नैव कदाऽपि मम चित्ते आपतितः प्रभो !" - सिद्धार्थ उच्चैः कथितवान् । “एते सर्वेऽपि कामं भवदुपदेशमनुसरन्तु तेषां ध्येयं च सिद्धं भवतु । अन्येषां जीवनं ३७ Page #45 -------------------------------------------------------------------------- ________________ परिच्छेत्तुं नाऽर्हाम्यहम् । मया तु केवलं मम जीवनमेव परिच्छेत्तव्यम् । तथा तदर्थमेव मया किञ्चित् ग्रहीतव्यं त्यक्तव्यं वा । वयं श्रमणा हि स्वस्मिन्नेव मुक्तिं गवेषयामो भगवन् !"। "यद्यहं भवदनुयायी स्यां तदा मम भयमस्ति यत् - केवलमहं बाह्यत एव स्यां, तथा, आत्मवञ्चकोऽप्यहं स्यामेव यथा - अहं शान्तो जातोऽस्मि - मम निर्वाणं प्राप्तमस्ति - इत्यादि । किन्तु वस्तुतो ममाऽस्मिताऽहंता च सजीवा वृद्धिङ्गता चैव भवेत्, यतः सा खलु भवदुपदेशानुसरणेन भवद्विषये भवतो भिक्षुसङ्ग्रे च समर्पणेनऽनुरागेण च परावर्तनं प्राप्येत" । अविचलप्रकाशेन मैत्रीभावेन च बुद्धः स्मितलेशं कुर्वन् सिद्धार्थं किञ्चिद्वेलं निश्चलतया निरीक्षितवान्, ततो दुर्लक्ष्येण मुखभावेन स तं गन्तुं निर्दिशन्नुक्तवान् – __ "भवान् चतुरोऽस्ति भोः श्रमण !, चातुर्यपूर्णं वक्तुं जानात्यपि भवान् । किन्तु मित्र ! अतिचातुर्यं प्रति सावधानो भवतु" । बुद्धस्ततो निर्गतः, किन्तु तस्य दृष्टिः स्मितं च सिद्धार्थस्य स्मृतिपटे शश्वत्तया मुद्रिते जाते । सोऽचिन्तयत् – 'न कदाऽपि मया कश्चिज्जन एवं पश्यन्, इत्थं च स्मितं कुर्वन्, इत्थमुपविशन् इत्थं च चलन् दृष्टः । अहमपि ह्येवंरीत्यैव द्रष्टुं चलितुं स्मयितुमुपवेष्टुं चेच्छामि - सर्वथा मुक्तः, सर्वथा सज्जनः, सर्वथा संयतः, सर्वथा सरलः, सर्वथा बालसदृशो रहस्यमयश्च । जनस्तादृशं द्रष्टुं चलितुं च तदैव प्रभवेद् यदा तेन स्वात्मा विजितो भवति । अहमपि स्वात्मानं जेष्यामि' ।। 'मयैकोऽयमेव मनुष्योऽद्यावधि दृष्टो यत्पुरतो ममाऽक्षिणी नते भवतः । इतः परं मेऽक्षिणी अन्यस्य पुरतो नैव नमेताम् । न चाऽप्यन्यस्य कस्यचिदुपदेशो मामाकृषेत् कदाऽपि, यतो ह्यस्य ३८ Page #46 -------------------------------------------------------------------------- ________________ जनस्योपदेशेनाऽपि नाऽऽकृष्टोऽहम्' । 'बुद्धेनाऽनेन मुषितोऽस्म्यहम्' – पुनः सोऽचिन्तयत्, 'यद्यपि तेन मे किञ्चिदधिकमूल्यं वस्तु प्रदत्तं तथाऽपि तेन मुषितोऽस्मि । स मम मित्रं मत्तो मुषितवानस्ति । यो सुत् माममन्यत सर्वदैव, सोऽधुना तं मन्यते; यो हि मम प्रतिच्छायीभूत आसीत् सोऽधुना तस्य गौतमस्य प्रतिच्छायाऽस्ति । किन्तु तेन भगवता मह्यं प्रदत्तोऽस्ति सिद्धार्थः मम स्वात्मा !!' । ३९ —- Page #47 --------------------------------------------------------------------------  Page #48 -------------------------------------------------------------------------- ________________ ४. जागरणम् यस्मिन्नुपवने पूर्णपुरुषो बुद्धोऽवस्थित आसीद् यत्र च स्वमित्रं गोविन्दोऽवस्थितस्तदुपवनान्निर्गतः सिद्धार्थोऽनुभूतवान् यत् 'तस्य पूर्वतनं जीवनं स तत्रैव त्यक्त्वा निर्गतोऽस्ती'ति । शनैः शनैः स्वमार्गे गच्छतस्तस्य मस्तिष्कमेतेनैव विचारेण पूरितं जातम् । यावदेषाऽनुभूतिस्तं पूर्णतयाऽऽक्रान्तवती तावत् स गभीरतया चिन्तितवान् । चिन्तयन्नेव स तं बिन्दुं प्राप्तो यत्र स हेतूनवगतवान् । तस्य प्रतिभातं यद् हेतूनवगन्तुं विचारा आवश्यकाः, विचारद्वारैव चाऽनुभूतयो ज्ञानतया परिणमन्ति नष्टाश्च नैव भवन्ति, किन्तु सत्याः परिपक्वाश्च भवन्ति । स्वमार्गेऽग्रेसरतः सिद्धार्थस्य मनसि गभीरं चिन्तनं प्रवर्तते स्म । सोऽनुभूतवान् यदिदानीं स नाऽस्ति तरुणो युवा वा, अपि तु स पुरुषः सञ्जातोऽस्ति । सोऽनुभूतवान् इदमपि यत् - किञ्चिद् वस्तु तस्याऽस्तित्वान्निर्मुक्तमस्ति यथा हि सर्पशरीरात् कञ्चकः । तत् किञ्चित् तस्याऽस्तित्वे नाऽऽसीदिदानीं यद्ध्यातारुण्यात् तदनुषक्तमासीत् - ननु यदस्तित्वस्य भागरूपमेवाऽऽसीत् । तद्ध्यासीद् गुरुप्राप्तेस्ततश्च ज्ञानप्राप्तेः स्पृहा । स्वजीवनस्याऽन्तिमं गुरुं - महान्तं महाज्ञानिनं पवित्रतममपि च गुरुं - बुद्धं सोऽधुनैव त्यक्तवान् आसीत् । स तेन त्यक्तव्य एवाऽभवत्, तदुपदेशं स्वीकर्तुं स सोत्कण्ठो नाऽऽसीत् । ___ शनैः शनैः स्वमार्गे गच्छन् स स्वमेव पृष्टवान् – 'तत् किमस्ति यत् त्वमुपदेशाद् गुरुभ्यश्च बोद्भुमिष्टवान् ? तथा, यद्यपि ते त्वां बह्वन्यच्छिक्षितवन्तस्तथाऽपि तत् किमासीत् यत् ते त्वां बोधयितुमक्षमा जाताः ?' चिन्तयता तेन ज्ञातम् - 'आम् - तद्ध्यासीत् मम आत्मा । अहं हि तस्यैव स्वभावं प्रकृतिं च ज्ञातुमुत्सुक आसीत् । अहं हि स्वात्मानं मोचयितुं - Page #49 -------------------------------------------------------------------------- ________________ तं जेतुमिष्टवान्, किन्तु नाऽहं तं जेतुं क्षमो जातः, अहं केवलं तस्य वञ्चको जातः, केवलं पलायितः केवलं च ततोऽन्तर्हितो जातः । सत्यं, नाऽस्त्यस्मिन् जगति ततोऽन्यद् येन मम चित्ततन्त्रमाक्रान्तं स्यात् । आमियमेव प्रहेलिका, यदहं जीवामि, अहं एकलः, सर्वेभ्यश्चाऽन्येभ्योऽहं भिन्नो विच्छिन्नश्च, अहं सिद्धार्थः । तथाऽस्मिन् जगति अहं स्वं - सिद्धार्थं मुक्त्वा नाऽन्यवस्तुविषये इयदल्पतरं जानामि' । चिन्तयन् गच्छंश्च स सहसैवाऽनेन विचारेण गृहीत इव तत्रैव स्तम्भितो जातः, एतस्माच्च विचारादन्योऽपि विचारस्तत्क्षणमेव समुद्भूतः, यथा – 'कथमहं स्वविषये इयदल्पं जानामि - कथं च सिद्धार्थो ममेयानपरिचितोऽज्ञातश्च - इत्यस्य कारणमेकमेव, केवलमेकं - तदस्ति - अहं स्वस्मादेव भीत आसम्, स्वस्मादेव पलायनं कुर्वन्नासम् । अहं ब्रह्माऽन्विषन्नासम्, आत्मानं गवेषयन्नासम् - अज्ञातमन्तस्तमं, सर्वेषां वस्तूनां मूलतत्त्वमात्मतत्त्वं, जीवनतत्त्वं, दिव्यतत्त्वं, नित्यतत्त्वं प्राप्तम् । किन्तु, हन्त एतत् कुर्वन्नहं स्वमेव भ्रंशितवान् - अहं स्वमेव नाशयितुमिष्टवान् ।' सिद्धार्थो दृष्टिमुन्नीय परितो विलोकितवान् । तन्मुखे स्मितं विलसितमीषत्, तत्क्षणमेव तस्य समग्रेऽप्यस्तित्वे दीर्घस्वप्नाज्जागरणस्य दृढाऽनुभूतिः प्रसृता । तत्कालमेव स ततोऽग्रेऽसरत्, त्वरितं, यथा कश्चित् स्वकर्तव्यं जानानः शीघ्रतया गच्छेत् तथा । चिन्तनं तु प्रवर्तमानमेवाऽऽसीत् – 'आम्', दीर्घ श्वसन् स चिन्तितवान् – 'इतः परं, सिद्धार्थात् पलायितुं नाऽहं प्रयतिष्ये । आत्मविषयान् संसारदुःखविषयांश्च विचारान् नैव करिष्ये । खण्डगृहाणां रहस्यानि ज्ञातुं नाऽहं स्वं छिन्नभिन्नं नष्टं वा कर्तुं ४२ Page #50 -------------------------------------------------------------------------- ________________ यतिष्ये । योगाध्ययनं वेदाध्ययनं श्रामण्याभ्यासमन्यं वा कञ्चिदभ्यासं नैव करिष्ये । अहं हि स्वस्मादेव शिक्षणं ग्रहीष्ये, स्वस्यैव शिष्यो भविष्यामि, सिद्धार्थस्य च रहस्यं ह्यहं स्वस्मादेवाऽवगमिष्यामि' । समग्रमपि विश्वं ह्येदम्प्राथम्येन पश्यन्निव स परितो व्यलोकयत् । तत् सुन्दरमपूर्वं रहस्यमयं चाऽभासत । विश्वं ह्यत्र नीलमासीत् पीतमासीत् हरितं चाऽपि विलसदासीत्, आकाशं नदी वृक्षाः पर्वताः - सर्वमपि सुन्दरतमं रहस्यमयं मनोमोहकं, तन्मध्ये च सः - सिद्धार्थः - जागृतः - स्वात्मनो मार्गे गन्तुं सज्जः स्थित आसीत् । सर्वमप्येतत् - सर्वं पीतं सर्वं नीलं, नदी वृक्षाः आकाशं - सर्वमपि - ऐदम्प्राथम्येन तस्य नयनयोः पुरतः समागतम् । नाऽऽसीदिदं मारस्येन्द्रजालं, न चाऽपीदं मायाया आवरणमासीत्, नाऽऽसन्नतेऽर्थहीना दैवकृताश्च जगतो नैकविधा आभासा ये हि वैविध्यविरोधिभिरद्वैतशोधकैश्च गभीरचिन्तनशीलैर्ब्राह्मणैस्तिरस्कृता आसन् । नदी नद्येवाऽऽसीत् । तथा यदि सिद्धार्थात्मनि निगूढतया विद्यमानमैक्यं दिव्यत्वं च यदि नीले नभसि नद्यां च विद्यमानमासीत् तर्हि तत् केवलं दिव्या कला दिव्यश्च सङ्कल्प एवाऽऽसीद् यत् पीतेन नीलेन च भवितव्यमेव, तत्राऽऽकाशेन वृक्षैश्चाऽत्र च सिद्धार्थेन । अर्थो वास्तविकता च न कुत्रचिद् वस्तूनां पृष्ठतो निलीने किन्तु ते वस्तुष्वेव सङ्कलिते स्तः सर्वेष्वेव वस्तुषु । ___'अहं कीदृशो मूल् जडश्चाऽऽसम्' । शीघ्रं चलन् स व्यचारयत् । 'यदा कश्चिज्जनः किञ्चित् पिपठिषुस्तदधीते, तदा स तदक्षराणि विरामचिह्नानि वा नैवाऽवगणयति नाऽपि तानि भ्रमजालमाकस्मिकं व्यर्थं चेत्येवमुपेक्षते; किन्तु स तानि अक्षराणि पठति, सम्यगभ्यस्यति, प्रेम्णा चाऽऽत्मसात् करोति । किन्तु ४३ Page #51 -------------------------------------------------------------------------- ________________ जगतः पुस्तकं पिपठिषुरपि, स्वीयप्रकृतेरभ्यासं चिकीर्षुरप्यहं तदक्षराणि विरामचिह्नानि चोपेक्षितवान् अविचारितया । साकारं जगदहं भ्रमणारूपेण निन्दितवान् । नेत्र-जिह्वादीन्यक्षाण्यहमाकस्मिकानि मन्वानोऽवधीरितवान् । परन्त्विदानीं तत्सर्वमवसितमस्ति । अहमुज्जागरितोऽस्म्यद्य, नूनमहमुज्जागरितोऽस्मि, अद्यैव च मया पुनर्जन्म प्राप्तमिव' ।। यदा चैते विचारास्तस्य चित्ते स्फुरिताः, स सहसा तत्रैव, सर्प दृष्ट्वेव, स्थिरो जातः । अथ च तदैव सहसा तन्मनस्येतदपि स्पष्टं जातं यत् - येनोज्जागरणं नवजन्म वा प्राप्तमासीत्, तेन स्वजीवनमपि पूर्णतया पुनर्नवत्वेनैवाऽऽरब्धव्यमस्तीति । ___ यद्यपि, यदा स पूर्णपुरुषस्य भगवतो बुद्धस्य निवासस्थानाद्-जेतवनान्निर्गत आसीत् तदा तस्य ध्येयं गृहगमनमासीत्, तथा वर्षाणां संन्यासानन्तरं पितृपाइँ गमनस्येच्छा तस्य सहजतयैवोचिता प्रतिभाताऽऽसीत् । तथाऽपि, यदा स तस्मिन् क्षणे सर्प दृष्टवानिव स्थिरोऽभवत् तदाऽन्योऽपि विचारस्तस्य चेतसि प्रादुर्भूतः – 'नाऽहं सोऽधुना योऽहमासम्, नाऽहमिदानीं संन्यासी, न च पुरोधाः नाऽपि च ब्राह्मणः । एवं सति पितृपार्वे गत्वा किं वाऽहं करिष्ये ? किं वेदाध्ययनं ? किं वा यज्ञविधानम् ? अथवा किं ध्यानाभ्यासं ? नैव नैव ! एतत् सर्वमपि मत्कृतेऽवसितमेवाऽधुना किल !'। एवं चिन्तनपरः सिद्धार्थः स्थिरतया स्थितस्तावता हिमशीतलतेव तं सर्वत आक्रान्तवती । कस्यचिल्लघुप्राणिन इव, असहायपक्षिण इव, भयभीतशशकस्येव स कम्पितुमारब्धो यदा तेनाऽवबुद्धं स्वीयमेकलत्वम् । बहुवर्षेभ्यः पूर्वमेव स गृहादिकं त्यक्तवानासीत् तथाऽपि तच्चित्ते ईदृशं भयं नैवाऽनुभूतमासीत् तेन । ४४ Page #52 -------------------------------------------------------------------------- ________________ पूर्वं हि, त्यक्तसर्वसङ्गोऽपि स्वहृदयस्याऽज्ञातगभीरतायां सोऽद्याऽपि स्वपितुः पुत्र आसीत्, प्रतिष्ठितो ब्राह्मण आसीत्, धार्मिको जन आसीत् । किन्त्वधुना, स केवलं सिद्धार्थ आसीत् प्रबुद्धः सिद्धार्थः, अन्यथा नाऽन्यत् किमपि । दीर्घं श्वसित्वा विचारयन् स पुनरपि प्रकम्पितोऽभवत् - तत्सदृश एकलो जनो नाऽऽसीत् कोऽपि । स नाऽऽसीत् इदानीमुच्चकुलसम्बन्धी कश्चन कुलीनो जनः, नाऽऽसीच्च स तत्तद्भाषया व्यवहरन् तदनुरूपं च जीवन् कश्चन शिल्पी व्यावसायिको वा तत्तत्समाजसभ्यः, नाऽपि स ब्राह्मणजीवनं यापयन् ब्राह्मण आसीत्, न चाऽपि स परिव्राजकानामन्यतमस्तपस्वी संन्यासी वाऽऽसीत् । सर्वथा विविक्तसेवी घनारण्यवासी च तापसोऽपि नाऽऽसीदेकल एकाकी वा यतस्तस्याऽपि समाज आसीत् । यो भिक्षुकोऽभवत् स गोविन्दोऽपि स्वजातीयैः सहस्रशो भिक्षुकैः सह तेषामेव भाषया व्यवहरन् तत्तुल्यवस्त्रं धारयन् तत्सदृशीं च श्रद्धां वहन् जीवति स्म । किन्तु सिद्धार्थ : ? स कस्य समाजस्य प्रतिनिधिरासीत् ? केषां सदृशं जीवनं स जीवेत् ? केषां च भाषां स भाषेत ? तस्मिन् क्षणे, यदा तस्य सम्पूर्णमपि जगद् विलीनमिव प्रत्यभात्, यदा स गगनस्थितः कश्चनैकल उडुरिव तिष्ठति स्म, यदा च नैराश्यस्य हिमशैत्येन स कम्पमान आसीत् तदाऽपि स दृढतयाऽपूर्वतया स्वस्थ आसीत् । अयमासीत् जागरणात् पूर्वं तस्याऽन्तिमः कम्पः, जन्मत: पूर्वाऽन्तिमा वेदना च । क्षणार्धेनैव स्वस्थीभूय सदार्द्धं शीघ्रं सोत्कण्ठं च प्रस्थितः सः, न गृहं प्रति, नाऽपि पितरं प्रति, नाऽपि च पृष्ठं विलोकयन्, किन्तु नूनामेव काञ्चिद् दिशं प्रति । ४५ Page #53 -------------------------------------------------------------------------- ________________ सिद्धार्थः द्वितीयो विभागः Page #54 --------------------------------------------------------------------------  Page #55 -------------------------------------------------------------------------- ________________ १. कमला स्वीयवर्त्मनः प्रत्येकं पदे सिद्धार्थः किञ्चिन्नूतनं शिक्षितवान्, यतस्तस्य कृते सकलमपि जगत् परिवर्तितमासीत् खलु ! तेन च परिवर्तनेन सोऽत्यन्तमाह्लादितोऽभवत् । सोऽरण्ये पर्वतेषु च सूर्यमुदयन्तं निरीक्षितवान् तथा तालवृक्षाच्छादिते दवीयःसमुद्रतटेऽस्तमनमपि विलोकितवान् । निशि स सुविशालं तारकितं नभो दृष्टवान्, नीले प्रवाहे च प्रवहन्तं नावाकृति चन्द्रमसमपि स निर्वणितवान् । स वृक्षान्, नक्षत्राणि, प्राणिनः, जलधरान्, इन्द्रचापान्, शिलोच्चयान्, आरण्यकस्तम्बान्, पुष्पाणि, निर्झरान् सरितश्च, प्रभाते च वनस्पत्यग्रे स्फुरत्प्रभान् अवश्यायकणान्, सुदूररमणीयां पर्वतमालां, कूजतः पक्षिणः, गुञ्जन्तीमधुमक्षिकाः, मृदुपवनैर्दोलायमानानि च व्रीहिक्षेत्राणि विस्मयमुग्धतया निरीक्षितवान् । वर्णसहस्रैर्वणितं रूपसहस्रैश्च शोभमानमेतत् सर्वमपि सर्वकालं प्रकृतौ विलसदासीत् । सूर्यश्चन्द्रश्च सर्वदा प्रकाशमानावास्तां, नद्यो हि सर्वदा प्रवहन्त्य आसन्, मक्षिकाश्च सर्वदा गुञ्जन्त्य आसन्; किन्तु पूर्वं ह्येतत सर्वमपि सिद्धार्थस्य निरर्थकं प्रतिभाति स्म, सर्वमपि क्षणिकं मायाजालमयमावरणरूपं चैवाऽनुभूयते स्म, सर्वमप्यप्रत्येयतयैव विलोक्यते स्म, निन्द्यतयोपेक्ष्यते स्म, विचारप्रदेशाच्च निर्वास्यते स्म । यतः सर्वमप्येतत् वास्तविकं न, यतो वास्तविकता हि दृश्यजगतोऽपरस्मिन् पार्वे निहिताऽऽसीत् । ४८ Page #56 -------------------------------------------------------------------------- ________________ किन्त्विदानीं तस्य दृष्टिरस्मिन् पार्वेऽपि विचरिता । दृश्यं सर्वमपि स दृष्टवान् प्रतिपन्नवांश्च, तथाऽत्र जगति स स्वीयं स्थानमपि निरूपितवान् । इदानीं वास्तविकताया निरूपणे तस्याऽऽसक्तिर्नाऽऽसीत् नाऽपि चाऽन्यः पार्श्वस्तस्य ध्येयम् । __ अन्यत् किञ्चिदपि यदि न काम्येत तदा जगदिदमत्यन्तं सुन्दरमत्यन्तं सरलं शिशुतुल्यं निष्पापं चाऽऽसीत् । चन्द्रस्तारकाणि च सुन्दराण्यासन्, निर्झराः, समुद्रतटः, अरण्यं, पर्वताः, पशवः सुवर्णवर्णा भ्रमराः, पुष्पाणि पतङ्गाश्चेति सर्वमपि सुन्दरमासीत् । ईदृशे सहजे, सरले, प्रबुद्धे, सन्निहितेनैव च सम्बद्धे आशङ्कारहिते च जगति विचरणमप्यतिसुन्दरमतीव मनोरमं चाऽऽसीत् । अन्यत्र हि सूर्यः प्रखरतया तपन्नासीत्, अन्यत्र च घनारण्यच्छायासु शीतलता प्रवर्तते स्म, अन्यत्र च कूष्माण्डानि कदलीफलानि च विलसन्ति स्म । दिनं रात्रिश्च लघूभूते भासेते स्म, समुद्रे विचरन्त्या नौकाया वातपटमिव प्रत्येकं मुहूर्तं जवेन संचरति स्म - निधानैः पूर्णमानन्देन च पूर्णम् । गच्छता सिद्धार्थेन घनेऽरण्ये वानरयूथमेकं दृष्टं, यद्धि वृक्षाणामुच्चशाखासु प्लवमानं सोन्मादं सोत्साहं च चीत्कुर्वन्नासीत् । अग्रे च तेन मेषाः स्वयूथ्यैः सह विहरन्तो दृष्टाः । एकत्र तडागे तेन क्षुधो निवारणार्थं वेगेन तरन्तो मत्स्या दृष्टाः, तन्मार्गादन्यत्र सरन्तः संक्षुब्धाः स्फुरन्तश्च लघुमीनाश्चाऽपि दृष्टाः । तेषां च पृष्ठतो धावमानस्य रोषाकुलस्य महामत्स्यस्य सामर्थ्य जिघृक्षामपि च स तदुत्सारितजलावर्ते प्रतिबिम्बिते विलोकितवान् । एतत् सर्वमपि हि सर्वदा प्रवर्तमानमासीत् किन्तु तेन कदाऽपि नैव दृष्टं तत्, वस्तुतः स तं द्रष्टुमुपस्थितो नाऽऽसीत् । इदानीं स न केवलमुपस्थितोऽभवत् प्रत्युत तदंशभूत एव जातः । Page #57 -------------------------------------------------------------------------- ________________ प्रसन्नमनसा स प्रकाशं छायां च विलोकितवान् चन्द्रं तारकाश्च साक्षात्कृतवान् । मार्ग क्रामतस्तस्य, जेतवनस्य सर्वोऽप्यनुभवः स्मृतिपथमायातः - भगवतो बुद्धादुपदेशश्रवणं, गोविन्दाद् वियोजनं, परमज्ञानिना च बुद्धेन सह संभाषणम् । भगवते तेन यदपि कथितमासीत् तस्य प्रत्येकमपि शब्दस्तस्य स्मृतौ यथावदासीत् । तथा यद् वस्तु स स्वयं न ज्ञातवान् तत् तेन भगवते कथमिव कथितमित्यस्याऽऽश्चर्यमद्याऽपि तच्चित्ते जागति स्म । स भगवते किं कथितवान् आसीत् ? – यथा - बुद्धस्य परमज्ञानं परमरहस्यं चोपदेशानहमासीत्, वस्तुतस्तदनिर्वचनीयमव्यवहरणीयं चाऽऽसीत्, तथा भगवता बुद्धेन स्वीयसम्बोधिकाले यदनुभूतमासीत् तदेवाऽनुभवितुं तेन प्रवृत्तमासीदिदानीम्, इतः परं स तदेवाऽनुभवितुं प्रारप्स्यते । सर्वैरपि हि स्वयमेवाऽनुभवः प्राप्तव्यः खलु ! स चिरकालाज्जानाति स्म यत् स स्वयमेवाऽऽत्माऽस्ति - ब्रह्मवच्छाश्वतस्वभावः, किन्तु स तं कदाऽपि नैव साक्षात्कृतवान् - यतः स तं विचारजालेन ग्रहीतुमैच्छत् । सोऽजानाद् यद् - इदं शरीरं हि निश्चिततयाऽऽत्मा नाऽऽसीत्, नाऽपि चेन्द्रियाणां विलासः, न विचाराः, न हि बोधः, नैव पाण्डित्यं, नाऽपि च तादृशी कला यया निर्णेतुं शक्येत, विद्यमानैश्च विचारैतनी विचारधारा वा सृज्येत । नहि नहि, विचाराणां जगत् खल्वस्मिन् पार्श्व एवाऽऽसीत, तच्च, यदा कश्चित् काल्पनिकचेतनां स्वचित्ताद् विनाशयेत् तदाऽपि, किञ्चिद निश्चितं लक्ष्यं नैव प्रापयति स्म प्रत्युत तां चेतनां विचारैः पाण्डित्येन च पूरयति स्म । विचारा इन्द्रियाणि च नूनं शोभनान्यासन्, तेषां च पृष्ठतो बहूनि रहस्यानि निलीनान्यासन्; यद्यपि उभयोरपि श्रवणं ५० Page #58 -------------------------------------------------------------------------- ________________ तथोभाभ्यामपि क्रीडनमप्यावश्यकमासीत्, परमन्यतरस्याऽपि तिरस्करणमधिकमूल्याङ्कनं वाऽनुचितमासीत् । उभयोरपि ध्वनेर्निष्ठया श्रवणमेवोचितमासीत् । अतस्तेन निश्चितं यद् – यदान्तर: शब्द आदिशेत् तदेव कर्तव्यं, तथा, यत्र कुत्राऽपि नैव स्थातव्यं किन्तु तत्रैव स्थातव्यं यत्र स शब्दः सूचयेत् । यतो, यदा हि गौतमेन सम्बोधि: प्राप्ता तदा स किमर्थं बोधिवृक्षस्याऽधस्तादुपविष्टः ? नूनं स स्वस्याऽन्तःसम्भूतं ध्वनिं श्रुतवान् आसीद् - येन शब्देन तस्य तत्रैवोपवेष्टुं ध्यातुं चाऽऽदिष्टम् । तेन च शरीरस्येन्द्रियाणां च दमनमकृत्वा, यज्ञादिकमविधाय, स्नानानि प्रार्थनाश्च न कृत्वा, खाद्य-पेयादिकं निद्रा - स्वप्नादिकं वा विधानमनाश्रित्य केवलं तदादेशस्यैव पालनं कृतं सम्बोधिश्च प्राप्ता । बाह्यं कमप्यादेशमवधीर्य केवलमान्तरशब्दस्यैव श्रवणमनुसरणं च, तथा तदर्थमेव सज्जत्वं च श्रेयःकारि नितरामावश्यकं चाऽप्यासीत् । अन्यत् किमप्यावश्यकं नाऽऽसीत् । तस्यां रात्रौ स कस्यचिन्नाविकस्य तृणकुट्यां शयितः । निद्रायां तेनैकः स्वप्नो दृष्टः । स्वप्ने हि, भिक्षुकाणां काषायवस्त्रं धृत्वा गोविन्दस्तत्समक्षं स्थित आसीत् । स उदासो दृश्यते स्म सिद्धार्थं च पृच्छति स्म - 'भवान् किमर्थं मां त्यक्त्वा गतवान् ?' एतच्छ्रुत्वा स गोविन्दं परिष्वज्य सान्त्वयित्वा च तन्मस्तकं चुम्बितवान् । एतावता गोविन्दः स्त्रीत्वेन परिणतः । तस्याश्च स्त्रिया वस्त्राञ्चलात् पूर्णावुरोजौ प्रकटीभूतौ । सिद्धार्थश्च मुखं नामयित्वा ततः पयःपानं कृतवान् । तद्धि पानं मधुरमूर्जस्वि चाऽऽसीत् । तस्मिंश्च पाने स्त्रिया: पुरुषस्य च, सूर्यस्य वनस्य च, प्राणिनां, पुष्पाणां, प्रत्येकं फलानां, प्रत्येकं सुखानां च स्वाद आसीत्। पानं च तत् सर्वथोन्मादकमासीत् । ५१ Page #59 -------------------------------------------------------------------------- ________________ यदा स जागृतस्तदा पाण्डुरा नदी कुट्या द्वारस्याऽग्रे विलसमाना प्रवहन्त्यासीत्, अरण्याच्चोलूकस्य गभीरः स्पष्टश्च शब्दोऽश्रूयत । सूर्योदयानान्तरं सिद्धार्थः स्वस्याऽऽतिथ्यकारिणं नाविकं नद्याः पारं प्रापयितुं प्रार्थितवान् । नाविको हि सिद्धार्थं स्वीयवंशमयतरण्डेन नदीपारं नीतवान् । नद्या विशालो जलविस्तारो बालसूर्यकिरणै रक्तिमानं वहन्निव द्योतते स्म । अथ च तत्सौन्दर्यं दृशा पिबन् सिद्धार्थो नाविकमुक्तवान् - 'एषा नदी ह्यतीव सुन्दरा खलु !' 'आम्' नाविकः कथितवान्, 'एषा नदी सुन्दरतमा । अहं तां सर्वतोऽप्यधिकं प्रीणामि । अहमनेकशस्तां श्रुतवान् निरीक्षितवांश्च, तथाऽहं सर्वदाऽपि तत्सकाशात् किञ्चिदिव शिक्षितवानप्यस्मि । नदीसकाशाज्जनो बहु शिक्षितुमर्हति' । 'उपकृतोऽस्मि सौम्य !', नद्या अपरस्मिन् तटेऽवतरन् सिद्धार्थोऽवदत्, 'किञ्च, भवता क्षन्तव्योऽहं यतो मत्पार्वे भवते तरपण्यं दातुं न किञ्चिदप्यस्ति । अहं हि निराश्रय एको ब्राह्मणपुत्रोऽस्मि, श्रमणश्च जातोऽस्मि' । 'तत् त्वहं पश्याम्येव । अहं भवत्तो न किञ्चिदप्यपेक्षे । भवान् ह्यन्यदा कदाचित् मे दातुमर्हति' । इति नाविको मृदुतयोक्तवान् । ___ 'किं भवतो विश्वासोऽस्ति यदहमन्यदा दास्यामीति?' सिद्धार्थो हसन् पृष्टवान् । ___ 'अवश्यम् । नदी मामेतच्छिक्षितवत्यस्ति यत् प्रत्येकं वस्तु प्रतिनिवर्तत एव । भवानपि भोः श्रमण ! अवश्यं प्रतिनिवर्तिष्यते । भद्रं भवते भूयात्, भवतो मैत्र्येव मे तरपण्यं भवतु । भगवत्पूजाकाले च मां स्मरतु भवान्' – नाविकस्त Page #60 -------------------------------------------------------------------------- ________________ मुक्तवान् । ततः स्मित्वा द्वावपि स्वस्वमार्गं प्रस्थितौ । नाविकस्य स्निग्धव्यवहारेण सिद्धार्थः प्रसन्नो जात: । 'एष गोविन्दसदृश एवाऽस्ति' इति चिन्तितवान् सिद्धार्थः । 'येऽपि मां मार्गे मिलन्ति ते सर्वेऽपि गोविन्दतुल्या एव, सर्वेऽपि कृतज्ञाः सन्ति, सर्वेऽपि च ते स्वयमेव धन्यवादानर्हन्ति । सर्वेऽपि मे सहयोगिनो भवितुमिच्छन्ति, मम मैत्रीं वाञ्छन्ति, अधिकमविचारयन्तश्च मम वचनमनुवर्तितुमिच्छन्ति । ननु जना हि शिशतुल्या भवन्ति' । मध्याह्ने स कञ्चिद् ग्राममतिक्रामन्नासीत् । मृण्मयकुटीराणां पुरतो रथ्यासु बालकाः क्रीडन्त आसन् । ते हि प्रस्तरखण्डैः गुलिकाभिश्च खेलन्त आसन् । सकोलाहलं ते परस्परं युध्यन्ते स्माऽपि । किन्तु यदा हि श्रमणस्तेषां दृष्टिपथं प्राप्तस्तत्क्षणमेव सर्वेऽपि भयं प्राप्य धाविता: कुत्रचिच्च निलीनाः । ग्रामप्रान्ते चाऽनुमार्गमेव जलस्रोत आसीत् । तत्कूले च काचित् तरुणी किञ्चिदवनम्य वस्त्राणि क्षालयन्त्यासीत् । सिद्धार्थेन तदभिवादने कृते सा शिर उन्नम्य सस्मितं तं दृष्टवती । तस्या अक्षिणी भ्राजमाने आस्ताम् । यथोपचारं साशीर्वचनं स तां नगरमार्गविषयिकीं पृच्छां कृतवान् । तेन सा तत उत्थाय तत्समीपमागता । सुन्दरे वदने तस्या: क्लिन्नावधरौ स्फुरन्तावास्ताम् । तेन सह वक्तुमुत्सुका सा तं ‘किञ्चिदशितं वे’ति पृष्टवती, तथा 'किं तत् सत्यं यत् श्रमणा वनेषु एकाकिन एव स्वपन्ति ? किं तेषां स्त्रियं परिग्रहीतुमधिकारो नास्ति वा ? इत्यपि सा पृष्टवती । ततस्तया स्वीयो वामपादः समुत्थाप्य दक्षिणे पादे स्थापयित्वा तादृशोऽङ्गविक्षेपः कृतो यं काचित् कामातुरा स्त्री भोगार्थं पुरुषमामन्त्रयमाणा करोति, यश्च कामशास्त्रेषु 'वृक्षावरोहण'मिति ५३ — Page #61 -------------------------------------------------------------------------- ________________ सज्ज्ञया वर्णितोऽस्ति । एतेन सिद्धार्थः स्वीयाङ्गेषूत्तेजनमनुभूतवान्, रात्रौ दृष्ट स्वप्नं च स्मृत्वा किञ्चिदवनम्य स तस्याः कपिशवर्णं चूचुकं चुम्बितवान् । तत ऊर्ध्वं पश्यन् स तस्याः स्मितमयं वासनापूर्णं च वदनं विलोकितवान् । तस्या अर्धनिमीलतनेत्रयोः अत्युत्कटभोगप्रार्थना विलसति स्म । सिद्धार्थोऽपि स्वमनसि तामेवोत्कट भोगेच्छामनुभूतवान् । किन्त्वद्यावधि तेन स्त्री स्पृष्टा नाऽऽसीदित्यत आलिङ्गनं कर्तुमुत्सुकोऽपि स किञ्चिदिव साशङ्को जातः । तस्मिन्नेव क्षणे स स्वीयमान्तरं वचनं श्रुतवान् - 'नही'ति । ततश्च तस्यास्तरुण्या मुखात् सर्वमपि आकर्षणमदृष्टं जातमिव । अधुना तत्र केवलं कामार्त्तस्त्रियाः सतृष्णो दृष्टिपात एवाऽवलोक्यते स्म । स मृदुता तस्याः कपोलं परामृशन् सत्वरमेव निराशायास्तस्याः पुरस्तादेव वंशवनेऽदृश्यो जातः । सायङ्कालात् पूर्वमेव सिद्धार्थः किञ्चिन्महन्नगरं प्राप्तः । स हृष्ट आसीत्, यतस्तस्य जनैः सह संवसितुमभिलाष आसीत् । स बहुकालं यावद् वनेषूषित आसीत्, गतरात्रौ च स नाविकस्य वंशमयोटजे दीर्घकालानन्तरं प्रथमवारमेव छदिषोऽधस्तात् शयितवानासीत् । नगराद् बहिः, एकत्र सुन्दरे उपवने करण्डं गृहीत्वा गच्छन्तं परिचारकाणां समूहं स दृष्टवान् । तेषां च मध्ये चतुर्भिर्जनैरुह्यमानायामलङ्कृतायां शिबिकायां रक्तवर्णे उपधाने उपविष्टा तेषां स्वामिनी आसीत् । सिद्धार्थ उपवनद्वार एव स्थिरीभूय तत् सर्वमपि निरीक्षितवान् । स तां शिबिकास्थितां स्त्रियमप्यवलोकितवान्। घनश्यामकेशकलापमध्ये शोभमानं तस्यास्तेजस्वि सुमधुरमतीव चतुरं च वदनं स दृष्टवान् । तस्या शोणावोष्ठौ प्रत्यग्राञ्जीरखण्डाविव भासुरावास्तां, दीर्घे वक्रे च भ्रुवौ ५४ Page #62 -------------------------------------------------------------------------- ________________ कलात्मकतया वर्णिते आस्तां, कज्जलाक्ते दीर्घ नेत्रे अतीव विचक्षणे सावधाने चाऽऽस्तां, हरित-सुवर्णमयस्य चोत्तरीयस्योपरि भ्राजमाना विशदा कृशाऽऽयता च ग्रीवाऽऽसीत् । तस्याः दी? तनू च हस्तौ मृदू सुग्रथितौ मनोरमसुवर्णकङ्कणैश्च शोभमानावास्ताम्। सिद्धार्थस्तस्याः सौन्दर्यं दृष्ट्वाऽभिभूतो जातस्तस्याऽन्तःकरणं च प्रमुदितम् । यदा च शिबिका तत्पुरत आगता तदा स किञ्चिदवनम्योत्थितवान् तस्याश्च तेजस्वि सुरूपं च वदनं, चतुरे दीर्घ च नेत्रे स्थिरदृष्ट्या निरीक्षितवान् । तस्य श्वासेषु च कश्चिदज्ञातः सुगन्धः प्रसृत इव । साऽपि च सुन्दरी शिरश्चालयित्वा स्मित्वा च तदभिवादनं स्वीकृतवती क्षणार्धेन च परिचारकसमूहेनाऽनुस्रियमाणा सोपवनेऽदृश्या जाता ।। __सिद्धार्थश्चिन्तितवान् यद् 'नूनं शुभशकुनैर्मया नगरे प्रविष्टं खलु !' । स तूर्णमेवोपवने प्रवेष्टुमुत्सुक आसीत् किन्तु विचारणेन स ज्ञातवान् यत् कथं सर्वेऽपि परिचारका दास्यश्च तं सर्वथाऽवज्ञयाऽविश्वासेन निराकृतिपूर्वं च दृष्टवन्त इति । __'अहमितोऽपि श्रमण एव', स चिन्तयति स्म, 'अधुनाऽपि साधुरहं भिक्षाचरः । किन्तु तादृशेन मया नाऽवस्थातव्यमन्यथा कथमत्रोपवने प्रवेष्टुमर्हेयम् ?' ततश्चोच्चैर्हसितवान् सः । स उपवनस्य पुरत एव गच्छन्तं कञ्चन जनं पृष्ट्वा तस्याः सुन्दर्या नामादि ज्ञातवान् । उपवनमिदं हि कमलाभिधाया सुविख्यातवाराङ्गनाया आसीत् । तथा नगरमध्येऽपि तस्या एको महालयो निवासस्थानमासीत् । ततः स नगरं प्रविष्टः । तन्मनस्येकमेव ध्येयमासीत् । तमेव ध्येयमनुसरन् स समग्रमपि नगरं निरीक्षितवान्, तद्रथ्यासु पर्यटितवान्, कुत्रचित् स्थानेषु स्थिरतया स्थितवान्, प्रान्ते च Page #63 -------------------------------------------------------------------------- ________________ नद्यास्तटे विश्रामं कृतवान् । सायङ्काले स केनचिन्नापितसहायकेन सह मैत्री कृतवान् यं स वृक्षच्छायायां कार्यं कुर्वन्तं दृष्टवानासीत् । ततो विष्णुमन्दिरे तं पुनरप्युपलभ्य स तं विष्णोर्लक्ष्म्याश्च सम्बन्धिनीः कथाः श्रावितवान् । निशि स नदीतटस्थितायां नावि शयितवान्, प्रत्यूषे च ग्राहकागमनपूर्वमेव स नापितसहायकेन क्षौरं कारितवान् केशांश्च तैलसिक्तान् कारयित्वा प्रसाधितवान् । ततः स नदीं गत्वा सम्यक् स्नातवान् । अपराह्ने, यदा सुन्दरी कमला शिबिकया निजमुपवनं प्राप्ता तदा सिद्धार्थो द्वार्येव स्थित आसीत् । स ईषन्नत्वाऽभिवादनं कृतवान् कमलायाश्च प्रत्यभिवादनं प्राप्तवान् । ततः सोऽन्त्यं परिचारकं सञ्जयाऽऽहूय ‘एको ब्राह्मणो युवा भवत्या सह सम्भाषितुमिच्छती'ति सन्देशं कमलायै कथयितुमुक्तवान् । स्तोकवेलयैव स परिचारकः प्रत्यावृत्तः, सिद्धार्थं च स्वेन सह नीतवान् । उपवनमध्ये एवैकत्र मण्डपे पल्यङ्कासीनायाः कमलायाः पार्श्वे तं मुक्त्वा स गतवान् । _ 'ह्य उपवनप्रवेशद्वारि भवतैव मेऽभिवादनं कृतं खलु ! ?' इति कमला तं पृष्टवती । _ 'आम् ! मयैव ह्यो भवतीं दृष्ट्वाऽभिवादनं कृतमासीत्' । 'किन्तु ह्यो भवतः केशा दीर्घा आसन् मुखे च दीर्घकूर्चमासीत्, तथा मस्तकमपि सरजस्कमासीत् खलु ?' 'सम्यङ् निरीक्षितं भवत्या। किन्तु ह्यो भवती ब्राह्मणपुत्रं सिद्धार्थं दृष्टवती यः श्रमणो भवितुं गृहत्यागं कृतवान् वर्षत्रयं च श्रमणीभूय स्थितवान् । अद्य तु, मया त्यक्तोऽस्ति स मार्गः । अस्मिन्नगरे आगतोऽहं सर्वप्रथमं भवतीमेव नयनविषयीकृतवान् । अद्याऽहं भवत्यै कथयितुमागतोऽस्मि यत् - भोः कमले ! ५६ Page #64 -------------------------------------------------------------------------- ________________ भवत्येव प्रथमा स्त्री यस्याः पुरतः सिद्धार्थो नेत्रे अनवनाम्य सम्भाषितवान् । इतः परं यस्याः कस्याश्चिदपि सुन्दर्याः पुरतोऽहं नेत्रे नैवाऽवनामयिष्यामि' ।। कमला स्मितवती मयूरपिच्छनिर्मितेन व्यजनेन च क्रीडन्ती पृष्टवती – “किं भवान् एतावदेव कथयितुं आगतोऽस्ति वा सिद्धार्थ ! ?' भवत्यै एतत् कथयितुं, सौन्दर्यविषये च भवतीमभिनन्दितुमागतोऽहमस्मि । तथा यदि भवती अप्रसन्ना न भवेत् तर्हि अहं भवतीं मम मित्रीभवतुं यस्यां च कलायां भवती विदग्धा तस्याः शिक्षणार्थं मे गुरूभवितुं निवेदयितुमिच्छामि, यतोऽहं तस्यां कलायां सर्वथाऽनभिज्ञः । श्रुत्वैतत् कमलोच्चैर्हसितवती कथितवती च - 'अरण्यवासी कश्चन श्रमणो मां समागत्य किञ्चित् शिक्षितमिच्छेदिति तु कदाऽपि नैव चिन्तितं मया । तथा, दीर्घकेशयुतो जीर्णवस्त्रधारी च श्रमणः कदाऽपि मत्समीपे नाऽऽगतः । यद्यपि बहवो युवकाः ब्राह्मणपुत्राश्चाऽपि मदन्तिकमागच्छन्ति, किन्तु ते सर्वेऽपि रुचिरवस्त्राणि परिधाय, सुन्दरोपानहौ च धारयित्वाऽऽगच्छन्ति । तेषां केशाः सुगन्धिताः भवन्ति कोषाश्च धनभृता भवन्ति । भोः श्रमण ! एवंरीत्या ते युवानो मदन्तिकमागच्छन्ति' । सिद्धार्थ उक्तवान् – 'मयाऽप्येतावता भवत्याः सकाशात् शिक्षितुमारब्धम् । ह्य एव अहं किञ्चित् शिक्षितवान् । मम कूर्च तावदपनीतमेव, केशाश्चाऽपि तैलाक्ताः प्रसाधिताश्च । अधुना बह्ववशिष्टं नास्ति सुन्दरि !, केवलं रुचिरवस्त्रोपानहो धनभृतश्च कोषः - इत्येतदेव ननु ! सिद्धार्थेन त्वितोऽप्यधिककठिनवस्तून्युपलब्धुं प्रयतितं प्राप्तानि चाऽपि तानि । अतः किमर्थमहं तत्र प्रयत्नं न कुर्यां - यदर्थं ह्यो मया निश्चितं - भवत्याः मैत्री ५७ Page #65 -------------------------------------------------------------------------- ________________ प्राप्तुं भवत्सकाशाच्च कामकलाया आनन्दं शिक्षितुम् ? अहं भवत्या योग्यो विद्यार्थी भविष्यामि कमले ! यतो यद् भवत्या शिक्षयितव्यमस्ति ततोऽपि मया कठिनतरं शिक्षितमस्ति । अतो वदतु सुन्दरि ! उत्तमवस्त्रादिहीनो धनरहितश्चाऽपि प्रसाधितकेशः सिद्धार्थो भवत्या दृष्टौ उचितोऽस्ति न वा ? ' कमला हसितवती । तया कथितं – 'नैव । सोऽधुनाऽपि अयोग्यः । तेन अवश्यं वस्त्राणि परिधातव्यानि - सुन्दरवस्त्राणि, तथोपानहावपि – सुन्दरोपानहौ । तथैव तस्य कोषोऽपि धनपूर्णः स्यात्, तत्पार्श्वे च कमलायाः कृते बहून्युपायनान्यपि स्युः । किं ज्ञातं भवता ? भो अरण्यवासिन् श्रमण ! किमवबुद्धं भवता ? ' 'सम्यगवबुद्धं मया भोः ' सिद्धार्थ उच्चैरवदत् । ‘एतादृशान्मुखाद् यन्निर्गच्छेत् तत् कथमहं नाऽवबुध्येय ? भवत्या मुखं प्रत्यग्राञ्जीरखण्डमिवाऽस्ति कमले !, ममाऽपि चौष्ठौ शोणवर्णौ नवीनौ च। तौ भवत्या ओष्ठयोः सम्यक् अनुरूपौ - इति द्रक्ष्यति भवती । किन्तु कमले ! कथय मां किं भवती कामकलां शिक्षितुमागतादरण्यवासिनः श्रमणाद् भीता तु नास्ति वा ?' - ‘किमर्थं मयाऽरण्यवासिनो मूर्खश्रमणाद् भेतव्यं यः शृगालैः सह वसति, स्त्रीविषयकं च न किमपि जानाति ?' 'अरे ! स श्रमणो बलवान् निर्भयश्चाऽस्ति । स कदाचिद् भवत्या सह बलादपि व्यवहरेत् भोः सुन्दरि !, स भवतीं लुण्टेत् पीडयेद् वाऽपि' । 'नैव श्रमण ! अहं सर्वथा भयरहिताऽस्मि । किं कदाचिदपि श्रमणस्य ब्राह्मणस्य वैवं भयं भवेत् - यत् कश्चनाऽऽगत्य तं प्रहृत्य तत्सकाशाद् ज्ञानं, धर्मं, विचारशक्ति वाऽपहरिष्यति ? नैव, यत एतत्सर्वमपि तस्य स्वीयम् । स ५८ Page #66 -------------------------------------------------------------------------- ________________ स्वेच्छानुसारमेवैतेषां यत्किञ्चिदपि कस्मैचिद् दद्यात् । एतच्च तथ्यं कमलाया विषये कामकलायाश्चाऽऽनन्दविषयेऽपि यथातथमेव। कमलाया अधरौ सुन्दरौ शोणौ च । किन्तु कमलाया इच्छां विरुध्य तौ चुम्बितुं प्रयततां नाम, ततो माधुर्यस्यांऽशोऽपि नैवोपलभ्येत । यतो माधुर्यं कथं प्रकटयितव्यमिति तौ जानीत एव । भवान् हि योग्यश्छात्रोऽस्ति सिद्धार्थ !, अत एतत् सुतरां शिक्षतां यत् प्रेम याचितुं शक्येत, क्रेतुम्, उपहारतया प्रातुं, मार्गे वोपलब्धुं शक्येत; किन्तु कदाऽपि चोरयितुं नैव शक्येत । भवता सम्यक् नाऽवगतं ननु ! । भवादृश: सुन्दरो युवा यदीदं नाऽवगच्छेत् तदा तत् करुणास्पदमेव' । सिद्धार्थो नत्वा स्मितवान् – 'भवती सत्यमेव कथयति कमले !, तत् करुणास्पदमेव । सुतरां करुणास्पदम् । नहि नहि, भवत्या मम चाऽधराभ्यां माधुर्यांशोऽपि नैव हारयितव्यः । अतः सिद्धार्थो यदा वस्त्रोपानद्धनादीनि प्राप्स्यति तदैवाऽत्राऽऽगमिष्यति । किन्तु कमले ! किं भवती मे किञ्चन मार्गदर्शनं कुर्याद् वा ?' 'मार्गदर्शनम् ! किमर्थं न ? योऽरण्यात् शृगालानां सहवासाच्च समागतोऽस्ति तादृशस्य वराकस्याऽज्ञानिनश्च श्रमणस्य को वा मार्गदर्शनं नैव कुर्यात् ?' ' तर्हि वदतु प्रिये कमले ! तानि त्रीणि वस्तूनि शीघ्रतयैवाऽधिगन्तुं मया कुत्र वा गन्तव्यम् ?' 'मित्र ! बहवो जना एतज्ज्ञातुमिच्छन्ति । भवता तु यच्छिक्षितं तदेवोपयुज्य धनमर्जनीयं, ततश्च वस्त्रादीनि प्राप्तव्यानि । अन्यया कयाऽपि विधया दरिद्रो जनो धनं प्राप्तुं नैव शक्नुयात्' । किं भवान् किञ्चन जानाति वा ?' 'अहं विचारयितुं धैर्यं धर्तुमुपवसितुं च समर्थः' । ‘न किञ्चिदन्यत् ?’ ५९ Page #67 -------------------------------------------------------------------------- ________________ 'नैव । अथवा आम्, अहं काव्यमपि कर्तुं जानामि । यद्यहं भवत्यै काव्यमेकं श्रावयेयं तदा किं भवती मे काव्यं प्रति चुम्बनमेकं वा प्रयच्छेत् ?' ‘अवश्यं, यदि भवत्काव्यं मां प्रीणयेत् । किं तत् काव्यम् ?' क्षणं विचार्य सिद्धार्थेनोक्तं “निजोपवनं गता कमनीया कमला उपवनद्वारि च स्थित एकः कपिशः श्रमणः तत् कमलपुष्पं दृष्टं तेन यदा चकितेन तेन नतं तदा सस्मितं तत् स्वीकृतवती कमला स्वमनसि विचारितवान् श्रमणः कमनीयकमलाकृते कृतं समर्पणं श्रेयो भगवत्कृते कृतात् समर्पणात्" ॥ कमलोच्चैर्हस्ततालं दत्तवती, तेन च तस्याः कङ्कणानि रणरणितानि । 'भवतः कविताऽतीव रमणीया भोः कपिश श्रमण !, तस्यां प्रति चुम्बनप्रदानेन न मे किञ्चिद् विनश्यति' इति कथयन्ती नयनेङ्गितेन सा तं समीपमाहूतवती । सिद्धार्थेन तद्वदनस्य पुरतः स्वीयं वदनं स्थापितं, तस्याश्चाऽधरयोरञ्जीरखण्डतुल्ययोः स्वावधरौ न्यस्तौ । कमला तं गाढं चुम्बितवती, सिद्धार्थश्च सविस्मयं सोत्तेजनं चाऽनुभूतवान् यदेतावता सा तं कियत् शिक्षितवती, कियच्चतुराऽऽसीत् सा, कथं च तं साऽभिभूतवती पराजितवती आकर्षितवती च, तथाऽस्माद्दीर्घचुम्बनादनन्तरं विविधचुम्बनानां दीर्घा परम्परा कथं तं प्रतीक्षितवती चेति । दीर्घं श्वसन् स तत्रैव स्थिरो जातः । तस्मिन् क्षणे, स्वदृष्टिपुरतः स्वयमेव कस्यचन बोधस्य पूर्णताया : द्वारोद्घटनेन बालस्येव विस्मितः स सञ्जात आसीत् । ६० — Page #68 -------------------------------------------------------------------------- ________________ 'भवतः काव्यमतीव सुन्दरमस्ति' – कमलोक्तवती । 'यद्यहं धनिकाऽभविष्यं, तदाऽवश्यं तत्कृतेऽहं भवते धनमदास्यम् । किन्तु काव्यं कृत्वा प्रभूतधनार्जनं नितरां कठिनं भविष्यति, यतः कमलाया मैत्री यदि भवान् वाञ्छति तदा भवता प्रभूतं धनमर्जनीयमेव' । ___ 'भवती कथमिव चुम्बति खलु !!' - सिद्धार्थोऽस्फुटस्वरेण कथितवान् । 'तत् तु सत्यमेव । एतेनैव मे वस्त्राणामाभरणानामुपानहां सर्वविधवस्तूनां चाऽभावो नैव भवति। किन्तु भवान् किं करिष्यति ? विचारणात् उपवासकरणात् काव्यरचनाच्चाऽधिकं किमपि कर्तुं न शक्नोति भवान् ?' 'अहं यागस्तोत्राणि गातुं जानामि, किन्तु नाऽहमितः परं तानि गायिष्यामि', – सिद्धार्थोऽवदत् । 'अहं मन्त्रानपि जानामि, किन्तु नाऽहं तान् उच्चारयिष्यामि । अहं शास्त्राणि पठितवान्.....' ___'तिष्ठतु', – कमला तं रुद्धवती; 'किं भवान् पठितुं लिखितुं च जानाति वा ?' 'निश्चितमहं जानामि । बहवो जनास्तज्जानन्ति' । _ 'नैव, बहवो जनास्तन्न जानन्ति । अहमेव न जानामि । भवानेतज्जानाति - इत्येतदत्यन्तं सुन्दरं, नूनं सुन्दरम् । कदाचिन्मन्त्रोच्चारणमप्यावश्यकं भवेत्' । तदात्वे एव कश्चन परिचारकस्तत्राऽऽगतः, स्वामिन्याः कर्णे च किञ्चित् कथितवान् । 'कश्चन मां मिलितुमागतोऽस्ति । त्वरया भवानितो निर्गच्छतु । न कश्चिदत्र भवन्तं पश्येत् । अहं भवन्तं श्वो द्रक्ष्यामि' - कमला कथितवती । ततः सा तं सेवकं 'पवित्रब्राह्मणायाऽस्मै शुभ्रमेकं वस्त्रं ६१ Page #69 -------------------------------------------------------------------------- ________________ देय'मित्यादिष्टवती । किमत्र प्रचलतीति अजानन् सिद्धार्थस्तेन सेवकेन दीर्घमार्गेणैकत्र लतामण्डपे नीतः, शुभ्रं वस्त्रं च दत्त्वा वनगहने नीत्वा, 'केनाऽप्यदृष्टतयैवेतः शीघ्रं निर्गच्छतु' – इति च स्पष्टं सूचितम् । सिद्धार्थोऽपि सन्तुष्टतया यथासूचनं कृतवान् । वनगहनाच्च शान्त्यैव स्वं मार्ग प्राप्य च उपवनाद बहिरागतः । ससन्तोषं स नगरं प्रतिनिवृत्तो वस्त्रेण सह । एकस्मिन् सत्रागारेऽन्यैर्भिक्षुकैः सह सोऽपि मौनमेवाऽन्नं याचितवान् रोटिकामेकां च प्राप्तवान् । 'मन्ये, श्वो मया याचनीयं नैव भवेत्' - इति स विचारितवान् । __ अथ च सहसैव तन्मनसि गर्वभावना समुद्भूता यदिदानीं स श्रमणो नाऽऽसीत् । अतस्तस्याऽन्नयाचनं नोचितम् । स तां रोटिकां शुने दत्तवान् स्वयं च निराहार एव स्थितः। _ 'अत्र जीवनं सरलमस्ति' – सिद्धार्थो विचारयन्नासीत् । 'नैवाऽस्ति काठिन्यमत्र । यदाऽहं श्रमण आसं तदा सर्वमपि कठिनं क्लेशकरं प्रान्ते च निराशाजनकमासीत् । अधुना तु सर्वमपि सरलमस्ति, कमलया चुम्बनद्वारा प्रदत्तस्य शिक्षणस्येव सर्वं सरलम् । अधुना मम धनेन वस्त्रैश्चैव प्रयोजनमस्ति । तानि हि निद्राभङ्गमकृत्वैव प्राप्तुं सर्वथा शक्यानि' । सिद्धार्थेन कमलाया नगरस्थितस्य भवनस्याऽन्वेषणं जनान् पृष्ट्वा पूर्वमेव कृतमासीत् । अतो द्वितीयदिने स तत्रैव गतवान् । तं दृष्ट्वा तयोक्तं – 'सर्वमपि सुस्थमस्ति । कामस्वामी भवन्तं द्रष्टुमिच्छति । स हि समस्तेऽपि नगरे एव धनाढ्यः । यदि भवांस्तं प्रीणयेत् तदा सोऽवश्यं भवते कार्यं दद्यात् । किन्तु भोः श्रमण ! किञ्चिच्चातुर्यं दर्शयतु । मयाऽन्यद्वारा भवतो नाम तस्य सूचितमस्ति । स हि अतीव समर्थोऽस्ति अतस्तेन सह Page #70 -------------------------------------------------------------------------- ________________ मित्रभावेन वर्तताम् । किन्तु तत्सकाशेऽत्यधिकं नम्रत्वमपि मा दर्शयतु । अहं भवन्तं तत्तुल्यमेव द्रष्टुमिच्छामि न तु तस्य भृत्यम्। अन्यथा मम सन्तोषो नैव भविता । कामस्वामी हीदानी वृद्धो निरुत्साहश्च जायमानोऽस्ति । यदि भवांस्तं प्रीणयेत् तदा भवन्तं स विश्वासभाजनं करिष्यत्येव' । सिद्धार्थः सस्मितं तस्यै स्वकृतज्ञतामदर्शयत् । यदा च तया ज्ञातं यद् - अनेन ह्योऽद्य वाऽपि न किञ्चिदशितं तदा तया फलानि अन्नं चाऽऽनाय्य तस्य भोजितम् । ___ 'भवान् नितरां सौभाग्यवानस्ति' – गमनकाले कमला तमुक्तवती । 'भवत्कृते यथाक्रमं द्वाराण्युद्धटमानानि सन्ति । एतत् कथं भवतीति ऊहितुं न शक्नोमि । किं भवत्पार्श्वे किञ्चन मन्त्रादिकमस्ति वा?'। सिद्धार्थेनोक्तं - 'ह्य एव मया कथितमासीद् यदहं विचारयितुं प्रतीक्षितुं निराहारः स्थातुं च शक्नोमि । किन्तु भवत्या तत्सर्वमनुपयोगि मत्वाऽवगणितम् । किन्तु कमले ! भवत्येव द्रक्ष्यति यत् तत्सर्वमपि सर्वथोपयोगि । भवती ज्ञास्यति यद् - एते मूर्खाः श्रमणा अरण्ये वसन्तोऽपि बहून्युपयोगीनि वस्तूनि शिक्षन्ते जानन्ति च । परह्योऽहं सर्वथाऽनभिज्ञोऽप्रसाधितश्च भिक्षुक आसीत् । ह्यस्तु मया कमला चुम्बिता । इतः परं चाऽहं श्रेष्ठीभविष्यामि धनमुपार्जयिष्यामि, यानि च वस्तूनि भवत्यै मूल्यवन्ति प्रतिभान्ति तेषामहं स्वाम्यं प्राप्स्यामि' । ___ 'सत्यमिदम्' – कमला स्वीकृतवती । “किन्तु मया विना भवान् किं वाऽकरिष्यत् ? यदि कमला भवन्तं सहायं नाऽकरिष्यत् तदा भवान् कुत्र वाऽस्थास्यत् ?' ___'प्रिये कमले !' – सिद्धार्थ उक्तवान् – 'यदाऽहं भवत्याः समीपे उपवने समागतस्तदा मया प्रथमं पदं न्यस्तम् । श्रेष्ठायाः Page #71 -------------------------------------------------------------------------- ________________ सुन्दर्याः सकाशात् कामकला शिक्षितव्येति मे ध्येयमासीत् । यदा हि मया ध्येयमिदं निश्चितं तदैवाऽहं जानामि स्म यदेतदहं सम्पादयिष्याम्येवेति । मयैतदपि ज्ञातं यदत्र भवती मे सहायं करिष्यत्येव, तद्धि मया भवत्याः प्रथमदृष्टिपातेनैव ज्ञातमासीत् तत्रोपवनद्वारे' । 'अथ यदि नाऽहं भवत्साहाय्यं कर्तुमिच्छामकरिष्यत् तदा?' 'किन्तु भवत्या सेच्छा कर्तव्यैवाऽऽसीत् । शृणु कमले ! यदा वयं जले पाषाणखण्डं क्षिपामस्तदा स खण्डः त्वरितमेव जलस्य तलं प्राप्नोति । सिद्धार्थोऽपि यदैकं ध्येयं लक्ष्यं वा निश्चिनोति तदाऽपि एवमेव भवति । यद्यपि सिद्धार्थो न किञ्चित् करोति, स हि केवलं प्रतीक्षते, चिन्तयति, उपवसति च; तथाऽपि जलतलं प्राप्तस्य प्रस्तरखण्डस्येव, स किञ्चिदपि न कुर्वाणश्चेष्टमानो वा जगतोऽपि व्यापाराणां पारं प्राप्नोति, ननु तत्राऽऽकृष्यते सः, स्वं चाऽऽकृष्यमाणं नैव रुणद्धि । स हि स्वीयध्येयेनैवाऽऽकृष्यते, यतः स स्वीयमनसि ध्येयविरुद्धं न किञ्चिदपि प्रवेष्टमनुमन्यते । इदमेव सिद्धार्थः श्रमणानामन्तिके शिक्षितवान् खलु ! । मूर्खजना एतदेव चमत्कारमिन्द्रजालं वा कथयन्ति, एतच्च पिशाचसाध्यमिति मन्यन्ते । किन्तु पिशाचा न किञ्चिदपि कर्तुं शक्ताः । ननु पिशाचा एव न सन्ति । प्रत्येकं जनश्चमत्कारं कर्तुं शक्तः, प्रत्येकं जनः स्वं ध्येयं प्राप्तुं समर्थो यदि स चिन्तयितुं प्रतीक्षितुमुपवसितुं च शक्नुयात्' । कमला तमैकाग्रयेण श्रुतवती । तस्यै तत्स्वरो रोचते स्म, तस्य नेत्रान्निर्गच्छन् प्रकाशो रोचते स्म । 'ननु मित्र ! यथा भवान् वदति तथाऽपि स्यात्' – सा मृदुतयाऽवदत्, ‘अथवा ननु सिद्धार्थः सुरूपोऽस्ति, तस्य दृष्टिपातः ६४ Page #72 -------------------------------------------------------------------------- ________________ स्त्रियः प्रीणयति, स सौभाग्यवान् अस्ति - इत्येतदर्थमपि तत् स्यात्' । ‘एवं भवतु मे शिक्षिके ! मम दृष्टिपातो भवतीं सदैव प्रीणयतु, सौभाग्यं च सदाऽपि भवत्या मध्यमेन मामनुसरतु' - इति वदन् स तां चुम्बितवान्, तस्याश्च सकाशान्निर्गतवान् । Page #73 -------------------------------------------------------------------------- ________________ IALILNAMAL நாகபாடியாகரUALI ந VANNI ப - Y - ப . . Page #74 -------------------------------------------------------------------------- ________________ २. प्राकृतजनमध्ये सिद्धार्थः श्रेष्ठिनं कामस्वामिनं मिलितुं तस्य गृहं प्राप्तः । सुसमृद्धे हर्म्ये सेवकैः महार्घास्तरणानतिक्रामन् स मुख्यापवरकं प्रापितो यत्र गृहस्वामिनं प्रतीक्षमाणः स उपविष्टः । स्तोकवेलानन्तरं कामस्वामी तत्राऽऽगतः । स कोमलप्रकृतिकोऽपि आनन्दी जन आसीत् । तस्य केशेषु पलिता जायमाना आसन्, नेत्रे च चतुरे सावधाने चाऽऽस्तां, मुखं च विलासितां द्योतयति स्म । तौ द्वावपि मैत्रीभावेन परस्परमभिवादनं कृतवन्तौ । श्रेष्ठी कथितवान् – ‘मया ज्ञातं यद् भवान् ब्राह्मणोऽस्ति, विद्वान् अस्ति, वृत्तिं च मार्गयमाणोऽस्ति - इति । तत् किं भवान् व्यसनपतितो, येन वृत्तिं मृगयते ? ' 'नैव', सिद्धार्थः कथितवान् 'अहं व्यसनग्रस्तो नाऽस्मि । वस्तुतस्तु मम जीवने कदाऽपि व्यसनं नाऽऽगतम् । अहं हि वनादागतो यत्र श्रमणैः सह चिरायोषितवानहम्' । 'यदि भवान् श्रमणानां सकाशादागतस्तत् कथं व्यसनग्रस्तो वृत्तेरपेक्षावान् वा नाऽस्ति किल ? श्रमणास्तु सर्वथा परिग्रहरहिताः सन्तीति श्रुतं खलु मया !' | 'अहमपि परिग्रहरहित एवाऽस्मि ' - सिद्धार्थ उक्तवान्, ‘यदि भवन्मनसीदमभिप्रेतं स्यात् । अहं सर्वथा परिग्रहं नैव धारयामि, किन्तु तद् मदिच्छयैव । अत एवाऽहं व्यसनग्रस्तो नाऽस्मि । — 'किन्तु कथं भवान् परिग्रहहीनो जीविष्यति ?' 'मयैतद्विषये न कदाऽपि चिन्तितं महोदय ! । अहं वर्षत्रयात् परिग्रहरहित एवाऽस्मि, तथाऽपि मया नैव चिन्तितं कदाऽपि यत् ६७ Page #75 -------------------------------------------------------------------------- ________________ कथमहं जीविष्यामीति' । 'तथा च भवान् अन्येषामाधारेण जीवितः खलु !' । ‘सत्यम् । श्रेष्ठ्यपि ह्यन्येषामाधारेण जीवति ननु ! ' । 'युक्तमुक्तम् । किन्तु स एवमेवाऽन्येषां सकाशान्न किञ्चिद् गृह्णाति स वस्तूनि तद्विनियमेन ददाति' । 'वस्तूना हीयमेव गतिरस्ति । प्रत्येकं जनो गृह्णाति, प्रत्येकं च ददाति । जीवनक्रमो ह्येष खलु !' 'सत्यं तत् । किन्तु यदि भवान् सर्वथा परिग्रहहीनस्तदा कथमन्येभ्यः किञ्चिद्दातुमर्हति ?' ‘प्रत्येकं जनः स्वपार्श्वे यत् स्यात् तद्ददाति । सैनिको बलं दत्ते, वाणिजो वस्तूनि ददाति, शिक्षको विद्यां ददाति, कृषको धान्यं, धीवरश्च मत्स्यान् दत्ते' । 'बाढम् । अथो भवान् किं ददाति शिक्षितमर्जितं वा यदन्येभ्यो दातुं शक्यम् ? ' भवता तत् किं 'अहं विचारयितुं प्रतीक्षितुमुपवसितुं च समर्थः ' । ‘किमेतत् पर्याप्तं वा ?’ 'पर्याप्तमेवेति प्रतिभाति मम' । ‘परन्तु कुत्रोपयोगीनि तानि ? उदाहरणार्थं लाभो जनस्योपवासेन क्रियते खलु ?' 'उपवासस्याऽप्यस्ति महन्मूल्यं महोदय ! । यदा कस्यचित् पार्श्वेऽशनादि किञ्चिदपि न स्यात् तदोपवास एवैकं चातुर्यपूर्णं कार्यं, यत् स कर्तुं शक्नोति । यथा, यदि सिद्धार्थ उपवासं कर्तुं न जानाति तदाऽद्य तेन क्षुधापीडिततया तच्छमनार्थं यत्किञ्चिदपि कार्यं भवत्पार्श्वेऽन्यत्र वाऽन्विष्य कर्तव्यं स्यात्, यतः क्षुधैव तं तदर्थं प्रेरितवती स्यात् । किन्तु तथा न जातं यतः सिद्धार्थोऽव्याकुलतया प्रतीक्षितुं जानाति । सोऽधीरो नास्ति । T ६८ को वा Page #76 -------------------------------------------------------------------------- ________________ तस्य काऽप्यपेक्षा नास्ति । स क्षुधं चिराय निरोद्धमपहसितुं च समर्थः । अतो महोदय ! उपवासः सर्वथोपयोग्येव' । 'साधूक्तं भवता भोः श्रमण ! । किञ्चित् प्रतीक्षतामेषोऽहमागच्छामि' । कामस्वामी बहिर्गत्वा किञ्चन पत्रं गृहीत्वा प्रत्यागतः, तच्च सोऽतिथिकरेऽर्पयित्वा पृष्टवान् – 'किं भवानेतत् पठितुं शक्तो वा ?' सिद्धार्थस्तत् पत्रं दृष्टवान् । तत्रैको विक्रयलेखो लिखित आसीत् । तं पठित्वा सिद्धार्थः श्रेष्ठिने श्रावितवान् । ___ 'बाढं' – कामस्वाम्युक्तवान् । 'अथ चाऽस्मिन् पत्रके मदर्थं किञ्चिल्लिखित्वा दास्यति भवान् ?' ___ कामस्वामी तस्मै एकं पत्रकं लेखनी चाऽदात् । सिद्धार्थोऽपि तत्र किञ्चिद् लिखित्वा तस्मै प्रत्यार्पयत् तत् । कामस्वामी तत् पठितवान् – 'लेखनं शोभनं, किन्तु चिन्तनं श्रेष्ठम् । चातुर्यं प्रशस्यं, धैर्यं तु ततोऽपि श्रेष्ठम्' । 'सुन्दरं लिखति खलु भवान्' – श्रेष्ठीतं प्रशंसितवान् । 'आवाभ्यामितोऽपि बहु चर्चयितव्यं, किन्त्वद्याऽहं भवते मम प्राघूर्णकीभवितुं मद्गृहे च निवसितुमामन्त्रयामि' । सिद्धार्थस्तदर्थमाभारं मत्वा तदामन्त्रणं स्वीकृतवान् । इदानीं स श्रेष्ठिगृहे एव निवासं कृतवान् । नूतनवस्त्राण्युपानहौ च तदर्थमानायितानि । एकः सेवकः प्रत्यहं तस्य कृते स्नानादिसामग्री प्रगुणीकरोति स्म। प्रतिदिनं वारद्वयं तस्य पुरतो भोजनमपि परिवेष्यते स्म । किन्तु सिद्धार्थः सकृदेव भुनक्ति स्म । स मांसं मदिरां वा सर्वथा न स्पृशति स्म । कामस्वामी तेन सह वाणिज्यवार्ता करोति स्म, तस्य पण्यसामग्री पण्यशालां गणनपत्राणि च दर्शयति स्म । Page #77 -------------------------------------------------------------------------- ________________ सिद्धार्थस्तत्सान्निध्ये बहु शिक्षितवान् । सोऽधिकं शृणोति स्माऽल्पं च वदति स्म । कमलाया शब्दानामनुस्मरन् स कदाऽपि श्रेष्ठपुरतो भृत्यभावं न दर्शयति स्म, किन्तु तेन सदृशं कदाचित्तु ततोऽपि अधिकं स्वं गणयितुं तं बलात् प्रेरयति स्म । कामस्वामिगृहे वसन् स कतिचिद्दिनेष्वेव तद्वाणिज्यं शिक्षितुमारब्धः । यद्यपि, प्रतिदिनं स कमलयाऽऽमन्त्रितो नियतसमये उत्तमवस्त्रोपानहादीनि परिधाय प्राभृतानि च गृहीत्वा तस्या भवनमपि प्राप्नोति स्म । सुन्दर्याः कमलाया वैदग्ध्यपूर्णयो रक्तवर्णयोरोष्ठयोः सकाशात् स बहु शिक्षितवान् । तस्या मृदुकोमलौ हस्तावपि तं बहून् विषयान् शिक्षितवन्तौ । कामस्य विषये सोऽद्याऽपि बालक इवाऽऽसीत् । सोऽतृप्ततयाऽक्षिणी निमील्य तस्य गभीरतामवगाहितुमनाः कामशास्त्रानुसारेण कमलया शिक्षितो यद् – 'अत्र कोऽपि परस्मै सुखमदत्त्वा प्राप्तुं नैव शक्नोति । तथा प्रत्येकं हावभावस्य, प्रत्येकं परिरम्भस्य, प्रत्येकं स्पर्शस्य, प्रत्येकं दृष्टिपातस्य, शरीरस्य च प्रत्येकमङ्गस्य नैजमेव रहस्यं भवति, तच्चाऽवबुध्यमान एवाऽत्र सुखमानन्दं चाऽनुभवेत्' । सा तं बोधितवती यत् – 'प्रेमिजनाभ्यां रतिक्रीडानन्तरं परस्परं प्रशंसां कृत्वैव विश्लेष्टव्यम् । ताभ्यां विजयित्वं जितत्वं वा नाऽनुभवितव्यं येनाऽतितृप्तेरवसादस्य वा संवेदनं नोदियात् नाऽप्यसदुपयोगस्याऽनुचिततयोपयुक्तस्य वा हीनानुभूतिर्वा - ऽप्युद्गच्छेन्मनसि । एतत्सर्वं शिक्षमाणः स तया चतुरया सुन्दरया च वाराङ्गनया सह स्वं कालमद्भुततया गमितवान् । स तस्याः शिष्यः, तस्याः प्रियः, तस्याः सुहृच्च सञ्जातः स्वीयवर्तमानजीवनस्याऽर्थं, मूल्यं च कमलायाः सहवासे एव निहितमस्तीति सोनुभूतवान् न पुनः कामस्वामिनो वाणिज्ये । ७० Page #78 -------------------------------------------------------------------------- ________________ इतः कामस्वामी तस्य महत्त्वयुतानि पत्राणि आदेशपत्राणि च लिखितुं सूचितवान्, ततश्च शनैः शनैः स तं सर्वेष्वप्यत्यावश्यककार्येषु योजितवान् । स शीघ्रमेव दृष्टवान् यत् - यद्यपि सिद्धार्थो व्रीहेरूर्णाया वा विषयेऽल्पमेवाऽवबुध्यते, पोतवाणिज्यमन्यव्यवसायं वा सोऽधिकं नाऽवगच्छति; तथाऽपि स कार्येषु भाग्यवानस्ति, अव्याकुलतायां स्वस्थचित्ततायां च स श्रेष्ठिनमप्यतिशेते, श्रवणकलायामपरिचितजनानपि प्रभावितान् कर्तुं च तस्य क्षमताऽनन्यसदृशी अस्ति । श्रेष्ठी स्वमित्रं कञ्चित् कथितवान् – 'अयं ब्राह्मणो सत्यवणिक् नास्ति नाऽपि च भविष्यति कदाऽपि, तस्य वाणिज्ये सर्वथाऽऽसक्तिर्नास्ति । किन्तु यान् साफल्यं स्वयमेवाऽऽगत्य वृणोति तादृशानामन्यतमः स किञ्चित् सफलतारहस्यं प्राप्तवानस्ति । तच्च रहस्यं शुभे मुहूर्ते तस्य जन्मभवनात्, योगप्रभावात्, श्रमणानां पार्वाद् वाऽधिगतं स्यात् । स सर्वदा वाणिज्येन क्रीडन् इव लक्ष्यते, वाणिज्यं कदाऽपि तन्मनसि स्थान प्राप्तुं न शक्तं, तं वा प्रभवितुं न शक्तम् । स कदाऽपि हाने व बिभेति, न कदाऽपि च तदर्थमुद्विग्नो वाऽपि भवति' । मित्रेणोक्तं – 'भवतः कृते स यद् वाणिज्यं कुर्यात् तत्र लाभे जाते तस्य तृतीयं भागं देयं कल्पतां, हानौ च जातायां भवता सह समानं भागं स निर्वहतु । एवंकृते स वाणिज्येऽधिकतयोत्साही भविष्यति' । कामस्वामी तद्वचनमनुसृत्य प्रवृत्तः । किन्तु सिद्धार्थस्तत्राऽप्यनासक्त एव स्थितः । यदा तस्य लाभो जातस्तदा स प्रशान्ततया तं स्वीकृतवान्, यदि च हानिः स्यात् तदा स हसित्वा कथयति स्म – 'अहो ! व्यवहारोऽयं ननु किञ्चिदिव निष्फलो जातः, परं न तत्र काऽपि चिन्ताऽस्ति' । Page #79 -------------------------------------------------------------------------- ________________ वस्तुतस्तु स वाणिज्ये किञ्चिदिवाऽदत्तावधान एवाऽऽसीत् । एकदा स कुत्रचिद् ग्रामे महान्तं व्रीहिराशिं क्रेतुं गतवान् । यदा स तत्र प्राप्तस्तदा पूर्वमेव तत्रत्यैर्जनैः स राशिरन्यस्मै वणिजे विक्रीत आसीदिति तेन ज्ञातम् । तथाऽपि स सर्वथाऽनुद्विग्नः कानिचन दिनानि तत्रैवोषितवान्, कृषकैः सह मनोरञ्जनं कृतवान्, धनं च बालकेभ्यो विभज्य दत्तवान्, तत्र च प्रवृत्ते कस्मिंश्चिद् विवाहे भागं गृहीत्वा पूर्णतया तृप्तः सन् नगरं प्रतिनिवृत्तवान् । यदा च कामस्वामी शीघ्रमनागमनार्थं समयस्य धनस्य च व्ययार्थं तमुपालब्धवान् तदा सिद्धार्थस्तमुक्तवान् – 'माऽऽक्रोशीद् भवान्, मम प्रियमित्र !। आक्रोशनेन कदाऽपि किमपि नैवाऽधिगतमस्ति । यदि हानिर्जाता तर्हि जायतां नाम, अहमेव तां वोढा । अहं ह्यनेन पर्यटनेन सर्वथा तुष्टोऽस्मि यतस्तेन बहूनां जनानां परिचयो मे जातः, ब्राह्मणेनैकेन सह मैत्री जाता, बालकाः समागत्य ममोत्सङ्गे उपविष्टाः, कृषकैश्च मे निजक्षेत्राणि दर्शितानि । तथा न केनाऽप्यहं वणिक्त्वेन परिगणितः' । ___तत्तु सर्वमपि शोभनमेव' – कामस्वामी विमनस्कतया स्वीकृतवान्, 'किन्तु वस्तुतो भवान् वणिगेव । यदि वा किं भवताऽऽनन्दप्राप्त्यर्थमेव पर्यटनं कृतं ननु ?' 'नूनमहं निजानन्दार्थमेव प्रवासं कृतवान्' – सिद्धार्थो हसित्वा कथितवान् । 'किमर्थं न ? अहं बहुभिर्जनैतनप्रदेशैश्च परिचितो जातः । मया मित्रताया विस्रम्भस्य च सौख्यमनुभूतम् । यद्यहं कामस्वाम्यभविष्यं तदा क्रयणं कर्तुमक्षमोऽहं व्यथितो भूत्वा प्रतिन्यवतिष्यम्, तथा मम समयो धनं च नष्टावैव स्याताम् । किन्तु मया बहूनि सुदिनानि यापितानि, बहु शिक्षितं, भूयानानन्दोऽनुभूतः, तथा कोपेनाऽसमीक्ष्यकारितया वा मया स्वस्याऽन्येषां वा क्लेशो नोत्पादितः । यद्यहं पुनरपि कदाचित् तत्र ७२ Page #80 -------------------------------------------------------------------------- ________________ गच्छेयं, नवं व्रीहिराश्यादि क्रेतुं केनचिद् वाऽन्येन प्रयोजनेन, तदा तत्रत्या जनाः सौहार्दैन मामाकारयेयुर्मम स्वागतं च कुर्युः । तदैव चाऽहं कोपकरणमसमीक्ष्यकारित्वं च मया नैवाऽऽचरितमिति स्मृत्वा सुखीभविष्यामि। भवतु मित्र ! क्लेशकरणेन मा स्वं दुःखीकरोतु । यदा च भवताऽनुभूयेत यत् सिद्धार्थो मे हानि करोति तदा केवलं शब्दमेकं कथयतु, सिद्धार्थः सर्वं त्यक्त्वा स्वीयमार्गे गमिष्यति । तावत्पर्यन्तं किन्त्वावां प्रशस्तौ सुहृदावेव भवामः' । भवान् मम अर्थात् कामस्वामिनोऽन्नमेव खादित्वा जीवति'ति सिद्धार्थं प्रत्याययितुं श्रेष्ठिनः प्रयत्ना अपि विफला जाताः । यतः सिद्धार्थस्योत्तरमासीद्, यत् – ‘स स्वीयमेवाऽन्नं भुङ्क्ते । किञ्च, सर्वेऽपि जनाः परस्परमितरस्याऽन्नं भुञ्जन्त एव' । सिद्धार्थः कामस्वामिनः पीडाभिः सर्वथाऽलिप्तः सन् निश्चिन्त एवाऽवर्तत । कामस्वामिनस्तु बह्वयः पीडाः आसन् । यदा कश्चन व्यवहारो निष्फलो जायते स्म, यदा हि किञ्चन वस्तुलेखपत्रकं नश्यति स्म, यदा च कश्चनाऽधमर्ण ऋणं प्रत्यर्ययितुं न शक्नोति स्म । कामस्वामी सिद्धार्थं कदाऽपि खेदकरणार्थं कोपेनाऽपशब्दोच्चारणार्थं वोत्तेजयितुं तथा ललाटभङ्गकरणार्थं निद्रानाशार्थं वाऽपि प्रेरयितुं नैव समर्थ आसीत् । यदैकदा कामस्वामी सिद्धार्थमस्मारयत् यद् – भवान् सर्वमपि मत्पादेिव शिक्षितोऽस्तीति तदा सिद्धार्थेनोदितं – “एतादृशपरिहासेनाऽलम् । अहं भवतः सकाशात् - करण्डमितस्य वस्तुजातस्य कि मूल्यं स्यादिति, ऋणेन धनदाने कियती वृद्धिग्रहीतव्येति वाऽवश्यं शिक्षितवान्, यतस्तत्र भवदधिकारः । किन्तु मम प्रियमित्र ! कामस्वामिन् ! विचारः कथं कर्तव्य इति तु नाऽहं भवत्सकाशात् शिक्षितवान् । तत्तु भवानेव मम पार्श्वे शिक्षितुमर्हति !' । Page #81 -------------------------------------------------------------------------- ________________ तस्य चित्तं वाणिज्ये सर्वथा निविष्टं नाऽऽसीत् । केवलं कमलायाः कृते धनमर्जयितुं वाणिज्यं सहायकमासीत्, आवश्यकतातोऽप्यधिकं धनं ततः प्राप्यते स्म । तथा, तस्य सहानुभूतिरौत्सुक्यं च सामान्यजनैः सहैवाऽऽसीत्, यतस्तेषां कार्य, सुख-दुःखे, अविचारितकारित्वं च तस्य कृतेऽपरिचितानि सुदूरवर्तीनि चाऽऽसन् । येन केनाऽपि सह सम्भाषितुं, वसितुं, ततः शिक्षितुं तस्य कृतेऽतीव सरलमासीत्, तथाऽपि तस्यैवमपि प्रतिभाति स्म यत् स्वस्मिन् तादृशं किमपि विद्यते यत् स्वं तेभ्यो भिन्नीकरोति । तच्च खलु तस्य श्रमणत्वेन गमितं पूर्वजीवनमासीदित्यपि स्पष्टम् । स जनान् बालिशं पशुवद् वाऽऽचरणं कुर्वाणान् विलोकितवान् । यस्मिन् स स्निह्यति स्म, समकालमेव ततश्च विरज्यते स्म चाऽपि । ते हि धनार्थं, स्वल्पसुखार्थं तुच्छमानार्थं वा प्रयतमानास्ताम्यन्तः पलितशिरोभवन्तश्च तेन दृष्टाः । एतच्च किल सर्वमपि तस्य कृतेऽतीव क्षुद्रमासीत् । स तान् परस्परमाक्रोशत युध्यमानांश्च दृष्टवान् । स तान् तेषु दुःखेषु परिदेवमानान् दृष्टवान् येषु सत्सु श्रमणाः केवलं हसन्ति, तथा तासु हानिषु व्यथमानान् दृष्टवान् याः श्रमणाः सर्वथा नैव गणयन्ति । जना यत्किञ्चिदप्यानीय ददति स्म तत् सर्वं स स्वीकरोति स्म । यदि कश्चन क्षौममानीय विक्रयणार्थं ददाति स्म तदा तदपि तस्य स्वीकार्यमासीत् । ऋणार्थमागतोऽपि जनस्तस्याऽभिमत एवाऽऽसीत् । तथा कश्चन भिक्षुकः, यो हि श्रमणेभ्यस्तु अधिकसम्पन्न आसीत्, आगत्य होरापर्यन्तं स्वीयदारिद्मविषये वदन्नपि तस्येष्ट एवाऽऽसीत् । स क्षौरकर्म कर्तुमागतेन नापितेन, कदलीफलविक्रेत्रा सह, धनिकेन वाऽपि केनचिद् वणिजा सह समानतयैवाऽवर्तत । ७४ Page #82 -------------------------------------------------------------------------- ________________ यदि कदाचित् कामस्वामी तत्पार्वे समागत्य स्वीयसमस्या वर्णयति स्म कस्यचिद् व्यवहारस्य कृते वोपालभते स्म तदा स सकर्णतया सावधानं च शृणोति स्म, तत्कथने विस्मयं प्रदर्शयति स्म, तद् बोद्धं प्रयतते स्म, यत्र चाऽऽवश्यकं तत्र किञ्चिद् अनुमनुते स्माऽपि, ततश्च प्रयोजनवशादागतेनाऽऽगन्तुकेन सह संलपितुमारभते स्म । ___बहवो जनास्तत्समीपमागच्छन्ति स्म, केचन वाणिज्यार्थं, केचन तं वञ्चयितुं, केचन तं श्रोतुं, केचन तस्य सहानुभूति प्राप्तुं, केचन च तस्य मार्गदर्शनं प्राप्तुम् । स मार्गदर्शनं करोति स्म, सहानुभूतिं दर्शयति स्म, उपायनानि प्रदत्ते स्म, किञ्चिद् वञ्चितोऽपि भवति स्म, तथाऽस्याः सर्वस्या अपि क्रीडाया विषये तत्क्रीडकानां च जनानां भावनाविषये स तयैव रीत्या विचारयति स्म यया रीत्या स पूर्वं देवानां ब्राह्मणानां च विषये विचारयन्नासीत् । कदाचित् तस्याऽन्तःकरणे एको मृदुः सौम्यो ध्वनिः श्रूयते स्म यस्तं निभृतं स्मारयति स्म निभृतमेव चाऽधिक्षिपति स्म, तथा निभृतं यथा स कष्टेन तं शृणोति स्म । ततः सहसैव सोऽपश्यत् यत् – सोऽपरिचितं जीवनं यापयति । बहूनि कार्याणि स क्रीडार्थमेव क्रीडारूपेणैव वा करोति, तथा यद्यपि स प्रसन्नोऽस्ति यथाकालं भौतिकसुखं चाऽप्यनुभवति, तथाऽपि सत्यजीवनं तु ततो वियुक्तमिवाऽस्पृशदिव प्रवहति । यथा कश्चन क्रीडकः स्वीयकन्दुकेन क्रीडति तथा स वाणिज्येन क्रीडन्नासीत्, तथैव च जनैः सह व्यवहरन्नासीत्। स तानवलोकयति स्म, तेषामाचरणाद् विनोदमपि प्राप्नोति स्म । एवंस्थितेऽपि तस्य हृदयं, तस्य मूलः स्वभावस्तत्र लीनो नाऽऽसीत् । तस्य मूलं स्वत्वं तु कुत्रचिदन्यत्रैव बम्भ्रम्यते स्माऽदृश्यतया, तस्य स्वत्वस्य तदीयजीवनेन सह न कोऽप्यनुबन्ध आसीत् । Page #83 -------------------------------------------------------------------------- ________________ कदाचिच्च स एतेभ्य एतादृग्भ्यश्च विचारेभ्यो भयमपि प्राप्नोति स्म । जनानां बालिशं दैनन्दिनं व्यवहारमहमपि समग्रतया जीवामीति स्पृहा तच्चित्ते जागर्ति स्म, तेषां जीवनेऽहं वास्तविकतया भागं गृह्णामि, तेषां जीवनमहमप्यास्वादयेयं जीवेयं `च, न पुनतस्य प्रेक्षक एव भवेयमिति चाऽपि स काङ्क्षति स्म । सुन्दर्याः कमलायाः पार्श्वे स प्रत्यहं गच्छति स्म । स ततः प्रेम्णः कलां तथा शिक्षितवान् यस्यामनन्यसदृशतयाऽऽदानं प्रदानं च तुल्यमेकं च भवति । स तया सह संलापानकरोत्, ततः सकाशात् शिक्षते स्म, तामुपदिशति स्म तस्याश्चोपदेशं शृणोति स्म । सैवेकाऽऽसीद् या तं समवबुध्यते स्म, गोविन्दतोऽप्यधिकं समवबुध्यते । सा हि सिद्धार्थसदृश्येवाऽऽसीत् । एकदा स तामुक्तवान् ‘भवती मत्सदृश्यस्ति, अन्यजनेभ्यो भिन्ना । भवती कमलैवाऽस्ति नाऽन्यत् किञ्चित् । भवत्या अन्तःकरणे मयीव निश्चलता स्वस्थता चाऽस्ति, एकं विश्रान्तिस्थानमस्ति यत्र भवती यदा कदाऽपि प्रतिनिवर्तितुं सहजा च भवितुं शक्नोति । केषांचिदेवेदृशी क्षमता भवेत् । यद्यपि सर्वोऽपि जन ईदृशो भवितुं शक्नुयात्' । - 'सर्वे जना न भवन्तीयन्तो दक्षाः ' कमला प्रोक्तवती । 'कमले ! दक्षत्वेन नाऽस्ति किञ्चित् कार्यम्' – सिद्धार्थः कथितवान्, ‘पश्यतु, कामस्वामी हि मत्सदृश एव दक्षस्तथाऽपि तस्य नाऽस्त्येषा क्षमता । अन्ये केऽपि बालसमाना धारयन्ति तादृशीं क्षमताम्। प्रायशो जना वृक्षपतितपर्णतुल्या भवन्ति ये वायुना प्रेर्यमाणा इतस्तत उत्क्षिप्यमाणाश्चाऽन्ते भूमौ पतन्ति । अल्पाः किन्तु जनास्तादृशा भवन्ति ये हि नक्षत्रवत् निश्चिते पथि प्रयान्ति, वायुस्तान् चालयितुं न शक्नोति तेषामन्तःकरणे एव मार्गदर्शको मार्गश्च विद्यते । यान् प्राज्ञपुरुषान् अहं जानामि ७६ ― Page #84 -------------------------------------------------------------------------- ________________ तेषामन्यतमोऽत्र विषये सर्वथा परिपूर्णोऽस्ति । अहं तं न कदाऽपि विस्मर्तुं शक्तः । सोऽस्ति गौतमः - जगद्विश्रुतो भगवान् बुद्धः, यो वितरति तादृशं बोधम् । सहस्रशो युवकास्तस्योपदेशं प्रत्यहं शृण्वन्ति तस्याऽनुशासनं च प्रतिक्षणं पालयन्ति । किन्तु ते सर्वेऽपि हि सन्ति पतितपर्णतुल्याः, तेषामन्तःकरणे प्रज्ञायाः प्रकाशो नाऽस्ति नाऽपि चाऽऽन्तरो मार्गदर्शकः' । कमला तं विलोकयन्ती स्मितं कृतवती, 'भवान् पुनरपि तस्य विषये वदति' - सोक्तवती । 'भवान् पुनरपि श्रमणवद् विचारयन्नस्ति' । सिद्धार्थस्तूष्णीं भूतः । ततस्ताभ्यां प्रेमकेलिरादृता । कमलाः तस्याश्चत्वारिंशदधिकप्रकारेषु पारङ्गताऽऽसीत् । तेषामन्यतम एव प्रकारस्ताभ्यां समारब्धः । कमलायाः शरीरं चित्रकस्येव चपलं व्याधस्य धनुरिव च सुनम्यमासीत् । यः कोऽपि तत्सकाशात् प्रेमक्रीडां शिक्षेत स बहुविधानि सौख्यानि प्राप्तुं रहस्यानि चाऽवगन्तुं शक्नोति स्म । सा सिद्धार्थेन सह चिरायाऽक्रीडत्, सा तं निराकृतवती, अभिभूतवती, आक्रान्तवती, पराजितवती, स्वीयप्रभुत्वेन हृष्टा जाता च । प्रान्ते स तया वशीकृतः सन् श्रान्तो भूत्वा तत्पार्वे शयितवान् । कमला हि किञ्चिदवनम्य तस्य वदनं श्रान्ते च नयने निरीक्षितवती। _ 'अद्ययावत् मया ये प्रेमिणः प्राप्तास्तेषु भवानेव श्रेष्ठः' - सा विचारयन्तीव कथितवती । 'भवान् अन्येभ्यो दृढतरोऽधिकचपलोऽधिकानुकूलश्च । भवता मम कला सुष्ठ शिक्षिताऽस्ति । सिद्धार्थ ! यदाऽहं वयस्का भविष्यामि तदा, विचारयामि यद् भवत्तोऽपत्यं प्राप्स्यामि । किन्त्वेतावताऽपि भवान् श्रमण एव । भवान् वस्तुतो मां नैव प्रीणाति - भवान् कमपि नैव प्रीणाति । Page #85 -------------------------------------------------------------------------- ________________ किं सत्यमिदम् ?' _ 'स्यात् कदाचित्' – सिद्धार्थः क्लान्त्या प्रोक्तवान् । 'अहं भवादृश एवाऽस्मि । भवती अपि कमपि नैव प्रीणाति, अन्यथा कथं भवती प्रेम कलात्वेनाऽभ्यस्येत् ? अस्मादृशा जनाः स्नेहं कर्तुमसमर्थाः खलु ! सामान्यजनास्तत्र शक्ताः, तदेव तेषां रहस्यम्' । Page #86 -------------------------------------------------------------------------- ________________ - - 2011 《 上。 一二 Page #87 -------------------------------------------------------------------------- ________________ ΠΗΣ την 1η η , και Σ " μ... Κ και πχ . Σ - . Page #88 -------------------------------------------------------------------------- ________________ ३. संसारः चिरकालाय सिद्धार्थः सांसारिकोऽभूत्वा संसारे जीवन् आसीत् । श्रमणावस्थायां सुषुप्तानि तस्येन्द्रियाणीदानीं पुनरपि जागृतानि आसन् । समृद्धः शृङ्गारभावस्य सत्तायाश्च स्वादस्तेन प्राप्त आसीत् । तथाऽपि चिराय सोऽन्तःकरणेन श्रमणवदेव जीवितवान् । चतुरा कमला ह्येतल्लक्षितवत्यासीत् । तस्य जीवनं सदाऽपि विचार-प्रतीक्षोपवासैरेव शासितमासीत् । जगतो जनाः - सामान्यजनास्तस्य कृते परदेशिन इव सञ्जाता आसन, सोऽपि च तेषां कृतेऽपरिचित इवैवाऽऽसीदधुनाऽपि ।। वर्षाणि व्यतीतानि । अनुकूलसंयोगैः सर्वथा सुखीभूतः सिद्धार्थः कालविषये सर्वथाऽनवधान आसीत् । स धनिको जात आसीत् । चिरादेव तेन स्वकृते विशालं गृहं निर्मापितमासीद् यच्च सुस्थं रक्षितुं बहवः सेवका अपि तत्राऽऽसन् । नगराच्च बहिनदीतटे तेन स्वीयमेकमुद्यानमपि निर्मितमासीत् । जनास्तं प्रीणन्ति स्म, तथा यदाकदाचित् धनादीनां साहाय्यं मार्गदर्शनं च ग्रहीतुं तत्पाइँ समागच्छन्ति स्माऽपि । किन्त्वेतावताऽपि समग्रेऽपि नगरे कमलाया ऋते तस्य न केऽपि निकटस्नेहिन आसन् । ____ अथ च महात्मनो गौतमबुद्धस्योपदेशस्य श्रवणानन्तरं गोविन्दाच्च वियोजनानन्तरं स्वीययौवने सिद्धार्थेन यदुत्कृष्टं प्रबुद्धचैतन्यमनुभूतमासीत्, तथा परमजागृतेविशुद्धेच्छा, गुरोः शास्त्रेभ्यश्च विनैव स्थातुमग्रेसर्तुं च गर्वः, स्वीयान्तःकरणे उद्भवतो दिव्यध्वनेः श्रवणार्थमुत्सुकता - एतत्सर्वमपि शनैः शनैः स्मृतिशेषं सञ्जातमासीत् । यः पवित्रश्चैतन्यनिर्झर एकदा तस्य हृदयासन्नमेव सकलकलं प्रवहमान आसीत् स क्रमशो दूरं गच्छन् क्षीयमाणनादश्चाऽभवत् । एवंस्थितेऽपि श्रमणानां सकाशाद, गौतमस्य, Page #89 -------------------------------------------------------------------------- ________________ स्वपितुर्ब्राह्मणानां च सकाशात् स यद्यच्छिक्षितवान् तत् सर्वमपि - संयतं जीवनं, विचारवैशद्यं, दीर्घकालीनं ध्यानं, स्वात्मनो नित्यत्वस्य देहमनोभ्यामन्यत्वस्य च गूढं ज्ञानमित्येतेषामेकैकशो बोधस्यांऽशा निष्क्रिया उपेक्षिताश्च जातास्तथाऽपि किञ्चित्तु तत्राऽवशिष्यते स्म । प्रभूतो बोधस्तच्चित्ते सुदीर्घकालं स्पन्दमानो न्यवसत् । यथा कुम्भकारस्य चक्रं गतिमज्जातमेकदा, चिराय परिभ्राम्यति, ततश्च शनैः शनैर्मन्दभ्रमणं भूत्वा प्रान्ते स्थिरं भवति; तथा संयमस्य, विचारस्य विवेकस्य च चक्रं - सिद्धार्थचित्ते गतिमज्जातं - चिराय पर्यभ्राम्यत्, अधुनाऽपि परिभ्राम्यति स्म, किन्तु क्रमशो मन्दीभूतवेगं सस्खलनं च, स्तोकवेलया च स्थिरीभविष्यतीव। यथा विनश्यवृक्षप्रकाण्डं प्रविश्य क्लेदः शनैः शनैस्तं विशीर्णं करोति तथा संसारो जाड्यं च सिद्धार्थात्मनि प्रविश्य तं गुरुभारं, परिश्रान्तं, निद्रामग्नं च व्यधत्ताम् । किन्त्वन्यतस्तस्येन्द्रियाणि ह्यधिकाधिकं जागृतान्यभवन् । तानि बहु शिक्षितवन्ति ततोऽप्यधिकमनुभूतवन्ति च । वाणिज्यव्यापाराः कथं निर्वोढव्याः, जनानामुपरि कथमाधिपत्यमनुष्ठातव्यं, स्त्रीभिः सह कथं विलसितव्यमित्येतत् सर्वं तस्य सहजसाध्यं जातमासीत् । स उत्तमवस्त्राणि परिदधाति स्म, लघुलघुन्यपि कार्ये सेवकानादिशति स्म, सुगन्धितेन च जलेन स्नाति स्म । उत्तमतया संस्कृतं मिष्टान्नं मांसं स्वादूनि च व्यञ्जनानि भोक्तुं सुरापानं च कर्तुं तस्याऽभिरुचिर्वर्धते स्म, ततश्च प्रमादो विस्मृतिश्चाऽपि । विविधमनुष्याणां सङ्गत्या सोऽधुना द्यूतं चतुरङ्गं चाऽपि क्रीडितुं शिक्षितवानासीत् । नर्तकीनां नृत्याणि विलोकयितुं, शिबिकायामुपविश्य पर्यटितुं, कोमलतूलमयशय्यासु च शयितुं तस्मै रोचते स्म । किन्त्वेवंस्थितेऽपि स स्वमन्येभ्योऽतिशायिनं भिन्नं च मन्यते स्म सर्वदाऽपि । स सदैवाऽन्यान् Page #90 -------------------------------------------------------------------------- ________________ कयाचिदुपहासपूर्णया हीनदृष्ट्या पश्यति स्म; तया हीनदृष्ट्या, यया श्रमणः कश्चन सांसारिकजनान् पश्यति । ___ यदि कदाचित् कामस्वामी केनचित् कारणेनाऽस्वस्थो भवति स्म, अवमाननं चाऽनुभवेत्, अथवा वाणिज्ये काश्चन बाधाः प्राप्नुयात्, सिद्धार्थस्तमुपहसति स्मैव सर्वदा । किन्तु शनैः शनैरव्यक्ततयैव तस्याऽतिशयित्वबुद्धिरुपहासवृत्तिश्च क्षीणा जाता । प्रत्युत, यथा यथा तस्य भौतिकसमृद्धिर्वृद्धिङ्गतास्तथा तथा स सामान्यजनानां काश्चन लाक्षणिकता - बालिशताचित्तोद्विग्नताद्या अपि समासादितवान् । एवंसत्यपि स जनानसूयते स्म । यथा यथा स प्राकृतजनवदाचरति स्म तथा तथाऽधिकतया स तानसूयते स्म । तस्याऽसूयायाः कारणं त्वेकमेवाऽऽसीत् - यथा सामान्यजना स्वजीवनस्य महत्त्वमवगच्छन्ति, स्वीयान् हर्ष-शोकादीन् गाढतयाऽनुभवन्ति, अविरतानुरागस्य च मधुररसं सोत्कण्ठमास्वादयन्ति - तथा स कर्तुं न पारयति स्म । प्राकृतजना हि स्वयमेव स्वस्मिन् स्निह्यन्ति, स्वापत्यानि प्रीणन्ति, मानं धनं च सप्रतिबन्धं रक्षन्ति, भावियोजनां, सुखस्पृहां च साकाङ्क्षतया विचारयन्ति । किन्तु सिद्धार्थ एतत् सर्वं तेभ्यो न शिक्षितवान् - न च बालिशसुखानि नाऽपि च मूढताम् । प्रत्युत तेषां यानि लक्षणानि तस्याऽनभिमततया तिरस्करणीयान्यासन्, तान्येव सोऽनायासं शिक्षितवानात्मसाच्च कृतवान् । बहुधा भवति स्मैवं यत् - सविलासां रात्रि यापयित्वा प्रातःकाले चिराय स उद्वेगं श्रमं चाऽनुभवन् शय्यामेवाऽऽश्रयति स्म । यदि कदाचित् कामस्वामी स्वचिन्ताभिस्तं बाधते स्म तदा सोऽमर्षणो भवति स्म । यदा स द्यूते धनं हारयति स्म तदा स्वोद्वेगं निह्नोतुमुच्चैर्हसति स्म । पुरा हि तस्य वदनमन्यजनेभ्योऽधिकं चतुरमधिकं प्रज्ञाशालि प्रसन्नं च भासते स्म, किन्तु ८३ Page #91 -------------------------------------------------------------------------- ________________ गच्छता कालेन तस्य मुखे विलसमाना स्मितरेखाऽदृश्येव जाता, शनैः शनैश्च तस्य मुखे धनिकजनानामिव उद्वेगस्याऽसन्तोषस्याऽरुचेरप्रसन्नताया उदासीनताया नैष्ठुर्यस्य च भावाः समजायन्त । क्रमशो धनिकजनेषु व्याप्तमात्मदौर्बल्यं तच्चित्तमपि व्याप्तुमारब्धम् । खेदस्य सूक्ष्ममावरणं तन्मन आच्छादयितुं प्रारब्धम् । तच्च प्रतिदिनं किञ्चिद् गाढतरं, प्रतिमासं किञ्चन निबिडतरं, प्रतिवर्षं च किञ्चिद् गुरुतरं जायमानमासीत् । यथा नवं वस्त्रं कालात्यये जीर्णं, विवर्णं, मलिनं, सच्छिद्रं, जर्जरं च जायते तथैव गोविन्दाद् वियुक्तेरनन्तरं सिद्धार्थस्य नवं जीवनमपि गच्छता कालेन जीर्णमिव सञ्जातम् । वर्षेषु व्यतीतेषु तस्याऽपि वर्णो दीप्तिश्च क्षीणे जाते । वलिभिर्मलचित्रैश्च तन्मलीमसमिवाऽभवत् । अन्तःस्थिते भ्रान्तिजुगुप्से यदा-कदाचिदपि प्रकटीभवतः स्म । किन्तु सिद्धार्थ एतत्सर्वं नैव निरैक्षत । तस्य निरीक्षणे केवलमेतदेव समागतं यदेकदा येन विशदेन परिस्फुटेन चाऽऽन्तरध्वनिना स जागरित आसीत्, तस्योत्कृष्टे समये यो मार्गदर्शक आसीत् स ध्वनिरद्य सर्वथा क्षीणो विरतश्च जातोऽस्तीति । संसारस्तस्य चित्तवृत्ताविदानीमाधिपत्यं करोति स्मेव । भोग-विलासाः, लोलुपता, कार्यवैमुख्यमित्यादयस्तु तज्जीवनं दूषयति स्मैव, किन्तु यं दोषं स स्वयमेव सर्वदाऽतीव धिक्करोति स्म स एव दोषः परिग्रहोऽपि तच्चित्तमभिव्याप्य स्थित आसीत् । सम्पत्तिः, अधिकार ऐश्वर्य - मित्यादि सर्वमपि शनैः शनैस्तं स्ववशे स्थापयति स्म । इदानीं तत् सर्वमपि तस्य कृते क्रीडामात्रं क्रीडनकं वा नाऽऽसीत् प्रत्युत बन्धनं भारभूतं चाऽभवत् । चित्रं त्वेतद् यदुत्पथगामित्वमाश्रित्य स सर्वतोऽप्यधमां व्यसनेषु निष्ठारूपां द्यूतक्रीडां कर्तुमारब्धवान् । = 1 ८४ Page #92 -------------------------------------------------------------------------- ________________ यदारभ्य सिद्धार्थो हृदयेन श्रामण्यं त्यक्तवान् तत्प्रभृति, यस्यां क्रीडायां पुरा स जनानुरोधेन तदुपहासपूर्वकं प्रावर्तत तस्यामेव द्यूतक्रीडायां स धनालङ्कारादिप्राप्त्यर्थमतीवोत्कटतया क्रीडितुमारब्धः । सोऽतीव दुर्धर्षोऽक्षक्रीडक आसीत् । तेन सह क्रीडितुं न कश्चन प्रभवति स्म, यतस्तस्य पणा उदग्रा साहसयुताश्चाऽऽसन् । स स्वमनस्तापं शमयितुमिव क्रीडति स्म । धनस्याऽतिव्ययेन छूते च निरर्गलं देवनेन तस्योत्कटं सौख्यं भवति स्म, यतो धनिकानामाराध्यदैवतरूपं धनं धनिकांश्च व्यक्ततयोपहासपूर्वकं चाऽवहेलियतुं तस्य पार्वे नाऽन्यः कश्चन उपाय आसीत् । अतः स उदग्रतया पणान् कुर्वन् स्वमन्यांश्चोपहसन् क्रीडंश्च सहस्रशो धनं जयति स्म हारयति स्म चाऽपि, धनमलङ्कारान् गृहाणि - सर्वमपि पणीकुर्वन् वारं वारं जयति स्म हारयति स्म वा । एतस्य मुख्यं कारणं त्वेकमेवाऽऽसीत् - एवंरीत्याऽनिश्चितक्रीडनेन यत् प्रबलं क्रूरं च चित्तौत्सुक्यं जायते स्म तत् तस्य सुखप्रदं भाति स्म । एतच्चित्तौत्सुक्यपूर्ण संवेदनं तस्मै अतितरां रोचते स्म, तच्च संवेदनं नवनवतयाऽनुभवितुं, वर्धयितुं, समुद्दीपयितुं स सातत्येन प्रयतते स्म । यतः स्वीयेऽतितृप्ते, मर्यादिते. नीरसे च जीवितेऽनेन संवेदनेनैव केवलं स यत्किञ्चित् सुखं, यत्किञ्चिदुत्तेजनं, यत्किञ्चिच्च तीव्रतरं जीवनानन्दमनुभवितुं शक्त आसीत् । यदा यदा च सोऽतिप्रमाणं धनं हारयति स्म तदा तदा स नूतनं धनमर्जयितुं, सोत्कण्ठं वाणिज्ये प्रवर्तितुं, स्वीयानधमांश्च धनप्रत्यर्पणार्थं कठोरतया प्रेरयितुमारभते स्म, यतो यया कयाऽपि रीत्या धनमुपाय॑ स पुनरपि द्यूतं क्रीडितुमिच्छति स्म, पुनरपि महापणान् कर्तुमिच्छति स्म, पुनरपि चाऽधिकतया धनस्य तिरस्कारं प्रदर्शयितुमिच्छति स्म । Page #93 -------------------------------------------------------------------------- ________________ क्रमशः सिद्धार्थो द्यूते धनहानेरधीरो जायते स्म, अधमर्णैर्ऋणेऽप्रत्यर्पिते विलम्बेन वा प्रत्यर्पितेऽमर्षणो भवति स्म, भिक्षुकान् प्रति सोऽधुना दयावान् नाऽऽसीत्, दीनानसहायांश्च दानं दातुं सहायं च कर्तुं सोऽधुना नेच्छति स्म । एकैकस्मिन् पणे यो लक्षमितं धनमपि पणीकरोति स्म स वाणिज्ये लघुन्यपि व्यवसाये कठोरः स्वार्थी च भवति स्म कदाचिच्च स्वप्नेऽपि धनमेव पश्यति स्म ।। ___ यदा हि कदाचित् सोऽस्मात् शापरूपात् संमोहनात् जागरितो भवति स्म, दर्पणे च प्रतिबिम्बितं स्वीयं जर्जरं विरूपं च जायमानं मुखं पश्यति स्म, यदाऽपि च लज्जा जुगुप्सा च तन्मनो व्याप्नोति स्म, तदा स पुनरपि द्यूतगृहं प्रति धावति स्म, लक्षान् पणीकरोति स्म, विलासितायां मत्तः सन् सुरापानं करोति स्म । ततश्च पुनरपि धनार्जनार्थं तत्सङ्ग्रहणार्थं चोत्कटतया प्रवर्तते स्म । अस्मिन् अर्थहीने विषचक्रे भ्रामं भ्रामं जर्जरीभूतः सोऽकालेऽपि जीर्णो रुग्णश्च जात आसीत् । अथैकदा स्वप्नैकेन स प्रबोधितः । तद्दिने सायं स कमलया सह तस्याः क्रीडोद्याने तरोरध उपविश्य वार्तालापं कुर्वन्नासीत् । कमला गभीरतया वदति स्म तदा । तस्याः शब्देषु व्यथा खेदश्चाऽनुभूयेते स्म । तया सिद्धार्थस्य गौतमबुद्धविषयकाः प्रश्नाः पृष्टाः, यथा – तस्य लोचने कियती निर्मले आस्ताम् ? तस्य मुखं कथं शान्तिपूर्ण सुन्दरं चाऽऽसीत् ? स्मितं च कथं प्रसादपूर्णमासीत् ? तस्य च समग्रोऽपि व्यवहारः कथमुपशान्त आसीत् ? – इत्यादि । सिद्धार्थप्रदत्तानुत्तरान् श्रावं श्रावमपि सा तृप्तिं नैव प्राप्ता । सिद्धार्थेन चिराय महात्मनो बुद्धस्य वर्णनं कर्तव्यमभवत् । ततो दीर्घं निःश्वस्य कमलयोक्तं - 'ममेदं प्रतिभाति यदेकदा, शीघ्रमेव, अहं बुद्धभगवतोऽनुयायिनी भिक्षुणी Page #94 -------------------------------------------------------------------------- ________________ भविष्यामि । इदं क्रीडोद्यानमपि तस्यैव समर्प्य तत्सङ्घस्य शरणं च गृहीत्वा तदुपदेशानुसारं जीविष्यामि' । ततः सा सिद्धार्थं तीक्ष्णकटाक्षेन प्रलोभयित्वाऽत्यन्तासक्ततयोत्कटतयोग्रतया च तं समालिङ्ग्य रन्तुमारब्धा । साऽद्याऽस्य क्षणिकसुखस्याऽन्तिमं मधुबिन्दुं समास्वादितुमिच्छति स्मेव । इतः पूर्वं, कामासक्तेर्मृत्योश्चैतावान् गाढः सम्बन्धोऽस्तीति सिद्धार्थेनैवंस्पष्टतया न कदाऽप्यनुभूतमासीत् । ततः स तस्याः पार्वे शयितवान्, तस्याश्च मुखं तन्मुखासन्नमेवाऽऽसीत् । तस्या नेत्रयोरधः, ओष्ठप्रान्तयोश्च तेनैदम्प्राथम्येन व्यक्ततया वल्यश्चर्म सङ्कोचाश्च परिलक्षिताः, यैहि जरा-वार्धक्ययोः स्पष्टः सङ्केतो दीयते स्म । सिद्धार्थः स्वयमपि, योऽद्याऽपि चत्वारिंशद्वर्षदेशीय आसीत्, स्वकेशेषु पलितान् लक्षितवानासीत्, तेन कमलायाः सुन्दरे मुखेऽप्यद्याऽवसादो दृष्टः । यस्मिन् पथि सुखदमवसानं नाऽऽसीत्, तत्र च प्रवासेनाऽऽयातं केवलं श्रान्तत्वं, जरसो विषादस्य चैव सङ्केताः, प्रच्छन्नमनिदिष्टं प्रायश्चाऽव्यक्तं भयं - जीवनसन्ध्याया भयं, वार्धक्यस्य भयं, मृत्योश्च भयमवसादश्च सिद्धार्थेन कमलाया वदने दृष्टः । दीर्घं निःश्वस्य सिद्धार्थस्तामापृच्छ्य ततो निर्गतः । तस्य हृदयं विषादेन निगूढभयेन च पूरितमासीत् । स्वगृहं गत्वा सिद्धार्थेन सा रात्रिः सुरापानेन सह नर्तकीनां सान्निध्ये यापिता । स्ववयस्येभ्यः स्वयं श्रेष्ठो नाऽऽसीत् तथाऽपि तेन श्रेष्ठताया अभिनयः कृतः । प्रचुरं मद्यं पीत्वा मध्यरात्रेऽतीव श्रान्तोऽपि सन् चित्तेऽविरतं प्रवर्तमानेन द्वन्द्वेनाऽत्यन्तमुद्विग्नः, ततश्चाऽश्रुपूर्णलोचनो विषण्णहृदयश्च स शयितुं गतः । हृदयं तस्य दुःखेन तथा सन्तप्तमासीत् यथा तेनाऽनुभूतं यत् स इतोऽपि तत् सोढुं शक्तो न स्यात् । अस्वादुमद्यपानं, अगभीरस्याऽपि ८७ Page #95 -------------------------------------------------------------------------- ________________ अतिमधुरस्य सङ्गीतस्य श्रवणं, नर्तकीनां सौगन्ध्यातिरेकयुतकेशादीनामाघ्राणं च यथा हठान्मनो व्याप्नोति तथा ततोऽपि वाऽधिकया जुगुप्सया तन्मनो व्याप्तमासीत् । एतेषां सर्वेषामुपरिष्टाच्च स स्वात्मनैवाऽधिकं जुगुप्सित आसीत्, तस्य सुगन्धाः केशाः, सुरापानेन दुर्गन्धपूर्णं मुखं, शैथिल्यं प्राप्ता च त्वक् - एतत् सर्वमपि तस्य जुगुप्सां वर्धयति स्म । यथा कश्चन भोजनपानातिरेकाद् व्याकुलः सन् वमनेनैव शान्ति सौख्यं चाऽनुभवति तथा सोऽपि सर्वाण्यपीमानि भौतिकसुखानि, व्यसनानि, सर्वथा निश्चेतनं चेदं जीवनमेकेनैव प्रचण्डेनोत्सारणेन वान्त्वा सुखी स्वस्थश्च भवितुमिच्छति स्म सर्वात्मना । एवमेव व्याकुलतयाऽनिद्रित एव रात्रिं यापयित्वा प्रत्यूषे किञ्चन सुप्तवान् । तस्यां क्षणिकतन्द्रायां स स्वप्नमेकं दृष्टवान् ।। ___ कमला स्वगृहे सुवर्णमये पञ्जरे मधुरगानमेकं पक्षिणं पालितवत्यासीत् । सिद्धार्थः स्वीये स्वप्ने तमेव पक्षिणं दृष्टवान् । तेन दृष्टं यत् प्रत्यहं प्रातःकाले गायन्नयं पक्षी अद्य सहसा अवाक् जातोऽस्ति । एतेन विस्मितः स सुवर्णमयं पञ्जरमुद्घाट्य यावत् पश्यति स्म तावत् स पक्षी मृतो दृष्टः । स तं पक्षिदेहं स्वहस्तेन गृहीत्वा क्षणं च निरीक्ष्य दूरं प्रक्षिप्तवान्, तत्क्षणमेव च यथा तेन किञ्चन श्रेष्ठं बहुमूल्यं च वस्तु अपि पक्षिणा सह प्रक्षिप्तमिव मन्वानः स भयकम्पितो जातः स्वीयहृदये चाऽकथ्यं दुःखमनुभूतवान् । एनं स्वप्नं दृष्ट्वा सहसा जागरितः स महति विषादे निमग्न आसीत् । स्वीयं सर्वमपि जीवनं तेनाऽसारतया निरर्थकं च व्ययितं, जीवनात् स न किञ्चिदपि फलं सारं मूल्यं वा निर्वृहितवान् - इति सोऽनुभवन्नासीत् । तस्य प्रतिभातं यत् पोतभङ्गेन सर्वमपि विनाश्य सर्वथैकाकी तटे पतितो जन इव ८८ Page #96 -------------------------------------------------------------------------- ________________ सोऽप्येकाकी जातोऽस्ति । एवं विषण्णः सिद्धार्थः स्वीयं क्रीडोद्यानं प्राप्तः, द्वारं पिधाय च सहकारवृक्षस्याऽधस्तादुपविष्टः । तस्य हृदयं मृत्युभयेन ग्रस्तमासीत् । कञ्चित् कालमेवमेव यापयित्वा स विचारयितुमारब्धः । यदारभ्य तस्य स्मर्यते स्म तत् सर्वं स विचारयात्रया निरीक्षितवान् । “कदा किल स याथार्थ्येन सुख्यासीत् ? कदा किल वस्तुतस्तेनाऽऽनन्दोऽनुभूत आसीत् ? आम्, स्मृतम् ! नैकवारं स सुखमानन्दं चाऽनुभूतवानासीत् । यदा स तारुण्ये वर्तमानो विविधान् विषयानधीत्य ब्राह्मणानां प्रशंसां प्राप्तवान्, स्वीयान् समयवयस्कान् दूरमतिक्रान्तवान्, सामगाने सर्वेभ्योऽपि प्रकर्षं प्राप्तवान्, पण्डितैः सह वादं कृतवान्, यागादिषु च स्वपित्रादीनां साहाय्यं कृतवान् तदा तस्य मनः सुखेनाऽऽनन्देन च व्याप्तमासीत्" । "तदात्वे तेन स्वहृदयगह्वरेऽनुभूतमासीद् यत् - त्वत्कृते एष एव पन्था अनुसरणीयतया विद्यते । अस्मिन्नेव पथि देवास्त्वां प्रतीक्षन्ते - इति"। ___ "ततो यौवनेऽपि यदाऽनवरतमूर्ध्वगमनाय प्रेरयताऽनेनैव हृदयाशयेन स सब्रह्मचारिणां यूथाद् बहिनिर्गतः, यदा ब्राह्मणानामुपदेशान् बोद्धं स दृढतया प्रयतितवान्, यदा च प्रत्येकं नूतनो बोधो नूतनतमबोधप्राप्तेरेवाऽभीप्सां तस्मिन् जनयति स्म तदा पुनरपि, प्रयत्नानामेषां मध्येऽभीप्सानां चाऽऽसां मध्येऽपि तस्याऽन्तःकरणं वदति स्म – 'अग्रेसरो भव, अग्रेसरो भव, अयमेव तेऽध्वा' - इति । यदाऽपि स गृहं त्यक्त्वा श्रमणीभवितुं निर्गतस्तदाऽप्ययमेव ध्वनिस्तस्य हृदयाकाशे गुञ्जति स्म । ततः पुनरपि यदा स श्रामण्यमुत्सृज्य पूर्णपुरुषस्य बुद्धस्य पार्वे गतस्तदाऽपि स एव ध्वनिस्तं जागरयति स्म । प्रान्ते च तमपि ८९ Page #97 -------------------------------------------------------------------------- ________________ विहाय यदा सोऽज्ञातं प्रदेशं प्रति प्रस्थितवान् तदाऽप्ययमेव ध्वनिस्तस्य चित्ते प्रतिध्वन्यते स्म । “किन्तु, अद्य कियान् कालो व्यतीतस्तं ध्वनिं श्रुत्वा ? कियतो दीर्घकालात् तेन नवं किमपि लक्ष्यं न प्राप्तमासीत् ? आ बहोः कालात् तस्य जीवनपथः कथं नीरस उत्सन्नश्च सञ्जात आसीत् !! कियन्तो वत्सरास्तेनोन्नतध्येयविहीनतया, उत्कटाभीप्साशून्यतया, उत्कर्षलेशमप्यप्राप्य व्ययिता आसन् ? केवलं कानिचन लघुलघूनि कुसुखानि प्राप्य हृष्टेनाऽपि सर्वथाऽतृप्त्या !! किमप्यबुध्वैव तेन प्राकृतजनवत् कार्याणि कृतानि, बालवदभिलाषशतानि चिन्तितानि पूरितानि चेयन्ति वर्षाणि ! तथाऽपि प्राकृतजनेभ्यो बालेभ्यश्चाऽपि सकाशात् तस्य जीवनं निकृष्टं तुच्छं च सञ्जातमासीत्, यतस्तेषां प्राप्तव्यानि तस्य लक्ष्येभ्यः सकाशात् भिन्नान्यासन्, एवं तेषां दुःखानि चाऽपि तस्य नाऽऽसन् ! " कामस्वामिसदृशजनानां सम्पूर्णमपि जगत् तस्य कृते क्रीडामात्रं, नाट्यमात्रं, प्रहसनमात्रमासीत् । केवलं कमलैव तस्य प्रियतमाऽऽसीत्, तस्याः कृते एव तन्मनसि समादर आसीत्, किन्तु किं साऽपि शाश्वताऽऽसीत् ? किमद्याऽपि सा तस्याऽपेक्षिताऽऽसीत् ? स वाऽपि च तस्याः कृतेऽपेक्षणीय आसीद् वा ? किं तयोः निरर्थिकायाः क्रीडायाः कदाचिदप्यन्त आसीद् वा ? किं तस्याः क्रीडायाः कृते एव जीवनीयमासीत् खलु ? नैव !! यत एषैव क्रीडा संसारपदवाच्याऽऽसीत्, बालानां क्रीडैषा, या हि सुखदाऽऽसीत् यदि परं द्वित्रवारं दशवारं वा क्रीडिता, किन्तु निरन्तरं तस्याः क्रीडनं किमुचितमासीत् खलु ? सिद्धार्थेनाऽवबुद्धं यदधुना क्रीडैषा समाप्तिं गताऽस्ति । अधिकक्रीडनमशक्यमेवाऽतः परम् । तस्य शरीरे आपादमस्तकं कम्पनं जातम् । किञ्चिन्मृतं तस्याऽन्तःकरणे इवाऽपि तेनाऽनुभूतम् । ९० Page #98 -------------------------------------------------------------------------- ________________ तस्मिन्नहनि आदिनं सहकारवृक्षस्याऽधस्तादेवोपविश्य स स्वपितरं, गोविन्दं, गौतमबुद्धं च विषयीकृत्य चिन्तनं कृतवान् । 'किं तेन कामस्वामीभवितुमेते सर्वेऽपि त्यक्ता आसन् वा ?' स तत्रैवोपविष्ट आसीद् यावदन्धकारः प्रसृतः । यदा स उपरि दृष्टवान् तदा तेन नीले नभोविताने प्रकाशमाना नक्षत्र-तारका विलोकिताः । तेन स्मृतं – 'अहो ! अहमत्र मम क्रीडोद्याने मदीयसहकारवृक्षस्याऽध उपविष्टोऽस्मि' । तस्य वदने स्मितमुल्लसितम् । 'किं तदावश्यकमासीत् ? किं तदुचितमासीत् ? अथवा किं तन्मौर्यपूर्णं नाऽऽसीद् यत् कस्यचित् क्रीडोद्यानस्य तथा तदन्तःस्थितस्याऽऽम्रवृक्षस्य स्वाम्यं स धारयति स्मेति ?' अनेन विचारेण स तत्र पूर्णविरामं स्थापितवान् । तेनाऽनुभूतं यदेतदपि मृतं तस्याऽन्तः । स उत्थितवान् । सहकारतरुं क्रीडोद्यानं च 'स्वस्ति ते भूया'दिति सम्भाव्य ततो निर्गतवान् । तस्मिन् दिने स किमपि न खादितवानासीत् अतः स क्षुधातुरो जातः सन् स्मृतवान् यत् तन्नगरे तस्य गृहमप्यस्ति यत्र सर्वमप्याहारजातं विद्यतेऽन्यदपि वस्तुजातमस्तीति । पुनरपि स म्लानं स्मितवान्, मस्तकं च विधूय मनसैव तत् सर्वमपि गृहादि-वस्तुजातं सम्भावितवान् । अथ च तस्यामेव रात्रौ सिद्धार्थः सर्वमपि त्यक्त्वा नगरान्निर्गतः सन् पुनर्न कदाऽपि प्रत्यागतः । कामस्वामी चिराय तमन्विष्टवान्, कदाचित् स लुण्टाकैरपहृतः स्यादिति मत्वा; किन्तु कमलया तमन्वेष्टुं न कोऽपि प्रयत्नः कृतः । किं बहुना ? सिद्धार्थः कुत्रचिद् गतवान् - इति तया यदा ज्ञातं तदा तयाऽऽश्चर्यमपि नाऽनुभूतम् । तया आसिद्धार्थमेलनकालात् तदपेक्षितमेवाऽऽसीत् । यतः सा जानाति स्मैव यत् तस्य मूलं तु श्रामण्य एव प्रतिष्ठितमासीत्, गृहत्यागः, यात्रा, भ्रमणमित्यादिकं Page #99 -------------------------------------------------------------------------- ________________ तस्य सहजमेवाऽऽसीत् । एतच्च तथ्यं तया सिद्धार्थस्याऽन्तिमे समागमे सर्वतोऽप्यधिकतयाऽनुभूतमासीत् । सिद्धार्थस्य गमनात् सञ्जाते दुःखेऽपि तया तस्याऽन्तिमस्य मिलनस्य, गाढमालिङ्गनस्य, रतिक्रीडायां च तेन स्वोपरि प्राप्तस्य प्रभुत्वस्याऽऽनन्दोऽद्याऽपि अनुभूयते स्म । किञ्च, यदा तयैदम्प्राथम्येन सिद्धार्थगमनवार्ता श्रुता तदा सा यत्र गवाक्षे सुवर्णपञ्जरस्थो गायकः पक्षी समासीत् तत्र गत्वा सुवर्णपञ्जरमुद्घाटितवती पक्षिणं च बहिनिष्कास्य मुक्ताकाशे उड्डायितवती । ततश्चिराय सा तं पक्षिणमदृश्यीभवन्तं निरीक्षितवती। अथ च तस्मादिनात् साऽऽगन्तुकानां कृते स्वगृहद्वाराणि पिहितवती । कैश्चिद् दिवसैः साऽवगतवती यत् सिद्धार्थस्याऽन्तिमसमागमेन साऽपत्यं प्रसविष्यतीति । Page #100 -------------------------------------------------------------------------- ________________ PS: 多 大一 Page #101 --------------------------------------------------------------------------  Page #102 -------------------------------------------------------------------------- ________________ ४. नद्यास्तीरे नगराद् दूरं गतः सिद्धार्थोऽटव्यामितस्ततो परिभ्रान्तवान् । स्वमनसि तेन निर्णीतमासीत् – इतः परं तस्य तत्र निवर्तनं न भविष्यतीति । यज्जीवनं तेन वर्षाणि यावद् नगरे यापितं यदास्वादश्च केवलं निर्वेद एव विपरिणत आसीत् तदधुनाऽतीते परावृत्तमासीत् - बाष्पीभूतमासीत् । गायकः पक्षी मृत आसीत् । यस्य पक्षिणो मरणं तेन स्वप्ने दृष्टमासीत् स तु तद्धृदय एव वसति स्म । संसारस्य कर्दमे स आकण्ठं निमग्नो जात आसीत् । सर्वतो जलशोषकस्य चूषक(sponge)स्येव तेन सर्वतो निर्वेदः खेदो मरणं चैव समाकृष्टान्यासन् । इदानीं स सर्वतोऽवसादेन, सर्वतो दुःखेन सर्वतश्च मृत्युनाऽऽक्रान्त आसीत् । जगति तादृशं किञ्चिदपि नाऽऽसीद् यत् किल तमाकृषेत्, सुखिनं कुर्यात्, आश्वासनं वा दद्यात् तस्मै । इदानीं स उत्कटतया विस्मृतिं वाञ्छति स्म, चिरविश्रान्तिमिच्छति स्म, मरणं चाऽभिलषति स्म। यदि कथञ्चित् तन्मस्तकोपरि विद्युदापतेत्, व्याघ्रो वा कुतश्चिदागत्य तं भक्षयेत्, अथवा किञ्चन मद्यं किञ्चिद् वा विषं स्यात् यत् तस्मै विस्मरणं दद्यात्, सर्वथा स्मृतिभ्रंशं कुर्यात् चिरनिद्रायां वा धारयेत् यतो न कदापि जागरणं स्यात् तादृशं किञ्चित् स इच्छति स्म । किं तादृशं किञ्चिद् दूषणमासीत् खलु येन स नाऽनुलिप्तो जातः ?, तादृशं पापं मूर्खत्वं वाऽऽसीत् यत् तेन नाऽऽचरितं स्यात्, तदात्मनि तादृशः कश्चन कलङ्क आसीत् यत्कृते स स्वयमेवोत्तरदायी न स्यात् ? । एवं स्थितेऽपि किं जीवितं धारयितुं शक्यमासीत् ? किं पुनः पुनः श्वसनमपि शक्यमासीत् खलु ? ९५ Page #103 -------------------------------------------------------------------------- ________________ अस्यां परिस्थितौ उच्छ्वसनं, निःश्वसनं, क्षुदनुभवनं, तच्छमनं, शयनं, स्त्रीसेवनं - किमेतद् दुश्चक्रं पुनः पुनरावर्त्तयितुं शक्यमासीत् ? एतत् सर्वमपि तत्कृते क्षीणं समाप्तं वाऽऽसीत् । सर्वथा हताशः सिद्धार्थो गहनेऽरण्ये भ्राम्यन् तस्या एव दीर्घाया नद्यास्तीरं प्राप्तो यस्यामेकदा यौवने गौतमबुद्धसकाशान्निर्गतः स नाविकेनैकेनोत्तारित आसीत् । स तत्राऽऽगत्य साशङ्क इव स्थितः । अवसादेन क्षुधा च स सर्वथा क्लान्त आसीत् । इतोऽप्यग्रे तेन किमर्थं गन्तव्यं ? कुत्र वा ? केन वा प्रयोजनेन ? नैव, तस्य दुःखदस्य स्वप्नस्य निर्धूननादन्यत्, तस्याः पर्युषिताया मदिराया वमनादन्यत्, कटुकस्य व्यथापूर्णस्य जीवनस्योत्सर्जनाच्चाऽन्यत् तस्य मनसि न किमपि प्रयोजनं महेच्छा वाऽऽसीत् । नद्यास्तटे एको नालिकेरवृक्ष आसीत् । तस्य स्कन्धं हस्तेनाऽवलम्ब्य स तत्रैवोपविष्टः । तस्य दृष्टिः पुरतः प्रवहमाने हरितवर्णे नदीनीरे आसीत् । अनिमेषनयनाभ्यां तद् विलोकमानस्य तस्य मनः पूर्णतया केवलमेकेनैवाऽभिलाषेण पूरितमासीत् - नद्यां कूदित्वा जले निमज्जनेन स्वात्मनो विलयस्य ! । स्वात्मनि अनुभूयमाना दारुणा शून्यता किलेदानीं नदीजलस्य शीतलशून्यतायां प्रतिबिम्बते स्म तस्य । आम् ! अधुना स पर्यवसाने आगत्य स्थित आसीत् । तस्य कृते इदानीं स्वात्मन एवोन्मूलनम्, अकृतार्थसंरचनस्य स्वजीवनस्य विनाशनं, प्रक्षेपणं च विनाऽन्यत् किमपि नाऽवशिष्टमासीत् । तेनाऽनुभूतं यद् देवा अपि तमुपहसन्ति स्माऽधुनेति । अतः स्वात्मनो विनाश एव तस्य गतिरस्तीति चिन्तयति स्म सः । कामं मत्स्या मकरा अन्ये जलचराश्च तस्य शरीरं भक्षयन्तु नाम, सिद्धार्थनामकस्य शुनः शरीरं, एतस्योन्मत्तस्य, भ्रष्टस्य दुष्टस्य च शरीरं, एतस्य प्रमादिनोऽपव्ययिनश्चा ९६ Page #104 -------------------------------------------------------------------------- ________________ ऽऽत्मनः शरीरम् ! कामं च राक्षसा तच्छरीरं खण्डखण्डीकुर्वन्तु नाम ! ततो विकृतेन मुखभावेन स जले दृष्टिं प्रासारयत् । तत्र च स्वमुखं प्रतिबिम्बितं विलोक्य स थूत्कृतवान् । ततो हस्तेन गृहीतं वृक्षावलम्बनं त्यक्त्वा स किञ्चित् परावृत्तः, येन कूदित्वा जले आपादमस्तकं पतेत्, नदीतलं च प्राप्नुयात् । ततः कूदितुं स किञ्चिदवनतः, अक्षिणी निमीलितवान् - मरणमभिमुखमासीत् !! अथ तावता, तस्याऽन्तःकरणस्य गहनतमप्रदेशात्, तस्य श्रान्तजीवनस्याऽतीतं भित्त्वा, स कञ्चन ध्वनि श्रुतवान् । केवलमेक एव शब्द आसीत्, अथवा केवलमेकमेवाऽक्षरमासीत्, यच्च स किमप्यविचिन्त्याऽस्पष्टतयोच्चारितवान् । तदासीत् सर्वेषामपि प्राचीनानां वेदमन्त्राणामादिरन्तश्च - ओम् - इति, यस्याऽर्थ आसीत् पूर्णः, पूर्णत्वं वा । यस्मिन् क्षणे ओम्-इति ध्वनिस्तस्य कर्णगोचरीभूतस्तस्मिन्नेव क्षणे तस्य प्रसुप्त आत्मा जागरित इवाऽभवत्, स च सहसा स्वचेष्टिते निहितं मौख्यं ज्ञातवान् । एतेन सोऽत्यन्तं सन्त्रस्तोऽभवत् । अहो ! एतदर्थं सोऽत्राऽऽगत आसीत् ! स तथा मूढो जात आसीत्, तावान् व्याकुलोऽभवत्, तावांश्च शून्यचित्तो जातो यथा मृत्युमेवाऽभिकाङ्क्षन् स इहाऽऽगत आसीत् खलु ! बालिशतापूर्णैषाऽऽकाङ्क्षा तस्य चित्ते तथा प्रबलाऽभवत् यथा स शरीरं नाशयित्वा शान्ति प्राप्तुमिष्टवान् । किन्तु यदा 'ओम्'कारस्तस्य चैतन्यं व्याप्नोत्, स स्वीयं क्षुद्रत्वं दोषं च ज्ञातवान् तदा तन्मनसि प्रकटितः सर्वोऽपि सन्तापः, सर्वोऽपि मोहः, सर्वाऽपि च निराशा निष्प्रभावा अभवन् । पुनरपि तेन हृदय एव ओङ्कारस्य नादः कृतः फलतः Page #105 -------------------------------------------------------------------------- ________________ परमब्रह्मणः शाश्वतचैतन्यस्य च भानं तस्याऽभवत् । यत् सर्वमपि दिव्यं स विस्मृतवानासीत् तत् सर्वमपि चेदानीं तस्य स्मृतिपथे पुनरवतीर्णम् । किन्त्वेतदपि भानं क्षणिकमेवाऽऽसीत् । यतोऽतीव परिश्रान्तः सिद्धार्थो नालिकेरवृक्षमवलम्ब्य तत्रैवोपविष्टः । तत ओङ्कारमेव जपन् स वृक्षमूले शीर्ष स्थापयित्वा गाढनिद्रया प्रसुप्तवान् । तस्य निद्रा गहना स्वप्नरहिता चाऽऽसीत् । दीर्घकालादेव स एवं नैव सुप्तवान् कदाचित् । यदा स जागृतस्तदा बहूनि वर्षाणि व्यतीतानीव प्रतिभातं तस्य । प्रवहतो जलस्य मृदुनिनादं स श्रुतवान्, किन्तु स न स्मृतवान् यत् कुत्र स इदानीमासीत्, नाऽपि, कथं सोऽत्राऽऽगतः - इति । स यदा उपरि दृष्टवान् तदा वृक्षान् नीलवर्णं चाऽऽकाशं दृष्ट्वा विस्मितोऽभवत् । ततश्च तेन स्मृतं यत् कुत्र सोऽस्ति कथं चाऽत्राऽऽगतः इति । अस्मिंश्च स्मरणे तस्य भूयान् समयो व्यतीतः ।। तस्याऽतीतं जीवनमिदानीमत्यन्तं दूरवर्तीव घनावरणाच्छादितमिव सर्वथा महत्त्वशून्यमिव चाऽभासत। एतावदेव तस्य ज्ञातं यत् तत् पूर्वतनं जीवनं (यस्मिन् क्षणे स जागृतोऽभवत् तस्मिन् क्षणे तस्य पूर्वतनं जीवनं वर्तमानस्वत्वस्य बहुदूरवर्ति जन्म इवाऽभासत) समाप्तमिदानीं, यत् केवलं निर्वेदपूर्ण निकृष्टतमं चाऽऽसीत्, यच्च स विनाशयितुमेवेष्टवान्, किन्तु तदर्थमिह नद्यास्तीरे नालिकेरवृक्षस्याऽधस्तात् समागतः सोऽकस्मात् पवित्रं मन्त्राक्षरम् 'ओम्' इति उच्चारयन्नेव सर्वमपि विस्मृत्य गाढनिद्रायां सुप्तवान् । जागृतश्च सन् पुनर्जन्म प्राप्त इव जगदिदं नवागन्तुक इव वीक्षितवान् । पुनरपि स मृदुतया ओम् - इत्युच्चारितवान् । तस्य ९८ Page #106 -------------------------------------------------------------------------- ________________ प्रतिभातं यत् समग्रेऽपि निद्राकाले ओम्-जपस्तन्मनसि वरीवर्तित एव, ओङ्कारस्यैव विचारः, नाम-रूपरहिते दिव्ये ओङ्कार एव निमज्जनं व्यापनं चाऽपि । कीदृशमद्भुतं स्वपनं तद् आसीत् । कदाऽपीदृशी निद्रा तेन नाऽनुभूता यया एतावानाह्लाद एतावन्नवजीवनं एतावच्चाऽऽप्यायनं प्राप्तं स्यात् । किं स वस्तुतो नद्यां निमज्ज्य मृत्यु प्राप्तः, पुनश्च नवावतारेणाऽत्रोपस्थित आसीद् वा ? नैव, स स्वं प्रत्यभिज्ञातवान्, स स्वीयं हस्त-पादं प्रत्यभिज्ञातवान्, स तत्स्थलमपि प्रत्यभिज्ञातवान् यत्र स शयित आसीत् तथा स स्वहृदयस्थं सिद्धार्थं - स्वैरिणं विलक्षणं सिद्धार्थं चाऽपि प्रत्यभिज्ञातवान् । किन्त्वयं - प्रस्तुतः सिद्धार्थस्तु किञ्चिदिव परावृत्तः पुननवीभूतश्चाऽऽसीत् । नूनं सोऽद्भुततया शयितवान्, ततश्च विशेषतो जागृतः प्रसन्नो विस्मयमुग्धश्चाऽऽसीत् । यदा सिद्धार्थ उत्थितस्तदैव तस्य दृष्टिः पुरत उपविष्टे काषायवस्त्रधारिणि मुण्डितशिरसि साधौ पतिता, यः किल विचारमग्न आसीत् । केश-श्मवादिरहितं तं वीक्ष्याऽचिरमेव स प्रत्यभिज्ञातवान् यदयं मे बाल्यकालीनः सुहृद् गोविन्दोऽस्ति यो हि महात्मनो बुद्धस्य सङ्के भिक्षुत्वं स्वीकृतवानासीत् । यद्यपि सोऽपि वयस्को जात एव तथाऽपि तस्य वदने पुरा विलसन्ति लक्षणानि साम्प्रतमपि विलोक्यन्ते स्मैव, यथा - औत्सुक्यं, निष्ठा, जिज्ञासा, व्यग्रता च । किन्तु यदा गोविन्दस्तस्य दृष्टिपातमनुभूय स्वनेत्रे उन्मीलितवान् तं च दृष्टवान् तदा सिद्धार्थेनाऽवगतं यद् गोविन्दस्तं नैव प्रत्यभिज्ञातवान् - इति । गोविन्दस्तु तं जागृतं दृष्ट्वा प्रसन्नोऽभवत् । यद्यपि स तं नैवाऽभिज्ञातवान् तथाऽपि एतत्तु स्पष्टमासीत् यत् स तस्य जागरणमेव प्रतीक्षमाणश्चिरादुपविष्ट Page #107 -------------------------------------------------------------------------- ________________ आसीत् । 'अहं निद्रायमाण आसम् । किन्तु भवानत्र कथमागतः ?' - सिद्धार्थोऽप्राक्षीत् । गोविन्द उत्तरितवान् – 'भवान् निद्रालीन आसीत् । किन्त्वरण्येऽस्मिन् श्वापदसर्पाद्याकुले एवं निद्रातुं नैवोचितम् । अहं हि महात्मनः शाक्यमुने!तमबुद्धस्य शिष्याणामन्यतमोऽस्मि सङ्घन च सह यात्रार्थं प्रस्थितोऽस्मि । यदाऽहं भवन्तं भयाकुलेऽत्र स्थले शयानं वीक्षितवान् तदा भवन्तं जागरयितुमिष्टवान् । किन्तु भवान् गाढनिद्रामग्न आसीत्, अतोऽहं सहयात्रिणो विहायाऽत्रैवाऽवस्थितो भवत्पार्वे च रक्षार्थमुपविष्टः । किन्तु योऽहं भवद्रक्षार्थमत्र स्थित आसम्, सोऽहमेव निद्रावशगोऽभवम् । ततश्च भवत्यवधानं दातुं न शक्तोऽभवम् । तथाऽपि, अधुना तु भवान् जागृतोऽस्ति, अतो मया गन्तव्यं मम सहयात्रिणश्चाऽऽसादनीयाः'। 'श्रमण ! मम निद्राकाले मां रक्षितुं यद् भवानुपविष्टस्तदर्थमहं भवत उपकारं मन्ये । महात्मनो बुद्धस्याऽनुयायिनो हि स इव करुणापूर्णहृदया एव भवन्ति । किन्त्वधुना भवान् स्वयात्रामनुवर्तितुमर्हति' – सिद्धार्थो मृदुतयोक्तवान् । 'अहं गच्छामि किल । भवान् स्वं निभालयतु' । 'उपकतोऽस्मि भोः श्रमण !' । किञ्चिदवनम्य गोविन्दोऽवदत् - 'पुनर्मिलनाय' - इति । तदा सिद्धार्थोऽपि – 'पुनर्मिलनाय गोविन्द !' - इत्यवदत् । एतच्छ्रुत्वा गोविन्दः स्तब्धोऽभवत् । 'क्षम्यतां भोः !, किन्तु भवान् मम नाम कथं जानाति ?' 'सिद्धार्थो हसित्वा कथितवान् – 'भोः गोविन्द ! अहं १०० Page #108 -------------------------------------------------------------------------- ________________ भवन्तं भवतः पितृगृहात्, ब्राह्मणविद्यालयात्, यज्ञेभ्यः, श्रमणानामन्तिके दीक्षाग्रहणकालात् तथा जेतवनविहारे महात्मबुद्धपार्वे भवतो भिक्षुकत्वाङ्गीकारकालाज्जानामि' । 'अहो ! भवान् सिद्धार्थोऽस्ति खलु !' – गोविन्द उच्चैराराटीत् । 'इदानीमहं भवन्तं प्रत्यभिज्ञातवान् । एतत्तु नाऽवगच्छामि यत् किमर्थं मया भवान् झटित्येव नाऽभिज्ञातः । नमस्ते सिद्धार्थ ! पुनरपि भवन्तं दृष्ट्वा भृशं प्रमुदितोऽस्म्यहं किल' । ____ 'अहमपि भवन्तं बहोः कालाद् दृष्ट्वा नितरां हृष्टोऽस्मि । अपि च, भवताऽहं निद्रायमाणो निरीक्षितोऽस्मि । एतदर्थं पुनरपि कृतज्ञोऽस्मि । यद्यपि मे रक्षणस्याऽऽवश्यकता नाऽऽसीत् । भवतु । परं मित्र ! भवान् कुत्र प्रस्थितोऽस्ति ?' । 'अहो ! अहं कुत्राऽपि न प्रस्थितः । वयं साधवः सर्वदा यात्रारता एव वर्तामहे । केवलं प्रावृषि एकत्र तिष्ठामः । अन्यत्र काले तु स्थानात् स्थानं परिभ्रमणं कुर्मः, सङ्घशासनानुसारं जीवामः, जनानुपदिशामः, भिक्षया वृत्तिं कुर्मः पुनरपि च यात्रामनुवर्तामहे । एवं च सर्वदा वरीवति । किन्तु सिद्धार्थ ! भवान् कुत्र प्रस्थितोऽस्ति ?' । सिद्धार्थोऽचकथत् – 'ममाऽपि वृत्तं भवता तुल्यमेव मित्र ! । अहमपि न कुत्राऽपि प्रस्थितः । अहमपि यात्रारतः सन् परिभ्रमणे उद्यतोऽस्मि' ।। गोविन्देनोक्तम् – “एवं वा? भवतु, यदि भवान् कथयति यदहं यात्रारतोऽस्मीति - तदहं विश्वसिमि। किन्तु क्षम्यतां सिद्धार्थ ! भवान् यात्रिको न दृश्यते । यतो भवता धनिकवन्महार्घाणि वस्त्राणि परिहितानि, भवत उपानही श्रेष्ठौ स्तः, १०१ Page #109 -------------------------------------------------------------------------- ________________ केशाश्च भवतः सुगन्धिनः परिकर्मिताश्च सन्तो न कस्यचिच्छ्रमणस्य यात्रिणो वा प्रतिभान्ति' । 'भवता सूक्ष्म निरीक्षणं कृतं मित्र !, भवतो दृष्टिपथे सर्वमपि समागतम् । किन्तु, अहं श्रमणोऽस्मीत्येतत् तु नैव कथितं मया खलु ! । मयोक्तं यदहं यात्रिकोऽस्मीति, एतच्च सर्वथा तथ्यम्' । 'भवतु, भवान् यात्रिकोऽस्तीति मन्येऽहम् । किन्तु, अल्पा एव केचनैतादृशैर्वस्त्रैरीदृशैरुपानहैरीदृक्षैश्च केशैर्यात्रां कुर्वन्ति ननु ! । योऽहं वर्षेभ्यो देशेषु परिभ्रमणं करोमि तेनाऽपि न कदाचिदीदृशो यात्रिको दृष्टचरः'। 'अहं भवदुक्तमङ्गीकरोमि गोविन्द !, परन्तु, अद्य हि भवतैतादृशो यात्रिकस्तथैतादृशवस्त्रोपानहादिधारकोऽपि दृष्टोऽस्ति । अपि च, स्मरतु भवान् प्रियमित्र ! दृश्यमानमिदं जगद्धि सर्वथा क्षणभङ्गुरमस्ति, अस्माकं वस्त्र-केशादीनां रीतयोऽपि क्षणिकाः, किञ्चाऽस्माकं केशाः शरीरमपि च क्षणविनश्वराणि । भवतो निरीक्षणं सर्वथाऽवितथम् । मया धारितानि वस्त्राणि धनिकजनस्यैव, तथाऽहमपि तानि धारयामि यतोऽहमपि धनिक आसम् । तथा मम केशोपानहोऽपि धनिकानामिव आधुनिकशैलीकाः सन्ति यतोऽहमपि जागतिकजनानां धनिकानां चाऽन्यतम आसम्' । 'तर्हि, अधुना को वा भवान् अस्ति ?' 'अहं नैव जानामि, अथवा भवानिवाऽहमप्यत्यल्पं जानामि । अहं यात्रापथे प्रवृत्तोऽस्मि । सत्यमहं धनिक आसम्, किन्त्वधुना नैवाऽस्मि, तथा श्वः किं भविष्यामीत्यपि न जानामि' । 'किं भवता स्ववैभवं हारितं वा ?' 'मया तद् हारितमुत तेनाऽहं हारितः - इति तु नैव १०२ Page #110 -------------------------------------------------------------------------- ________________ जानामि । आभासानां चक्रं त्वरितं भ्राम्यति, गोविन्द ! | अद्य ब्राह्मणः सिद्धार्थः कुत्राऽस्ति, श्रमणः सिद्धार्थः कुत्राऽस्ति, ऐश्वर्यवान् सिद्धार्थश्च कुत्राऽस्ति ? क्षणिका भावाः सततं सत्वरं च परावर्तमाना भवन्ति । एतत्तु गोविन्द ! भवान् जानात्येव खलु !' । एतन्निशम्य गोविन्दश्चिराय साशङ्कं स्वयौवनकालीनं मित्रं निरीक्षितवान् । तत उच्चपदस्थितं यथा कश्चन नमति तथा स सिद्धार्थं प्रणम्य स्वपथे प्रवृत्तोऽभवत् । सस्मितं सिद्धार्थस्तं गच्छन्तं निरीक्षितवान् । सोऽद्याऽपि तं, विश्रब्धमुत्सुकं च स्वमित्रं प्रीणाति स्म । तथाऽस्मिन् प्रशस्ये क्षणे, तादृशाद्भुतनिद्रानन्तरं सर्वथौङ्कारेणाऽऽप्लावितः स सर्वं सर्वांश्चाऽप्रीणन् कथं स्थातुं शक्नुयात् ? एष चमत्कारश्च तस्या अद्भुतनिद्राया मध्ये, ओङ्कारस्य च प्रभावेण सञ्जातो यत्कारणात् स सर्वमपि प्रीणाति स्म । यदपि तस्य दृष्टिपथे समायाति तत् सर्वं प्रति तस्य स्नेहोऽकारणमेवोल्लसतीति सोऽनुभवति स्म । तेनैतदपि लक्षितं यत् पूर्वं स कञ्चिदपि किञ्चिदपि च नैव प्रीणाति स्मेत्येतदर्थमेव सोऽस्वस्थो भवति स्मेति । सस्मितं सिद्धार्थो गच्छन्तं भिक्षं विलोकितवान् । यद्यपि गाढनिद्रावशात् स प्रफुल्लितो जात आसीत् तथाऽपि द्विनद्वयाद् बुभुक्षित्वात् महती क्षुत् तं बाधते स्म, क्षुन्निरोधस्य तस्य सामर्थ्यं तु भूतकालविषयीभूतमासीत् । यद्यपि तस्यैतद् विचार्य दुःखमभवत् तथाऽपि सहासं स तं दिनं स्मृतवान् यदा स कमलायाः पुरतः स्वात्मश्लाघां कुर्वन् स्वस्य त्रीणि सामर्थ्यानि विकत्थितवानासीत् त्रीण्यपि तानि विशिष्टानि दुरासदानि च नैपुण्यान्यासन् उपवासः, प्रतीक्षा, विचारश्च । एतानि त्रीण्यपि तस्य वित्तमासीत्, तस्य बलं सत्त्वं दृढश्चाऽऽधारोऽपि । स्वीये परिश्रमपूर्णे व्यवसाय I १०३ Page #111 -------------------------------------------------------------------------- ________________ तत्परे च तारुण्ये स एतान्येव त्रीणि नैपुण्यानि समभ्यस्तवानासीत् । किन्त्वधुना स तानि सर्वाण्यपि विनाशितवानासीत् । त्रयाणामेकतमदपि तस्य स्वाम्ये नाऽऽसीत् - नोपोषणं, न धैर्य, नाऽपि च विचारणम् । सोऽन्येषां क्षणिकानां तुच्छानां चेन्द्रियसुखवैभवशालिजीवन-धनार्जनादिवस्तूनां कृते त्रयाणामप्येतेषां विनिमयं कृतवानासीत् । कस्मिंश्चिदसङ्गतेन मार्गेण स प्रस्थितवान्, साम्प्रतं च, प्रतिभाति यत् स खलु कश्चन प्राकृतजनः संवृत्तोऽस्ति । स स्वीयां परिस्थिति विमर्शितुमिष्टवान् । किन्तु विचारणं तस्याऽत्यन्तं कठिनं प्रतिभाति स्म । तस्य मनो विचारणे नैव युज्यते स्म, तथाऽपि स बलात् स्वं विचारणे प्रेरितवान् । स चिन्तितवान् – अद्यैतानि सर्वाण्यपि क्षणिकानि वस्तूनि मे हस्तच्युतान्यभवन् । यथा बाल्यकाले तथाऽद्याऽप्यहमेकल एव सूर्यस्य विशालस्य च नभसोऽधस्तात् स्थितोऽस्मि । किञ्चिदपि मदीयं नास्ति, अहं किञ्चिदपि नैव जानामि, कुत्राऽपि मम स्वाम्यं नास्ति, किञ्चिदपि च खलु नैव शिक्षितं मया । ननु कियद् विचित्रमेतत् – इदानीं, यदाऽहं वार्धक्यपथे सञ्चरितोऽस्मि, मम केशाः शीघ्रं पलिता जायमानाः सन्ति, सामर्थ्यं च क्षीयमाणमस्ति, तदा पुनरप्यहं बालकवदारम्भं कुर्वन्नस्मि । स पुनरपि स्मितं कृतवान् । आम, तस्य नियतिर्हि विचित्राऽऽसीत् । स प्रतीपं गच्छन्नासीत् । स पुनरपि रिक्त इव, विवसन इव, बोधरहित इव जगति स्थित आसीत् । किन्त्वेतदर्थं तस्य शोको नाऽऽसीत्, प्रत्युत तन्मनस्युच्चैर्हसितुमिच्छा जाता स्वं प्रत्येव हसितुं तथा मूर्खस्यैतज्जगतः प्रति हसितुमिच्छा जाता। 'भोः ! सर्वाण्यपि वस्तूनि तव कृते निम्नमेव गच्छन्ति सन्ति' - स स्वगतमेवोक्तवान् हसितवांश्च । उक्तमात्र एव तस्य १०४ Page #112 -------------------------------------------------------------------------- ________________ दृष्टिनद्याः प्रवाहे पतिता, तेन विलोकितं च यन्नद्यपि सोल्लासं गायन्ती सातत्येन निम्नमेव प्रवहमानाऽऽसीत् । दृश्यमेतत् तमतिमात्रेणाऽतोषयत् । स सानन्दं नदी प्रति स्मितवान् । किमेषैव न सा नद्यासीत् यस्यां स एकदा निमज्जितुमिष्टवान् - वर्षशतेभ्यः पूर्वम् ? - अथवा तत् तेन स्वप्ने दृष्टमासीत् खलु ? ‘कीदृशं विचित्रं जीवनं मम जातं खलु ?' - सोऽचिन्तयत् । 'अहं ह्यज्ञातेषु पथिषु सञ्चरितवान् किल ! ! बाल्येऽहं देवताकार्येषु यागादिषु च निरत आसम् । तारुण्ये वैराग्यं धारयन्नहं चिन्तने ध्याने च निष्ठोऽभवम् । ततोऽहं ब्रह्मणोऽन्वेषणे उद्युक्तवान्, शाश्वतं च स्वात्मानमेवोपासितवान् । यौवने ह्यात्मविशुद्ध्यर्थं प्रयतितवानहम् । अरण्ये निवसन्नहं शीततापौ विसोढवान्, उपोषणमभ्यस्तवान्, स्वीयं देहं च जेतुं शिक्षितवान् । ततो महात्मनो बुद्धस्योपदेशमपि महता विस्मयेनाऽऽत्मसात् कृतवानहम् । विश्वैक्यं विश्वज्ञानं च मयि रक्तमिव प्रवहमानमनुभूयते स्म. । किन्तु तथाऽपि मयि बुद्धं तस्य भव्यं ज्ञानं च त्यक्तुमदम्या स्पृहा समुत्पन्ना । अहं ततो निर्गतवान् कमलायाः सकाशाच्च कामसुखं कथं प्राप्तव्यमिति शिक्षितवान्, वाणिज्यं च कामस्वामिनः सकाशात् । अहं धनस्य सङ्ग्रहमपि कृतवान् अपव्ययं चाऽपि । अहं श्रेष्ठं भोजनमास्वादितुं शिक्षितवान्, इन्द्रियाणि च विषयास्वादैरुत्तेजितवान् । एतत् सर्वं वर्षाणि यावत् कृतवानहं मम प्रज्ञां नाशितवान्, विश्वैक्यं विस्मृतवान्, चिन्तनशक्तिं चोच्छेदितवान् । किमेतन्न सत्यं यदहं शनैः शनैर्बहूंश्च भ्रंशाननुभूय प्रौढपुरुषात् पुनरपि बालकतया परावर्तितः खलु ? चिन्तकात् प्राकृतो जनोऽभवम् । तथा, एवं स्थितेऽपि चिन्तयामि यदयं मार्गः प्रशस्त एव, मम हृदये स्थितः पक्षी खल्वद्याऽपि न मृतः। १०५ Page #113 -------------------------------------------------------------------------- ________________ किन्तु कीदृशोऽयं मार्गो, यत्र मया बहूनि मौर्ष्यानि, बहूनि पापाचरणानि, बहूनि स्खलनानि समाचरितानि प्रभूतो निर्वेदः, भूयांश्च भ्रमः शोकश्चाऽनुभूतः । केवलं पुनरपि बाल्यप्राप्त्यै पुनरारम्भाय च । किन्तु, एतत् समुचितमेव जातम् । मेऽक्षिणी हसतो हृदयं च स्वीकुरुते । एतत् प्रति मया निराशाऽनुभवितव्याऽऽसीदेव, गहने विचारगर्ते निमज्जनीयमासीदेव, स्वात्मघातोऽपि च विचारणीय आसीदेव - किमर्थम् ? पुनः सौन्दर्य प्राप्तुं, पुनः ओङ्कारं श्रोतुं, गाढतया शयितुं, याथार्थ्येन च पुनर्जागर्तुम् । मय्येव ममाऽऽत्मानं प्राप्तुं मया मौर्यमाचरणीयमेवाऽऽसीत् । पुनर्जीवनं प्राप्तुं मया पापाचरणं कर्तव्यमेवाऽऽसीत् । चिन्तयामि - अग्रे कुत्राऽयं मार्गो मां नेष्यति ? यतोऽयं पन्था अपि मन्ये मूर्ख एव । मन्ये स भ्रम्याकारेण व्रजति अथवा वृत्ताकारेण गच्छति । भवतु यथाकथमपि स व्रजतु नाम, अहं तमनुसरिष्याम्येव । अपि च, तस्याऽन्तःकरणे आनन्दस्योत्सा एव समुच्छलन्ति स्मेति सततमनुभूतवान् सः । स स्वमेव पृष्टवान् - 'कुत एते समागच्छन्ति खलु ? किमर्थमहमानन्दौघमनुभवन्नस्मि । किमहं गाढतया शयितवानित्येतदर्थमहं तमनुभवामि वा ? अथवा ओङ्कारप्रभावादेष उद्गतोऽस्ति वा किम् ? किमथवाऽहं तस्मादसमञ्जसात् पलायितोऽस्मि पलायनं च मम सिद्धं जातमित्येतदर्थं वा, ततश्चाऽहं विमुक्तोऽभवं बालकवच्चाऽनन्ताकाशस्याऽधस्तात् सहजतया स्थितोऽस्मि - तदर्थं वा ? अहो ! मम पलायनं कीदृक् शुभं समस्ति, विमुक्तिश्चाऽपि । यस्मात् स्थानाच्चाऽहं पलायितस्तत्र तु सर्वदा तीव्रतमविलासस्योन्मादस्य प्रमादस्य च वातावरणमासीत् । अहं ह्युन्मतवत् तत्र मद्यपानं द्यूतक्रीडनं च कुर्वन्नपि कथं धनिकानां तादृशां जीवनं तिरस्कुर्वन्नासम् । कथं १०६ Page #114 -------------------------------------------------------------------------- ________________ चाऽहं तत्र दारुणे जगति इयच्चिरायाऽवस्थित्यर्थं स्वमेव धिक्कृतवान् ? कथं वाऽहं स्वमेव प्रतिघ्नन्, विषाक्तं कुर्वन्, संपीडयंश्च स्वयमेव वृद्धः कुरूपश्चाऽभवम् ? इतः परमहं 'सिद्धार्थश्चतुरोऽस्ती'ति न कदाऽपि कल्पयिष्ये मंस्ये वा । अथाऽपि केवलमेकमेव वस्तु मे रोचते, मया तत् सुष्ठवेव कृतमिति, एतच्चाऽहं सर्वथा प्रशंसामि - यन्मया निजस्य घृणामयस्य मौर्यपूर्णस्य सर्वथा रिक्तस्य च जीवनस्याऽन्तः कृतः । भोः सिद्धार्थ ! भवता बहूनां वर्षाणां मौर्यस्याऽनन्तरं पुनरपि एकवारं किञ्चिच्छुभं चिन्तितं, किञ्चित् साधितं, स्वहृदयस्थितस्य पक्षणिो गानं श्रुतं समनुसृतं च !' । __ एवं चिन्तयित्वा स स्वमेव प्रशंसितवान्, स्वात्मनैव सन्तुष्टो जातः, उत्सुकतया च क्षुत्क्षामत्वेन नदन्तं स्वमुदरं श्रुतवान् । निराशां मृत्युं च प्रति यो नयेत् तादृशं शोकस्य दुःखस्य चांऽशं स पर्याप्ततयाऽऽस्वादितवानासीत् । तथाऽपि सर्वं शोभनमेवाऽऽसीत् । यदि किलैतन्नाऽभविष्यत्, सर्वथा हताशाया, विषादस्य, चिन्ताकुलतायाश्च चरमक्षणे यदि स स्वात्मघातार्थं जले पतितुं कृतसङ्कल्पो नाऽभविष्यत् तदा स कामस्वामिना सहैव चिरायाऽवत्स्यत्, धनार्जनं धनापव्ययं चाऽकरिष्यत्, आत्मानमुपेक्ष्य शरीरं चैवाऽपोषयिष्यत्, तथा चिराय तस्मिन् मृदुशय्यातुल्ये नरके न्यवत्स्यत् । तस्याऽन्तःकरणस्थितः पक्षी, उध्वीभवंश्च स्पष्टोऽन्तर्नादोऽद्याऽपि तस्मिन् सजीवन आसीत् । एतस्मात् कारणादेव स प्रसन्न आसीत्, हसन्नासीत्, पलिते च शिरसि सत्यपि तन्मुखं प्रोज्जवलमभासत । पुनः स चिन्तितवान् – 'जनेन हि स्वजीवने सर्वमपि सम्यगनुभवितव्यम् । बाल्ये मयाऽधीतं यज्जागतिकानि सुखसमृद्धयादीनि सर्वथाऽप्रशस्तानीति । एतज्ज्ञानं चिराय मय्यासीत् १०७ Page #115 -------------------------------------------------------------------------- ________________ किन्तु तस्याऽनुभवो हि मयाऽधुना कृतः । इदानीमहं केवलं बुद्ध्या तन्न जानामि किन्तु नयनाभ्यां, हृदयेन, कुक्षिणा चाऽपि तज्जानाम्यनुभवामि च । एतज्ज्ञानं ह्यवश्यं प्रशस्यमेव' । एवं च स स्वस्मिन् जातस्य परिवर्तनस्य विषये चिराय चिन्तितवान् निजान्त:स्थितं च पक्षिणमानन्देन गायन्तं श्रुतवान् । किमयमन्त:स्थितः पक्षी मृत इति तेन नाऽनुभूतमासीत् ? नैव, किञ्चिदन्यदेव तस्याऽन्तः स्थितं मृतमासीत्, यस्य नाशस्तेन चिरादाकाङ्क्षित आसीत् । किं तत् तदेव नाऽऽसीद् यं नाशयितुं तेन संन्यस्तस्योत्साहपूर्णेषु वर्षेष्वेकदाऽऽकाङ्क्षितम् ? किं तत् तस्य स्वत्वं नाऽऽसीत् - लघु भीतभीतं चाऽपि गर्विष्ठं स्वत्वं येन सह स वर्षाणि यावत् द्वन्द्वयुद्धं कृतवानासीत्, किन्तु यत् तं पौनःपुन्येन पराभूतवत्, यत् तस्य पुरतः पौनःपुन्येनाऽऽविर्भूतवत्, यच्च तस्य सुखं मोषित्वा तं भयेन पूरितवत् ? किं तदेतदेव नाऽऽसीत् यदन्ततो गत्वाऽद्य वनेऽस्या मनोरमाया नद्या उपकण्ठं विपन्नम् ? किमेतत् तस्य बाल्यं, विश्रम्भ-सुखपूर्णत्वं भयरहितत्वं च तद्विनाशेनैव नाऽवर्तत किल ? सिद्धार्थोऽधुनैतदपि स्पष्टतया ज्ञातवान् यद् यदा स ब्राह्मणः श्रमणश्चाऽऽसीत् तदा तस्याऽनेन स्वत्वेन सङ्घर्षः किमर्थं विफलो भवति स्मेति । ज्ञानाधिक्येन, पवित्रमन्त्रोच्चारणाधिक्येन, यागादिकर्माधिक्येन, तपश्चर्याधिक्येन, एवं च सर्वत्राऽतिकरणेनाऽतिप्रवृत्त्या च स बद्धः प्रतिरुद्धश्च जात आसीत् । स हि सर्वदा चतुरतमः, सर्वदाऽन्येभ्यः पदमेकं वाऽप्यग्रे तिष्ठन्, सर्वथा सोत्साहः, सर्वदा ज्ञानी प्रज्ञावांश्च, सर्वदा च याजकः पण्डितश्च भवन्नत्यन्तं दर्पाध्मातो जात आसीत् । तस्य स्वत्वं तस्य याजकत्वे, दर्पे, ज्ञानोत्कर्षे चोपसर्पितमासीत् । ततश्च तपसा दुःखसहनेन च तस्य विनाशं चिन्तयति सिद्धार्थे तद् गाढतया स्थितं वृद्धिं च १०८ Page #116 -------------------------------------------------------------------------- ________________ गतमिदानीं तेनाऽवबुद्धं, इदमपि च यन्न कोऽपि गुरुस्तं निर्वाणं प्रापयितुं मुक्तं वा कर्तुं समर्थः इति कथयन्तः स्थितो ध्वनिः सर्वथाऽवितथोऽस्तीति । एतदर्थमेव – तस्य हृदये हठात् प्रविष्टो याजकः श्रमणश्च म्रियेत – इत्येतदर्थमेव तस्य संसारे गमनं, तत्राऽपि चैश्वर्ये स्त्रियां धने च स्वविलोपनं, वाणिज्यकरणं, द्यूतखेलनं, मद्यपानं, परिग्रहकरणं च समभवत् । तथैतदर्थमेव हि च तेनैतावन्ति दुःखजनकानि वर्षाणि यापितानि, निर्वेदः सोढः, शून्यस्य भङ्गुरस्य च जीवनस्य मौर्य्यपूर्णतायाः पाठोऽवसानं यावत्, कटुकनैराश्यावाप्तिं यावच्च तेन शिक्षितो येन सुखगवेषकः परिग्रही च सिद्धार्थो नाशं प्राप्नुयात्, मृतो भवेत् । ऽन्य इदानीं स मृत आसीत् तत्स्थाने च गाढनिद्रातो जागृतोऽन एव सिद्धार्थं उद्भूत आसीत् । सोऽपि वृद्धो भूत्वा मरिष्यति । यतः सिद्धार्थो नश्वर आसीत्, सर्वाण्यपि स्वरूपाणि नश्वराणि आसन् । एवं सत्यपि अद्य स तारुण्येऽथवा बाल्ये वर्तमानो नूतन: सिद्धार्थ आसीत्, सर्वथा च सन्तुष्टः । एतादृशा विचारास्तस्य मस्तिष्के व्याप्ता आसन् । ततः स्मयमान स स्वोदरध्वनिं श्रुतवान्, सकार्तज्ञ्यं च मधुमक्षिकाणां गुञ्जनं श्रुतवान् । तत: ससन्तोषं स प्रवहन्तीं नदीं विलोकितवान् । न कयाऽपि नद्या स तथाऽऽकृष्टोऽभवत् यथाऽनया । तथा न कदाऽपि प्रवहतो नीरस्य कलकलनादः स्वरूपं च तस्यैतादृशं मनोज्ञमभासत । नदी हि तस्य विशिष्टं किञ्चित् कथयन्तीव प्रतिभाता, तादृशं किञ्चित् यत् स नैव जानाति, यच्च तमद्याऽपि प्रतीक्षते । सिद्धार्थो हि नद्यामस्यां निमज्ज्य मर्तुमैच्छत् । अथ च स वृद्धः श्रान्तो हताशश्च सिद्धार्थोऽद्याऽस्यां नद्यां पतित्वा निमग्न आसीत् । नूतनः सिद्धार्थस्तु प्रवहमानमेनं नीरं प्रति १०९ Page #117 -------------------------------------------------------------------------- ________________ गाढानुरागं समन्वभवत् निरचिनोच्च यदितः स्थानान्नाऽचिरेण गन्तव्यमिति । ११० Page #118 --------------------------------------------------------------------------  Page #119 --------------------------------------------------------------------------  Page #120 -------------------------------------------------------------------------- ________________ ५. नाविकः 'अहमत्रैव, नद्यास्तीर एव वत्स्यामि', सिद्धार्थश्चिन्तितवान् । ‘सैवैषा नदी यामहं नगरगमनकालेऽतिक्रान्तवान् । एक: सौहार्दपूर्णो नाविको मामस्याः पारं प्रापितवान्। अहं तत्समीप एव गमिष्यामि । एकदा हि तस्य कुटीरान्नवं जीवनं प्रति मम पन्थाः प्रारब्ध आसीत् । तच्च जीवनमिदानीं जीर्णं विनष्टं चाऽस्ति । अथ च भवतु नाम मे इदानींतनः पन्थाः, नूतनं च जीवनं तत्कुटीरादेव पुनः प्रारभ्यताम् !' । स प्रसन्नतया जलप्रवाहं, तस्य स्वच्छं हरितवर्णं, तथाऽद्भुतसंरचनापूर्णास्तस्य स्फटिकप्रभा रेखा निरीक्षितवान् । जलतलादुत्थिता प्रोज्ज्वलमौक्तिका इव जलबुद्बुदा दर्पणवत्स्वच्छे जले तरन्त आसन् नीलवर्णमनन्ताकाशं च तेषु प्रतिबिम्ब्य स्म । नदी किल तं प्रति लोचनसहस्रैः - हरित - शुक्ल-नीलवर्णैविलोकयन्तीवाऽभासत । स नद्यां कियत् स्निह्यति स्म ! नद्यपि तं कियदाकृषति स्म ! नद्यै स कियत् कार्तज्ञ्यं वहति स्म ! तस्याऽन्तःकरणान्नूतनतयोत्थितो ध्वनिस्तं प्रेरयन्नासीत् - 'नद्यामेतस्यां स्निह्यतु, एतस्यास्तटे एव वसतु, नदीसकाशाच्च शिक्षताम्' । ‘आम्' – तेनोक्तम् । स नद्याः सकाशाच्छिक्षितुमिच्छति स्म, सतां श्रोतुमिच्छति स्म । यः कोऽपि नदीमेनां तद्रहस्यानि चाऽवबुध्यति स बह्ववबोद्धुं शक्नोति; बहूनि रहस्यानि, ननु सर्वाण्यपि रहस्यानि तस्य कृते समुद्घाटितानि भवन्तीति तस्य प्रतिभातम् । परमद्य तु स नद्या केवलमेकतमद् रहस्यं वीक्षितवान्, तद् रहस्यं येन तस्याऽऽत्मा दृढतया धारितः । तेन निरीक्षितं यन्नदीजलं सातत्येन प्रवहमानमपि प्रतिक्षणं विवक्षितप्रदेशे ११३ Page #121 -------------------------------------------------------------------------- ________________ उपस्थितमप्यासीत् । तद्धि सर्वदा समानमेव भवदपि प्रतिक्षणं नूतनमेवाऽभवत् । को वैतदवबुध्येताऽवधारयेद् वा ? स स्वयमपि तन्नैवाऽवबुद्धवान्, केवलमव्यक्तो विकल्पोऽस्पष्टा स्मृतिदिव्याश्च ध्वनयस्तन्मनो व्याप्नुवन्ति स्म । सिद्धार्थोऽभ्युत्थितवान् । क्षुत्पीडेदानीमसह्या जायमानाऽऽसीत् । यथाकथमपि तां सहमानः स नदीतटे भ्रमन्नासीत्, जलतरङ्गाणां कलकलध्वनि शृण्वन्, स्वशरीरे जायमानं तीव्रक्षुद्वेदनाध्वनि च शृण्वन् । ___यदा स घट्ट प्राप्तस्तदा तरणनौका तत्रैवाऽऽसीत्, तथा नाविको, येनैकदा तरुणः श्रमणः पारं प्रापितः, सोऽपि नौकायामुपविष्ट आसीत् । सिद्धार्थस्तं प्रत्यभिज्ञातवान् । सोऽपि च वयस्को जात आसीत् । "किं भवान् मां नदीपारं प्राययिष्यति ?' सिद्धार्थः पृष्टवान् । कञ्चन विशिष्टव्यक्तित्वशालिनं जनमेकाकिनं पादचारिणं च दृष्ट्वा विस्मितो नाविकस्तं नावि उपवेश्य प्रस्थितः । 'भवता श्रेष्ठं जीवनं चितमस्ति खलु !' – सिद्धार्थ उक्तवान्, 'नद्याः समीपेऽवस्थानं प्रत्यहं च तस्यां नौचालनं ह्यवश्यं शोभनं प्रमोदप्रदं च स्यान्ननु !'। मृदुतया नावं प्रेरयन् नाविक ईषत् स्मितवान् कथितवांश्च - 'भवत्कथनानुसारमेतत्त्ववश्यं शोभनमस्ति महोदय !। किन्तु, सर्वं जीवनं सर्वमपि च कार्यं शोभनमेव नास्ति खलु ?' । 'स्यादेव भोः !, परन्तु मम भवतो भवदीयकार्यस्य चेा भवति' । ___ 'अहो ! एवं वा । परं सद्य एवेतो भवतो रुचिः क्षीणा भविष्यति । यत एतज्जीवनं कार्यं चैतन्नास्ति महाघवस्त्रधारिणां जनानां कृते' । ११४ Page #122 -------------------------------------------------------------------------- ________________ सिद्धार्थ उच्चैर्हसितवान् । 'प्रागेवाऽद्याऽहं वस्त्राण्यधिकृत्य प्रमाणितोऽस्मि ततश्च सन्देहास्पदं जातोऽस्मि । किं भवान् मे वस्त्राणि स्वीकरिष्यति ? यतस्तान्यधुना मत्कृते क्लेशस्यैव हेतुभूतानि सन्ति । यतश्च मया वक्तव्यमेव भवतो, यन्नदीपारप्रापकाय भवते दानार्थं मत्पाश्र्वे न किञ्चिदपि धनमस्ति'। 'आर्य उपहासं कुर्वन्नस्ति' इति वदन् नाविको हसितवान् । 'मित्र ! नाऽहमुपहसामि । भवान् हि पूर्वमप्येकदा मामेतस्या नद्यास्तीरान्तरं प्रापितवान्, निःशुल्कम् । अतः कृपयाऽद्याऽपि तथैव प्रापयतु, अथवा तच्छुल्करूपेण मम वस्त्राणि गृह्णातु' । 'ततः किमार्यो वस्त्रैविनैव प्रस्थानमनुवर्तयिष्यते वा ?' 'मम ततोऽप्यग्रे गन्तुमिच्छैव नाऽस्ति । अहमिच्छामि यद् - भवान् मे कानिचन जीर्णवस्त्राणि दद्याद् मां चाऽत्र भवतः सहायकत्वेन शिष्यत्वेन वा स्थातुमनुमन्येत, यतोऽहं नौचालनं शिक्षितुमिच्छामि'। नाविक आगन्तुकमेनं सूक्ष्मतया सुचिरं निरीक्षितवान् । 'अहं भवन्तं प्रत्यभिजानामि' - अन्ते सोऽकथयत् । 'भवानेकदा मम कुटीरे शयितवान् खलु ! । किन्तु तद्धि बहुकालपूर्वमेव घटितम् । प्रायो विंशतिर्वर्षाणि ततोऽपि वाऽधिको कालो व्यतीतः स्यात् तस्य । अहं भवन्तं नद्यास्तीरान्तरं प्रापितवान्, ततश्चाऽऽवां सुहृदौ भूत्वा वियुक्तावभवताम् । किं भवान् कश्चन श्रमणस्तु नाऽऽसीत् खलु ? अहं भवदभिधानं नैव स्मरामि' । 'मम नाम सिद्धार्थ इत्यस्ति । पुरा यदा भवान् मां दृष्टवान् तदाऽहं श्रमण आसम्' ।। 'भवतः स्वागतमस्ति सिद्धार्थ ! । ममाऽभिधानं वासुदेव इत्यस्ति । अद्य भवान् मेऽतिथीभूय मत्कुटीरे निवत्स्यसि शयिष्यते चेत्याशासेऽहम् । भवान् कुत आगतोऽस्ति किमर्थं च महाघवस्त्राणां ११५ Page #123 -------------------------------------------------------------------------- ________________ निर्विण्णोऽस्ति - इति भवान् मां कथयिष्यतीत्यप्याशासे' । एतावता च नौनदीमध्यं प्राप्ताऽऽसीत् । इदानीं वासुदेवो जलप्रवाहस्य क्षिप्रत्वात् नौदण्डमपि वेगेन चालयन्नासीत् । स नावः पर्यन्तभागं पश्यन् दृढतयाऽप्यव्याकुलतया नावं चालितवान् । नौकायामुपविष्टः सिद्धार्थस्तं नावं चालयन्तं विलोकितवान् स्मृतवांश्च यत् – कथं स एकदा, श्रामण्यस्याऽन्तिमदिनेषु पुरुषमेनं प्रति प्रगाढमाकर्षणमनुभूतवानासीदिति । स वासुदेवस्याऽऽमन्त्रणं सहर्ष स्वीकृतवान् । यदा तौ नदीतटं प्राप्तौ तदा स नौकां सुरक्षिततया स्थापयितुं वासुदेवस्य साहाय्यं कृतवान्। ततो वासुदेवस्तं स्वकुटीरेऽनयत्, तस्मै चाऽऽहारं जलं चाऽदात् । सिद्धार्थस्तमाहारं जलं च वासुदेवप्रदत्ताम्रफलेन सह ससन्तोषमशितवान् । ततः, सूर्यास्तमनवेलायां तौ द्वावपि नदीतीरस्थितस्य वृक्षस्कन्धस्योपरि निषण्णावास्तां, तदा च सिद्धार्थो वासुदेवाय मूलादारभ्य स्वजीवनस्य सर्वमपि वृत्तं कथितवान् तथाऽद्याऽपि प्रवृत्तस्य विषादमयमुहूर्तस्याऽनन्तरं स कथं तं प्राप्तवानित्यादि सर्वं कथितवान् । निशीथं यावत् तयोर्गोष्ठी प्रवृत्ता । वासुदेवोऽपि च स्थिरतया सर्वथैकाग्रतया च सर्वमपि तत्कथनं श्रुतवान् । तस्य जन्म शैशवमध्ययनं साधनां विषयसुखान्यपेक्षाश्चाऽधिकृत्य सर्वमपि तद्वृत्तं स श्रुतवान् । वासुदेवस्याऽयं श्रेष्ठो गुण आसीद् यो विरलजनेष्वेव दृश्यते - सः श्रोतुं जानाति स्म । एकमपि शब्दमनुच्चारयन्नपि स तथा शृणोति स्म यथा कथयितुः प्रतीतिर्भवति स्म यत् स प्रत्येकं शब्दं कर्णाभ्यां गृहीत्वा हृदये धारयन्नस्ति, शान्त्या धैर्येण श्रवणोत्सुकतयैकमपि च शब्दमजहद् - इति । श्रवणे स सर्वथाऽधृतिं त्यजति स्म, न कुत्राऽपि प्रशंसां निन्दां वा करोति ११६ Page #124 -------------------------------------------------------------------------- ________________ I स्म, केवलं शृणोति स्मैव । स्वजीवने स्वीयप्रयत्नेषु स्वकीयदुःखेषु च सहभागितां वहन्नीदृश: श्रोता प्राप्तो मया - इत्येतत् कियदद्भुतं सञ्जातमिति सिद्धार्थश्चिन्तितवान् । कथनान्ते, यदा सिद्धार्थो नदीतटस्थितस्य वृक्षस्य, सर्वथा विषण्णस्य स्वस्य, पवित्रस्यौङ्कारस्य च विषये, तथा गाढनिद्रानन्तरं तेनाऽनुभूतस्य नदीं प्रति प्रेम्णो विषये कथितवान् तदा तु वासुदेव इतोऽप्यधिकं सावधानीभूय नेत्रे च निमील्य पूर्णतयैकाग्रो भूत्वा तं श्रुतवान् । सिद्धार्थेन स्ववृत्तकथने समर्थिते दीर्घान्तरालं मौनेन व्यतीय वासुदेवस्तमुक्तवान् – ‘तथैव जातं यथा मया चिन्तितम् । नदी भवता सह संवादं कृतवती, सा भवति सौहार्दमपि प्रकटितवती, सा भवता सह भाषते । एतच्च सर्वथा शोभनमस्ति । भवान् मया सहैव वसतु, मित्र ! | पुरा ममाऽपि पत्नी आसीद् या मया सहैवाऽत्र कुटीरे निवसति स्म । किन्तु बहोः कालात् पूर्वमेव सा मृता । तत्प्रभृत्यहमेकल एव जीवामि । इदानीं भवान् यदागतस्तच्छुभमेव । अत्र कुटीरे भवान् मया सहैव निवसतु । उभयोरप्यावयोः कृतेऽत्र पर्याप्तं स्थानमन्नं चाऽस्ति' । 'भृशमुपकृतोऽस्मि' – सिद्धार्थ उक्तवान् । 'उपकृतोऽस्म्यहं भवदामन्त्रणं च स्वीकरोमि । तथा वासुदेव ! यद् भवता स्थैर्येणैकाग्र्येण च मम कथनं श्रुतं तदर्थमप्युपकृतोऽस्ति । अत्र जगति विरला एव जना श्रोतुं जानन्ति । मया चाऽद्ययावदपि भवादृशः श्रोता न लब्धः । भवतः सकाशादहमपि श्रवणकलामेनां शिक्षिष्ये' । वासुदेवेनोक्तम् – ‘अवश्यं भवान् शिक्षिष्यते, परं न मत्सकाशात् । नद्येषा मां शिक्षितवत्यस्ति श्रोतुम् । भवानपि तत एव शिक्षिष्यते । नदी हि सर्वमपि जानाति, तथा यः कोऽपि ततः I ११७ Page #125 -------------------------------------------------------------------------- ________________ सर्वमपि शिक्षितुं शक्नोति । भवताऽपि तस्याः सकाशात् सयत्न निमज्जनमगाधे चाऽवगाहनं शिक्षितमेव खलु ! । तथा, धनिकः प्रतिष्ठितश्च सिद्धार्थो नौकाचालको भविष्यति, विद्वान् ब्राह्मणः सिद्धार्थो नाविको भविष्यति - इत्येतदपि भवान् नदीसकाशादेव शिक्षितवान् खलु ! । इतोऽप्यधिकं ततो बढेव शिक्षिष्यते भवान्' । ततो दीर्घमौनानन्तरं सिद्धार्थः पृष्टवान् – 'किं तद् वासुदेव ! ?' ___वासुदेव उत्थितः । 'रात्रिर्बहु व्यतीताऽस्ति' - स उक्तवान् । 'अधुना शयावहे । यच्च भवान् पृच्छति तस्योत्तरं दातुमहं न शक्तो मित्र ! । भवान् यथाकालं तज्ज्ञास्यत्येव, अथवा भवान् तज्जानात्येव। तथाऽहं किल विद्वज्जनो नाऽस्मि, भाषितुं विचारयितुं वा च नैव जानामि । अहं केवलं श्रोतुं भगवन्निरतश्च भवितुं जानामि । अन्यद्धि मया किञ्चिदपि नैव शिक्षितमस्ति । यद्यहं भाषितुं शिक्षयितुमुपदेष्टुं वाऽशक्ष्यस्तदाऽहं गुरुरुपदेशको वाऽभविष्यम् । किन्तु तथा नास्ति, यतोऽहं केवलमेको नाविकोऽस्मि, मम कार्यं तु जनानां नदीपारप्रापणमस्ति । मया हि सहस्रशो जना नदीपारं प्रापिताः सन्ति, किन्तु तेषां सर्वेषामपि जनानां नयेषाऽन्तरायरूपैव जाताऽस्ति, नाऽन्यत् किञ्चित् । जना हि धनार्थं वाणिज्यार्थं विवाहाद्यर्थं यात्रार्थं वा पर्यटिताः, तदा च नद्येषा तेषां मध्येमार्गं समागता, नाविकश्च तानवरोधभूतामेनां त्वरया तारयितुं विद्यमान आसीत् । यद्यपि सहस्रशो जनेषु केचन, पञ्च-षा जनास्तादृशा अप्यासन् येषां कृते नद्येषाऽवरोधरूपा नाऽऽसीत् । ते एतस्या ध्वनि श्रुतवन्तस्तं प्रति च सकर्णा जाताः । तेषां कृते चैषा नदी पवित्राऽस्ति यथा मत्कृते । अधुना शयेवहि सिद्धार्थ !' । सिद्धार्थो नाविकेन सहैवोषितवान्, नौचालनं नौसम्भालनं ११८ Page #126 -------------------------------------------------------------------------- ________________ च शिक्षितवान् । नौसम्बन्धिनि कार्ये चाऽसति स वासुदेवेन सह व्रीहिक्षेत्रे कार्यं करोति स्म, काष्ठानि सगृह्णाति स्म, फलावचयं च करोति स्म । स नौकादण्डान् निर्मातुं, नावं संस्कारयितुं, करण्डकांश्च रचयितुं शिक्षितवान् । यद्यत् स कृतवान् शिक्षितवांश्च तत्सर्वेणाऽपि स सन्तुष्ट आसीत् । कालश्च त्वरितं व्यत्येति स्म । परं स वासुदेवसकाशाद् यच्छिक्षितवांस्ततोऽप्यधिकं नद्याः सकाशाच्छिक्षितवान्, सततं च शिक्षितवान् । सर्वस्मादप्यधिकं तु स ततः सकाशात् श्रोतुं, निश्चलचित्ततया श्रोतुं, जिज्ञासापूर्णेनोद्घाटितेन च हृदयेन, अनासक्ततया, निरीहतया, अपरीक्षकतया अभिप्रायमुक्ततया च श्रोतुं शिक्षितवान् । स वासुदेवेन सह सुखेन निवसति स्म । तौ द्वावपि च कादाचित्कतयैव सम्भाषेते स्म, तदपि चाऽल्पैर्दीर्घालोचनपूर्णेश्चैव शब्दैः । वासुदेवो हि सर्वथा मितभाषी आसीत्, सिद्धार्थश्च विरलतयैव तं भाषयितुं समर्थो भवति स्म । एकदा स तं पृष्टवान् - 'किं भवताऽपि नद्याः सकाशाद्रहस्यमेतच्छिक्षितं यत् - कालनामकं किमपि वस्तु नास्त्येवेति खलु ?' श्रुत्वैतद् वासुदेवस्य मुखे प्रोज्ज्वलं स्मितं व्याप्तम् । तेनोक्तम् – ‘एवं सिद्धार्थ !, परं मन्येऽहं यद् भवतः कथनस्याऽयमेव भावार्थः स्यात्, यथा - नदी हि समकालमेव सर्वत्र वर्तते - उद्गमस्थाने, मुखे, प्रपाते, घट्टे, प्रवाहे, समुद्रे, पर्वते चेति सर्वेष्वपि स्थानेषु; तथा तस्याः कृते केवलं वर्तमानकाल एव विद्यते, भूतकालस्य भविष्यत्कालस्य च छायाऽपि तस्यां नैव पततीति ?' एवमेव' – सिद्धार्थोऽब्रवीत्, 'यदा चाऽहमेतज्ज्ञातवान्, मया मे जीवनमपि समीक्षितं, तदपि च नदीतुल्यमेवाऽवर्तत । ११९ Page #127 -------------------------------------------------------------------------- ________________ बालः सिद्धार्थः, प्रौढः सिद्धार्थो वृद्धश्च सिद्धार्थः केवलं छायाभिरेव भिद्यन्ते न पुनस्तत्त्वतः । अतीते सिद्धार्थस्य पूर्वजन्मान्यपि नाऽऽसन् भविष्यति च तस्य मरणं ब्रह्मणि च तन्निवर्तनमपि नाऽस्ति । अतीतं नामाऽनागतं च नाम न किमपि विद्यते. प्रत्येकं वस्तु केवलं वर्तमानमेवाऽस्ति, वर्तमान एव च वास्तविकोऽस्ति' । सिद्धार्थोऽतीव प्रसन्नतया वदन्नासीत् । अनयोपलब्ध्या स भृशं प्रमुदित आसीत् । 'जीवनस्य सर्वमपि दुःखं, भयं, सन्तापश्च काले एव निहिता नाऽऽसन् खलु ? जगतः सर्वाण्यपि कष्टानि पापानि च काले जिते एव, काले निरस्ते एव वा न जितानि खलु ?' - स सोत्साहं वदन्नासीत्, किन्तु वासुदेवः केवलं मधुरं स्मित्वा स्वशिरश्चालितवांस्तदभ्युपगमदर्शनार्थं, स्वकार्ये च प्रवृत्तः । ___ यदा च प्रावृषि नद्यां पूरं समागतं तरङ्गमालाकुला च सोच्चैर्जग तदा सिद्धार्थः पुनरप्यकथयत् – 'किं नैतत् तथ्यं मित्र ! यन्नद्येषा बहून् ध्वनीन् धारयति ? राज्ञो, योधस्य, गोः, पक्षिणो, गर्भवत्याः स्त्रियो, निःश्वसतो जनस्य सहस्रशश्चाऽन्ये ध्वनयोऽस्यां न सन्ति खलु ?' _ 'सत्यमेतद् भोः !', वासुदेवः शिरश्चालनपूर्वं कथितवान् - 'नद्यामस्यां सर्वेषामपि जीवानां ध्वनयः सन्त्येव' ।। 'तथा जानाति भवान् ननु, यद् - यदाकदाचित् कश्चन तस्याः सहस्रशो ध्वनीन् समकालमेव शृणोति तदेयं किमुच्चारयति ?' – सिद्धार्थोऽग्रेऽपृच्छत् ।। वासुदेव उच्चैर्हसितवान् । ततः स सिद्धार्थं प्रति किञ्चिदवनम्य तस्य कर्णे पवित्रमोङ्कारमुच्चारितवान् । एतदेव च तदासीद् यत् सिद्धार्थेनाऽपि श्रुतम् । १२० Page #128 -------------------------------------------------------------------------- ________________ गच्छता कालेन सिद्धार्थमुखे विलसत्स्मितं वासुदेवस्मितमनुकर्तुमारब्धम् । तदेव तेजस्तदेव सुखं, ता एव च प्रकाशिता मुखरेखाः, तदेव च बालसहजं मौग्ध्यं, तदेव च वृद्धजनोचितं गाम्भीर्यम् । बहवः प्रवासिनस्तौ द्वावपि नाविको सङ्गतौ दृष्ट्वा ‘भ्रातरावेता'विति निश्चिन्वन्ति स्म । बहुधा सायाह्ने तौ द्वौ सममेव नदीतटे वृक्षस्कन्धमवलम्ब्योपविशतः स्म । ततो निःशब्दतया द्वावपि नदीं शृणुतः स्म । नद्येषा तयोः कृते न केवलं जलमासीदपि तु जीवनस्याऽऽत्मनः शाश्वततत्त्वस्य च ध्वनिरासीत् । बहुशश्चैवमपि भवति स्म यन्नदीश्रवणकाले द्वयोरपि चिन्तनं तुल्यमेव भवति स्म, कदाचित् पूर्वतनदिनस्य संवादविषयकं, कदाचिच्च कञ्चन प्रवासिनमधिकृत्य वा - यस्य स्थित्या नियत्या च तयोश्चित्तमाक्रान्तं स्यात्, कदाचिन्मरणविषयकं, कदाचिच्च बाल्यमाश्रित्य । तथा यदा नदी तौ सममेव किञ्चन शुभं वदति स्म तदा द्वावपि परस्परं पश्यतः स्म, तुल्यमेव विचारं कुर्वन्तौ, तुल्यस्यैव प्रश्नस्य च तुल्यमेवोत्तरं लब्ध्वा प्रमुदितौ भवतः स्म । ___ बहुभिः प्रवासिभिरनुभूयते स्म यन्नावो नाविकाभ्यां च किञ्चनाऽद्भुतं तत्त्वं निःसरति स्मेति । कदाचित् त्वेवमपि भवति स्म यद् द्वयोर्नाविकयोरन्यतरस्य मुखं दृष्ट्वा कश्चन यात्रिक: स्वजीवनस्य विषये, विपदश्चाऽधिकृत्य कथनमारभते स्म, स्वकृतानि पापानि निवेदयति स्म, आश्वासनार्थमनुशासनार्थं वा प्रार्थयते स्म । कदाचित् पुनः, कश्चन नद्याः कथनं श्रोतुं तयोः सान्निध्ये रात्रियापनार्थमपि चाऽनुज्ञां गृह्णाति स्म । कदाचिच्च केचन कुतूहलिनो - द्वौ प्राज्ञौ साधुचरितौ योगिनौ वा नदीघट्टे वसत - इति कुतश्चिच्छ्रुत्वा समायान्ति स्म, तौ च बहून् प्रश्नानपि पृच्छन्ति स्म, किन्तु न किञ्चन प्रत्युत्तरं लभन्ते स्म १२१ Page #129 -------------------------------------------------------------------------- ________________ नाऽपि च प्राज्ञौ योगिनौ वाऽप्युपलभन्ते स्म । केवलं द्वौ सौहार्दपूर्णौ वृद्धजनौ ते पश्यन्ति स्म, यौ तेषां मूकावथ च विचित्रौ मूर्खो च प्रतिभातः स्म । ततश्चोपहसन्तस्ते कथयन्ति स्म यदीदृशान् निरर्थकान् प्रवादान् प्रसारयन्तो जना नूनं मूर्खा अन्धश्रद्धालवश्च सन्तीति ! | वर्षाणि व्यतीतानि किन्तु द्वयोरन्यतरोऽपि तेषां गणनां नैव कृतवान् । अथाऽन्यदा गौतमबुद्धस्य शिष्याः केचन भिक्षवो नदीतटे समागता नदीपारप्रापणार्थं च तयोर्विज्ञप्तम् । नौचालनसमये भिक्षूणां सकाशात् ताभ्यां ज्ञातं यन्महात्मा बुद्धो गभीरतया रुग्णोऽस्ति, अचिरादेव च चरमं मरणं नाम निर्वाणं प्राप्य मोक्षं प्राप्स्यतीति, अतस्ते यथाशीघ्रं तत्र स्वगुरुचरणयोरन्तिमं दर्शनमुपदेशं च प्राप्तुं गच्छन्तः सन्तीति । ततश्चाऽल्पेनैव कालेन बहवः श्रमणगणास्तेनैव मार्गेण स्वगुरोः पार्श्वे गन्तुं समागताः । प्रायशः सर्वेऽपि भिक्षवो यात्रिणश्च केवलं गौतमबुद्धस्य विषये तन्निर्वाणस्य विषय एव च वदन्त आसन् । युद्धार्थं प्रयाणस्य समये राज्याभिषेककाले वा यथा जना सर्वदिग्भ्यः समागच्छन्ति, यथा वा मधुकोशं प्रति मधुमक्षिकाणां सङ्घाताः समागच्छन्ति, तथैव सहस्रशो जनाश्चुम्बकीयमाकर्षणमनुभवन्त इव मृत्युशय्यायां शयितं बुद्धं वन्दितुं, तन्निर्वाणोत्सवे सम्मिलितुं युगोद्धारकस्य शाश्वततत्त्वप्राप्तेरवसरे च सन्निहिता भवितुं समागच्छन्ति स्म । निर्वाणोन्मुखस्याऽस्य महर्षेविषये सिद्धार्थश्चिराय चिन्तितवान् यस्य वचनानि सहस्रशो जनानां जीवनानि परावर्तितवन्ति, यस्य च वचांसि स स्वयमप्येकदा श्रुतवानासीत्, यस्य च पवित्रं स्वरूपं सोऽहोभावेन दृष्टवानासीदेकदा । स तस्य वात्सल्यस्य विषये चिन्तितवान्, तेन प्ररूपितं निर्वाणमार्गोपदेशं स्मृतवान् । तस्य प्रतिभातं यत् तदा तेनोच्चारितास्ते शब्दाः किलौद्धत्यपूर्णा १२२ Page #130 -------------------------------------------------------------------------- ________________ अकालपक्वा इव चाऽऽसन् । स स्मृतवान् यद् दीर्घकालं यावद् गौतमस्य प्रभावान्मुक्तो भवितुमपि स नाऽशकत् । एवं सत्यपि स तस्योपदेशांस्तु नैव स्वीकृतवान् । नैव, वास्तविकः सत्यगवेषको हि कदाऽपि कस्याऽप्युपदेशं नैव स्वीकुर्याद, यदि स यथार्थतया किञ्चित् प्राप्तुमिच्छुक: स्यात् । येन च किन्तु किञ्चित् प्राप्तमस्ति स तु सर्वानपि मार्गान् सर्वाण्यपि च ध्येयानि समनुमोदते, यतः स जानात्येव यत् शाश्वततत्त्वं ये प्राप्ता ये च पूर्णानन्दमेव श्वसन्ति ते हि सर्वथाऽभिन्ना एव । अथैकदा, बहुषु जनेषु निर्वाणोन्मुखस्य बुद्धस्य दर्शनार्थं गच्छत्सु, पूर्वकालस्य गणिकानां श्रेष्ठा सुन्दरी कमलाऽपि तदर्थं निर्गताऽऽसीत् । बहोः कालात् पूर्वमेव सा स्वस्याः पूर्वतनजीवनान्निवृत्ताऽऽसीत् । निजं क्रीडोद्यानं सा बौद्धभिक्षूणां विहारार्थं समर्पितवत्यासीत्, स्वयमपि च बुद्धोपदेशानां शरणं गृहीतवत्यासीत् । सम्प्रति च यात्रिणां सेवां कुर्वतीनां स्त्रीणां गणे सम्मिलिताऽऽसीत् । मरणशय्यास्थितं गौतमं ज्ञात्वा साऽपि सामान्यवस्त्राणि परिधाय पादचारेणैव स्वपुत्रेण सह प्रस्थिता । जनैः सह तौ द्वावपि नदीतटं यावत् प्राप्तौ । किन्तु स बालकोऽचिरादेव श्रान्तोऽभवत्, स गृहं प्रतिगन्तुमैच्छत्, विश्रान्तिमैच्छत्, खादितुं चैच्छत् । स वारं वारं रुष्टो भवति स्माऽश्रूणि च स्रावयति स्म । अनेकशः कमलया तेन सह विश्रान्तव्यं भवति स्म । मातुविरोधं कर्तुमसौ चिराभ्यस्त आसीत् । कमलया वारं वारं स भोजयितव्य आसीत्, आश्वासयितव्य आसीत्, कदाचिच्चोपालब्धव्योऽप्यासीत् । कस्यचित् पवित्रस्याऽप्यपरिचितस्य जनस्य कृते कस्मिंश्चिदज्ञाते स्थले गन्तुं खेदावहा कष्टपूर्णा च यात्रा किमर्थं वा कर्तव्येति सोऽवगन्तुं न पारयति स्म । 'म्रियतां नाम सः । तेन बालकस्य मम किम् ?' इति तस्य चिन्तनमासीत् । १२३ Page #131 -------------------------------------------------------------------------- ________________ यदा यात्रिकाणां गणो वासुदेवनौकातोऽनतिदूरे आसीत् तदैव लघुसिद्धार्थः स्वमातरमवदद् यत् स विश्रान्तुमिच्छतीति । कमला स्वयमपि श्रान्ताऽऽसीत् । अतः स बालकाय कदलीफलं खादितुं दत्त्वा स्वयं चैकस्य वृक्षस्याऽधस्तान्नेत्रे निमील्य किञ्चिदिव शयिता। किन्तु, सहसैव तस्या मुखाच्चीत्कारो निर्गतः । एतच्छ्रुत्वा चकितो बालो यावन्मातुर्मुखं विलोकितवान् तावत् तद् भयेन विच्छायं दृष्टम् । तावता च तस्या वस्त्रेभ्यः कश्चन लघुः कृष्णसर्पो निर्गतो येन कमला दष्टाऽऽसीत् । ततो भयभीतौ तौ द्वावपि ततो धावित्वा यात्रिकगणेन सम्मिलितौ । यदा च तौ घट्ट प्राप्तौ तदैव कमलाऽग्रे गन्तुमशक्ता सती तत्रैव पतिता । एतेन भीतो बालको मातरं परिष्वज्य सहायार्थमुच्चैरारटितवान्। साऽपि चोच्चै रुदती सहायार्थं पूत्कृतवती । तयोश्चाऽऽरावा नौकासन्नस्थितेन वासुदेवेन श्रुताः । स झटिति तत्राऽऽगत्य कमलां स्वीयहस्ताभ्यां वहन् कुटीरं प्रति गतः । बालकोऽपि तत्पृष्ठत एव धावितः, शीघ्रं च ते उटजं प्राप्ताः । इन्धनानि प्रज्वालयन् सिद्धार्थस्तत्रैवाऽऽसीत् । तेन मुखमुन्नम्य प्रथमं तु बालकवदनं दृष्टम् । दृष्टमात्रे च तस्मिन् तन्मनसि किञ्चित् स्मरणमभवत् । ततश्च स वासुदेवहस्तयोः स्थितां कमलां दृष्टवान् शीघ्रमेव च तां निःसञ्जामपि प्रत्यभिज्ञातवान् । ततश्च तेन ज्ञातं यत् स बालस्तु स्वस्यैवाऽपत्यमासीत् यन्मुखं तस्य किञ्चित् स्मारितवत् । तस्य हृदयस्पन्दनानि वर्धितानि । ___कमलाया व्रणं जलेन स्वच्छीकृत्यौषधेन पूरितम् । किन्तु तत् कृष्णवर्णं जातमासीत्, तस्याः शरीरमपि च शोथमयं सञ्जातमासीत् । तस्या मुखे चेतनप्रदमौषधं प्रक्षिप्तं, तेन साऽल्पवेलायामेव ससञ्ज्ञा जाता । सा कुटीरे सिद्धार्थशय्यायामेव १२४ Page #132 -------------------------------------------------------------------------- ________________ शयिताऽऽसीत्, तथा सिद्धार्थो, यस्मिन् सा पूर्णतयाऽनुरक्ताऽऽसीत्, स, तत्पुरत एव स्थितो दृष्टस्तया । 'किमहं स्वप्नं पश्यामि वे 'ति चिन्तयन्ती सा स्मयमाना स्वदयितस्य मुखं विलोकितवती । शनैः शनैस्तया स्वपरिस्थितिरवबुद्धा, सर्पदंशोऽपि स्मृतः, ततश्च व्याकुलतया सा स्वपुत्रमाहूतवती । 'चिन्तां मा कार्षीः, सोऽत्रैवाऽस्ति' – सिद्धार्थ उक्तवान् । तन्नयनयोरन्तर्निरीक्षितवती सा विषमयशरीरवत्त्वात् कष्टेनाऽवदत् – 'भवान् वृद्धो जातोऽस्ति प्रिय !, भवतः केशा अपि पलिताः सञ्जाताः । एवं सत्यपि भवान् तस्य युवश्रमणस्य सदृश एवाऽसि य एकदा विवस्त्रो रजोगुण्डितपादश्च ममोद्याने समायातः । कामस्वामिनं मां च विहाय यदा भवान् गतवांस्ततोऽप्यधुना भवानाऽऽधिक्येन श्रमणवत् प्रतिभाति । भवतो नेत्रे तस्य युवश्रमणस्येवैव स्तः सिद्धार्थ ! | अहम वार्धक्यग्रस्ता सञ्जाताऽस्मि, किं भवान् मां प्रत्यभिजानाति ?' सिद्धार्थः स्मितवान् कथितवांश्च 'प्रिये कमले ! अहं त्वां शीघ्रमेव प्रत्यभ्यजानम्' । ततस्तस्या नेत्रे विषप्रभावाद् घूर्णिते निमीलिते च । एतद् दृष्ट्वा बालको रोदनमारब्धवान् । तदा सिद्धार्थस्तमुत्सङ्गे शाययित्वा विलपन्तं तं मस्तके लालितवान्। अथ च बालस्य तस्य मुखं दृष्ट्वा, स स्वीयशैशवेऽभ्यस्तमेकं ब्राह्मणगानं स्मृतवान् । ततो मन्दमन्दं स मधुरस्वरेण तं गानं गीतवान् । गानशब्दा अप्यतीतं शैशवं च समुल्लङ्घ्य समागता इव तन्मुखान्निःसरन्ति स्म । गानं श्रावं श्रावं स बाल ईषत् क्रन्दन्नेव निद्राधीनो जातः । सिद्धार्थस्तं वासुदेवशय्यायां शायितवान् । ततश्चल्लयामोदनं पचन्तं वासुदेवं दृष्टवान् । सोऽपि स्मितं कृतवान् । १२५ Page #133 -------------------------------------------------------------------------- ________________ 'एषा म्रियमाणाऽस्ति' – सिद्धार्थोमृदुतयोक्तवान् ।। वासुदेवः शिरश्चालितवान् । चुल्लेरग्नेः प्रकाशस्तस्य मुखे प्रतिभासमान आसीत् । यातनया तस्या वदनं विवर्णं जातमासीत् । स दुःखं संविभजन्निव शान्त्यैकाग्रतया धैर्येण च तस्याः पीडायुक्तं मुखं निरीक्षितवान् । विदग्धा कमला दृष्टिपातेनैवैतदवगतवती । ___तमेव पश्यन्ती साऽकथयत् – 'मम प्रतिभाति यद् भवतो नयने अपि परावर्तिते स्तः । ते किञ्चिदिव विशिष्टे जाते स्तः । भवानितोऽपि सिद्धार्थ एवेत्येवं भवन्तं कथं प्रत्यभिजानीयाम? यतो भवान् सिद्धार्थः सन्नपि नास्ति तत्सदृशः !'। सिद्धार्थः किमपि नोवाच । केवलं शान्तभावेन तस्या नयनयोरेव विलोकितवान् । 'किं भवता स्वध्येयमधिगतम् ? किं भवताऽन्तः शान्तिः प्राप्ता वा ?' - सा पृष्टवती ।। सिद्धार्थः केवलं स्मितवान्, स्वहस्तं च तद्धस्तोपरि स्थापितवान् । 'आम्, मम दृश्यते एव; अहमपि शान्ति प्राप्स्याम्येव' - सा सोत्साहमुक्तवती । ___'भवत्या प्राप्तैव सा किले'ति मृदुस्वरेण सिद्धार्थः कथितवान् । कमला स्थिरतया तमेव दृष्टवती । गृहान्निर्गमनकाले हि तस्या उद्देशस्तु गौतमबुद्धस्य दर्शनार्थं गमनमासीत्, तत्र च गत्वोपशमलेशस्य प्राप्तिरासीत्; किन्तु तत्स्थाने सा केवलं सिद्धार्थमेव प्राप्ता । तच्च शोभनमेवाऽऽसीत् तस्याः कृते, तथा शोभनं यथा सा महात्मानं बुद्धं दृष्ट्वाऽन्वभविष्यत् ! एतच्च सा तस्य कथयितुमिष्टवती किन्तु तस्या जिह्वा तदिच्छां नैवाऽनुवर्तितवती । शान्तभावेन सा तं विलोकितवती, स च १२६ Page #134 -------------------------------------------------------------------------- ________________ तस्या दृष्टेः क्रमशः क्षीयमाणं जीवनं निरीक्षितवान् । यदा च तस्या नयनतोऽन्तिमः पीडाबिन्दुनिष्क्रान्तः, यदा च तस्या शरीरादन्त्यः कम्पोऽतिक्रान्तः, सिद्धार्थः स्वीयाङ्गुलीभिस्तन्नयनच्छदे पिहितवान् । ततः स चिराय तस्या मृतं वदनं निरीक्षमाणस्तत्रैवोपविष्टवान् । तस्या वृद्धं श्रान्तं च मुखं, तस्याः आकुञ्चितावधरौ च विलोक्य स स्मृतवान् यदेकदा, स्वजीवनस्य वसन्तसमये, कथं तेनेमावेवाऽधरौ प्रत्यग्राञ्जीरखण्डेन सहोपमिता-वास्तामिति । दीर्घकालं यावत् स तदीयं गतशोभं वलीपूर्णं चाऽऽननं निविर्णितवान्, सहैव स स्वीयं वदनमपि तादृशमेव विवर्णं मृतप्रायं च जातमस्तीत्यनुभूतवान्, समकालमेव च स तस्याः स्वस्य च वदनं तारुण्यपूर्ण रक्ताधरं भासुरनयनं च साक्षात्कृतवान्, ततश्च वर्तमानस्य समकालीनास्तित्वस्य चाऽनुभूत्याऽऽक्रान्तोऽभवत् । अस्मिन् क्षणे स प्रत्येकं जीवस्याऽविनाशित्वं प्रत्येक क्षणस्य च शाश्वतत्वमत्यन्तं तीव्रतयाऽनुभूतवान् । यदा स उत्थितस्तदा वासुदेवेन तस्मै किञ्चिदोदनादिकमशनार्थं दत्तं किन्तु सिद्धार्थस्तन्नैव भुक्तवान् । ततो गोष्ठे, यत्राऽजाऽऽसीत् तत्र, किञ्चन पलालमास्तीर्य वासुदेवः शयितवान्, परन्तु सिद्धार्थः कुटीराद् बहिर्गत्वाऽऽरात्रि नदीमेव शृण्वन्, स्वजीवनस्य च सर्वैरपि कालखण्डैर्युगपदेवाऽऽक्रान्तो व्याप्तश्चाऽतीते न्यमज्जत् । अथाऽपि काले काले समुत्थाय स कुटीरद्वारं गत्वा निरीक्षितवान् यद् बालः स सुप्तोऽस्ति न वेति । प्रत्यूषे, वासुदेवो गोष्ठाद् बहिरागत्य स्वमित्रपार्वं गतवान् । 'भवान् नैव शयितः खलु !' - स पृष्टवान् । 'नैव वासुदेव !, अहमत्रैव नदीं शृण्वन्नुपविष्टः । सा मां १२७ Page #135 -------------------------------------------------------------------------- ________________ सुबहु कथितवत्यस्ति । सा मम चित्ते समाधायकानेकत्वविचारान् पूरितवती'। 'भवता गाढव्यथाऽनुभूताऽस्ति सिद्धार्थ !, एवंसत्यपि अहं पश्यामि यद् विषादो भवद्धृदये नैव प्रविष्टः' । 'नैव, प्रियमित्र !, किमर्थं मया विषण्णेन भवितव्यम् ? योऽहं समृद्धः प्रसन्नश्चाऽऽसं सोऽहमधुनाऽधिकं समृद्धोऽधिकं च प्रसन्नो जातोऽस्मि । यतो मे पुत्रो मम समुपलब्धोऽस्ति' । _ 'भवतः पुत्रं त्वहमप्यभिवादयामि । किन्तु सिद्धार्थ ! अधुना किञ्चित् कार्यं कुर्याव । बहु करणीयं विद्यते । यस्यां शय्यायां मे पत्नी मृता तत्रैव कमलाऽपि मृता । अतो यस्मिन् स्थाने मयैकदा मत्पत्न्याश्चिता विरचिताऽऽसीत् तत्रैव कमलायाश्चितामपि विरचयेव' । __ ततो बाले शयाने एव ताभ्यां कमलार्थमेका चिता विरचिता। १२८ Page #136 -------------------------------------------------------------------------- ________________ A ikeamar Page #137 -------------------------------------------------------------------------- ________________ N Page #138 -------------------------------------------------------------------------- ________________ ६. पुत्रः भीतो रुदंश्च बालकः स्वमातुरन्तिमसंस्कारमकरोत् । ततः सिद्धार्थे तं पुत्रतयाऽऽह्वयति वासुदेवकुटीरे वसनार्थं चाऽऽमन्त्रयति स व्याकुलेन विषण्णेन च मनसा तमवलोकितवान् । दिनानि यावत् म्लानमुखः स स्वहृदयभावान् निरुध्य, स्वीयभाग्येन सह कलहं कुर्वन् युध्यमानश्चेव शून्यावलोकनं कृतवान् ।। तस्य मनःस्थिति विजानन् सिद्धार्थस्तमेकाकिनं विमुक्तवान्, यतः स तस्य शोकं समाद्रियते स्म । ‘स मां नैव जानाति, जनकत्वेन च मयि स्नेहमपि नैव धारयितुं शक्तः' - इति सिद्धार्थो जानाति स्म । क्रमशः स एतदपि दृष्टवान् अनुभूतवांश्च यदेकादशवर्षीयोऽयं बालो मातुरतिलालनादूषितोऽस्ति धनिकजनोचितरीतिभिश्च संवर्धितोऽस्ति, तस्य चोत्तमाहारस्य कोमलशय्यायाश्चाऽभ्यासोऽस्ति तथा झटित्येवाऽत्रत्येऽपरिचिते दारिद्य्पूर्णे च परिसरे सन्तोषेण स्थातुं नैव शक्त आसीत् । अतः स तं नाऽनुशास्ति स्म नाऽपि च कुत्रचिदर्थे निर्बन्धं करोति स्म । प्रत्युत तदर्थमुत्तममाहारजातं रक्षति स्म, तस्य च बहूनि कार्याणि स्वयमेव कुरुते स्म । स चिन्तयति स्म यदहं शनैः शनैः सौहार्द-पूर्णव्यवहारेण चाऽस्य प्रेम सम्पादयिष्ये - इति ।। __ यदा बालस्तत्पावें समागतस्तदा सिद्धार्थः स्वं समृद्धं सुखिनं चाऽमन्यत, किन्तु गच्छता कालेनाऽपि, यदा बालोऽयं सौहार्दरहितः प्रतीपश्चैवाऽवस्थितः, यदा स औद्धत्यमवज्ञां च समाचरितवान्, कार्ये उत्साहं नैव दर्शितवान्, वृद्धौ प्रति विनयं नैव धारितवान्, वासुदेवस्य च वृक्षेभ्यः फलानि चोरयित्वा खादितवांस्तदा सिद्धार्थेनस्पष्टमवबुद्धं यत् पुत्रेण सह सुख १३१ Page #139 -------------------------------------------------------------------------- ________________ शान्त्योः स्थाने केवलं दुःखं क्लेशश्चैव प्राप्तौ । एवं सत्यपि केवलं पुत्रस्नेहादेव स पुत्रं विना प्राप्यमाणे सुख- शान्ती परित्यज्य पुत्रस्नेहेन प्राप्यमाणी दु:ख- क्लेशावेव स्वीकृतवान् । सिद्धार्थपुत्र उटजे तिष्ठति स्मेति द्वावति वयस्को कार्यविभागं कृतवन्तौ । वासुदेवो नौकासम्बन्धिनं सर्वं कार्यं करोति स्म, सिद्धार्थश्च स्वपुत्रेण सह स्थितः सन् कुटीरे क्षेत्रे च कार्यं करोति स्म । बहून् मासान् यावत् सिद्धार्थो धैर्येण प्रतीक्षितवान्, आशंसयाऽनया यत् – कदाचित्त्वयं बालो ममा ISनुकूलो भविष्यति, मम स्नेहं स्वीकरिष्यति पुनश्च मे प्रत्यर्पयिष्यति । एतच्च बहुकालं यावत् वासुदेवो निरीक्षितवांस्तूष्णींभूय । यदा चैकस्मिन् दिने पुत्रः स्वपितरं कोपेनाऽपमानं कृत्वा दुःखितं कृतवान् द्वे च भाजने भञ्जितवांस्तदा वासुदेवः सायाह्ने स्वमित्रमेकतो नीत्वा कथितवान् 'क्षम्यतां भोः !, किन्त्वहं भवते मित्रत्वेन कथयन्नस्मि । अहं पश्यामि यद् भवान् चिन्ताकुलो दु:खितश्चाऽस्ति । भवतः पुत्रो भवन्तं मां चाऽपि खेदयन्नस्ति । बालः पक्षी ह्ययं भिन्नजीवनेन भिन्ननीडेन चाऽभ्यस्तोऽस्ति । भवानिव सोऽत्र वैभवान्नगराच्च वैराग्येण निर्वेदेन वा नैव समागतोऽस्ति, तेनैतज्जीवनं बलाज्जीवितव्यमापतितमस्ति । मया नद्यै अप्येतदर्थं पृष्टमस्ति, बहुवारम् । किन्तु सा मामुपहसितवती भवन्तं चाऽपि । साऽऽवयोर्मूर्खत्वं दृष्ट्वोच्चैर्हासं कृतवती । भोः ! जलं जले एव गमिष्यति, यौवनं च यौवने । भवतः पुत्रोऽत्र कदाऽपि सुखी नैव भविष्यति । भवानपि नौ पृच्छतु शृणोतु च तत्कथनम्' । I खिन्नः सिद्धार्थस्तस्य करुणार्द्रं मुखं दृष्टवान्, तत्र च प्रभूताः प्रशस्ता वलय आसन् । स मृदुतयोक्तवान् – 'कथमहं तस्मात् पृथग् भवेयम् ? इतोऽपि मे समयं ददातु प्रियवयस्य !, १३२ Page #140 -------------------------------------------------------------------------- ________________ अहं तदर्थमेव परिस्थित्या युध्यमानोऽस्मि, तस्य हृदयस्याऽन्तः प्रवेष्टुं प्रयत्नं कुर्वन्नस्मि । अहं तं प्रेम्णा धैर्येण च जेष्यामि । नद्यप्येषा तेन सहैकदा संवादं करिष्यति यतः सोऽपि नद्यैवाऽऽहूतोऽस्ति । वासुदेवस्य स्मितमितोऽपि स्निग्धं जातम् । 'आम्, सोऽपि नद्याऽऽहूतोऽस्ति, सोऽपि च शाश्वतजीवने समभागी वर्तते । किन्तु भवान् जानाति यत् किमर्थं स आहूतोऽस्ति ?, केन वा मार्गेण ?, कस्मै वा कार्याय ?, कैर्वा दुःखैः सह ? तस्य दुःखानि स्वल्पानि न भविष्यन्ति । तस्य हृदयं हि दर्पयुतं कठोरं चाऽस्ति । स प्रायो बहु सहिष्यते, बहून् दोषान् समाचरिष्यति, बह्वन्याय्यं सेविष्यते, बहूनि च पापानि करिष्यति । कथयतु मां मित्र !, किं भवान् स्वपुत्रं समनुशासयन्नस्ति ? किं स भवदाज्ञाकारी वर्तते ? किं भवांस्तं ताडयति दण्डं करोति वा?' । 'नैव वासुदेव ! अहमेतेषामेकतमदपि नैव करोमि' । 'आम्, अहं जानामि । भवान् तेन सह कठोरो न भवति, तं नैव दण्डयति नाऽपि चाऽऽज्ञापयति – यतो भवान् चिन्तयति यन्मृदुता हि कठोरत्वतः प्रबला, प्रेम हि बलात्कारादपि बलवत्, जलं हि पाषाणात् सबलमिति । शोभनमस्त्येतत् । अहं प्रशंसामि भवन्तम् । किन्तु चिन्तयतु भवान् यत् कठोरत्वानाचरणं दण्डकारणं च किं भवत्पक्षे दोषो नास्ति वा? भवतः प्रेम तत्कृते बन्धनं तु न भवति खलु ? स्वसौजन्येन धैर्येण च भवान् तं लज्जितं कुर्वन् प्रत्यहं तस्य कृते जीवनमधिकं दुष्करं तु नैव कुर्वन्नस्ति खलु ? किं भवान् एनमुद्धतं दुर्ललितं च बालकं, द्वाभ्यां वृद्धाभ्यां कदलीखादकाभ्यां सहाऽस्मिन् कुटीरे, प्रसभं वसितुं न नियोजयन्नस्ति खलु, ययोः कृते ओदनमपि विशिष्टभोजनं भवति, ययोर्विचारास्तत्समा नैव भवितुमर्हन्ति, ययोर्हृदये वृद्ध शान्ते Page #141 -------------------------------------------------------------------------- ________________ ततश्च भिन्नतया स्पन्दमाने स्तः ? किं स एतादृशेनाऽऽचरणेनाऽधिकं निरुद्धो दण्डितश्च न भवेत् खलु ?' । व्यग्रः सिद्धार्थो भुवं विलोकयन् मन्दस्वरेण पृष्टवान् – 'तहि मया किं वा कर्तव्यम् ?' वासुदेवेनोक्तं – 'तं नगरे नीत्वा तन्मातृगृहं प्रापयतु । तत्र सेवकाः स्युरेव । तानस्य सेवायां नियोजयतु । यदि च ते न स्युस्तदा तं शालायां प्रवेशयतु, न च शिक्षणार्थं किन्तु तत्राऽन्ये बाला बालिकाश्च स्युर्यैः सहाऽयं सम्पर्कं कुर्यात् स्वीयं विश्वं च परिचिनुयात् । किं भवताऽत्राऽर्थे कदाऽपि चिन्तितं वा ?' 'भवान् मे मनोगतं सर्वमपि जानात्येव' – सिद्धार्थः सखेदमुक्तवान् । 'अहं बहुश एतदर्थे चिन्तितवान् अस्मि । किन्तु, य ईदृशः कठिनहृदयोऽस्ति स जगति कथं व्यवहरिष्यति ? किं स श्रेष्ठम्मन्यो न भविष्यति? किं स भौतिकसुखे समृद्धावैश्वर्ये च भ्रष्टो नष्टश्च न भविष्यति? कि स स्वपितृसमाचरितान् दोषान् न पुनरावर्तयिष्यते ? एवं च स किं संसारे निमग्नो न भविष्यति?'। वासुदेवः पुनरपि स्मितवान् । स मृदुतया सिद्धार्थस्य स्कन्धे हस्तं स्थापयित्वोक्तवान् – 'एतत् सर्वं नद्यै पृच्छतु मित्र ! तदुक्तं शृणोतु ततश्च हसतु ! किं सत्यमेव भवान् चिन्तयति यद् भवता समाचरितान् दोषान् भवत्पुत्रो नैव समाचरिष्यति ? किं ततो भवांस्तं संसाराद् रक्षितुं प्रभविष्यति ? कथम् ? किमनुशासनेन ? प्रार्थनाभिः ? उपदेशैर्वा ? प्रियमित्र ! भवतैवाऽत्र कदाचित् मे कथितां ब्राह्मणपुत्रस्य सिद्धार्थस्य बोधप्रदां कथां किं भवान् विस्मृतवान् किल ? श्रमणमपि सिद्धार्थं संसारात् पापाल्लोभान्मौर्थ्याच्च को वा रक्षितवान् ? किं तस्य पितुर्धर्मनिष्ठा ? किं तस्य गुरोरुपदेशाः ? तस्य स्वीयो बोधः ? १३४ Page #142 -------------------------------------------------------------------------- ________________ किं वा तस्य सत्यान्वेषणं तं समरक्षत् ? कः पिता कतमो वा गुरुस्तं स्वच्छन्दतया जीवनं जीवन्तं, जीवनं दोषैर्मलिनीकुर्वन्तं, स्वं पापभरेण पूरयन्तं, विषस्य कटु पानं पिबन्तं, प्रान्ते च स्वयमेव स्वीयं पन्थानमन्वेषयन्तं च न्यवारयत् ? किं भवांश्चिन्तयति यत् कश्चनैतस्मात् क्रमाद्रक्षितः स्यात् ? यदि परं भवतो लघुपुत्रः, यतो भवांस्तं दुःखेभ्यः क्लेशेभ्यो मोहाच्च रक्षितुमिच्छतीत्यतः ? नैव सिद्धार्थ ! नैव, यदि भवान् स्वपुत्रस्य कृते दशवारमपि मृत्वा जन्म धारयिष्यति तथाऽपि तस्य नियतिमणुमात्रमपि परावर्तयितुं नैव शक्ष्यति !' । वासुदेवो ह्येतावन्मात्रं न कदाप्युक्तवानासीत् । सिद्धार्थस्तस्योपकारं मत्वा दुःखितहृदयेन कुटीरं प्रविशत्, किन्तु निद्रातुं शक्तो नाऽभवत् । स्वयमचिन्तितमज्ञातं च न किमपि वासुदेवेन कथितमासीत् । किन्तु ज्ञानादपि पुत्रप्रेम, पुत्रासक्तिः, पुत्रवियोगभयं च बलवत्तरमासीत् । न हि कदाचित् स कस्यचित्कृते स्वहृदयमेवं हारितवानासीत्, न हि कञ्चनाऽपि स एवंरीत्याऽन्धीभूय, दुःखीभूय, हताशीभूयाऽथाऽपि च सुखितम्मन्यः प्रीतवानासीत् । स स्वमित्रस्योपदेशं स्वीकर्तुं नैवाऽशक्नोत्, स्वपुत्रं च परिहर्तुं शक्तो नैवाऽऽसीत् । स स्वमाज्ञापयितुं स्वपुत्रमन्वज्ञापयदिव, स्वं प्रत्यविनीतं च भवितुमप्यन्वमन्यतेव । स तूष्णीभूय धैर्येण प्रतीक्षामकरोत्, प्रत्यहं च मैत्र्या धैर्यस्य च मूकं युद्धं प्रारभत । वासुदेवोऽपि मौनतया प्रतीक्षामकरोत्, सस्नेहं सद्भावेन क्षमाशीलतया च । द्वे अपि मित्रे धैर्यस्य तु स्वामिनावास्ताम् । एकदा, यदा बालकस्य मुखं तं कमलामस्मारयत् तदा, सहसैव सिद्धार्थो बहुकालपूर्वं कमला तं यत्कथितवत्यासीत् तदस्मरत् । 'भवान् न कस्मिंश्चिदपि स्निह्येत् कदाऽपि' इति सा तं कथितवती, सोऽपि च तत् स्वीकृतवानाऽऽसीत् । स स्वं १३५ Page #143 -------------------------------------------------------------------------- ________________ तारया सहाऽन्यांश्च जनान् वृक्षात् पतद्भिः पर्णैः सह तुलितवान् आसीत्, । एवं सत्यपि स तस्याः शब्देषु स्थितमुपालम्भमनुभूतवानासीत् । एतत् तु सत्यमेवाऽऽसीत् यत् सः, स्वस्याऽपि विस्मरणं येन भवेत् तादृशं प्रेम, कस्याऽपि विषयेऽनुभूतवान् नाऽऽसीत् । एतत् कर्तुं स सर्वथाऽसमर्थ आसीत्, तदैव च तस्यैतत् प्रतिभातं यत् स्वस्याऽन्येषां च सामान्यजनानां मध्येऽयमेव महान् विशेषोऽस्ति इति । किन्तु, इदानीं, यदारभ्य तस्य पुत्र इहोषितवान् तदारभ्य, सोऽपि दुःखं स्नेहं चाऽनुभवन् सामान्यजनानामेवाऽन्यतमत्वमभजत् । पुत्रासक्त्याऽन्धीभूय स मूर्खत्वं समाचरन्नासीत् । स्वजीवने अतिचिरेणाऽपीदानीं सोऽत्युत्कटमपूर्वं च मनोभावमनुभवन्नासीत् । यद्यप्यनेन भावेन सोऽतिदारुणं सन्तापमनुभूतवान् तथाऽपि स इदमप्यनुभूतवान् यत् तस्य सत्त्वमनेन किञ्चिदिवोच्छ्रितं, किञ्चिदिव नवीभूतं समृद्धतरं च जातमस्तीति । स जानाति स्मैव यदिदं प्रेमैषा चाऽन्धाऽऽसक्तिः स्वपुत्रविषयिकी हि मूलतया मानवीय संवेदनमस्ति, एतदेव च संसारोऽस्ति खलु ! सर्वथा संक्षुब्धं गभीरजलस्रोतः । परन्तु समकालमेव सोऽनुभूतवान् यदिदं सर्वथाऽसारं तु नास्त्येव, अस्याऽप्यावश्यकता त्वस्त्येव, तथैतदपि निजप्रकृतेरेवोद्भूतमस्ति । एतत् संवेदनं, एषा पीडा, एतानि मौाणि चाऽपि ह्यनुभवितव्यान्येव खलु ! । एतावता च, तस्य पुत्रस्तस्य मूर्खताः समलोकयत्, तं प्रयतमानं नैव न्यवारयत्, प्रकृत्यैव च विनीतं तं नैवाऽगणयत् । पितरि तादृशं न किञ्चित् तेन दृष्टं येन स आकृष्टो भवेत् यस्माद् वा स भयमनुभवेत् । तस्य पितैष एकः सुजनः, एकः सदयः सज्जनः, एको धार्मिको मनुष्यः, पवित्रश्च जन आसीत् - किन्तु, १३६ Page #144 -------------------------------------------------------------------------- ________________ एते गुणास्ते नाऽऽसन् ये तं बालकं समाकृषेयुर्जयेयुर्वा । एष पिता तं यदीदृशे शीर्णे कुटीरेऽवासयत् तदपि तस्मिन् निर्वेदमजनयत्, तथा यत् स तस्याऽविनयं स्मितेनोदतरत्, प्रत्येकमपमानं सौजन्येन, प्रत्येकं दुर्वृत्तिं च प्रेम्णा प्रत्यभावयत् - तद् हि तस्मै बालाय 'वृद्धशृगालस्य गॉतमं कपटं' प्रतिभाति स्म । यदि सिद्धार्थस्तं बालकं निरभसिष्यताऽपीडयिष्यच्च तदा तत् तस्मै अधिकमरोचिष्यत ।। अन्ते च, तद्दिनमपि समागतं यदा सिद्धार्थपुत्रस्तत् कथितवान् यत् सर्वं तन्मानसे आसीत्, इदानीं स प्रकटं पितुर्विरोध कृतवान् । तच्चैवं जातं – पित्रा स आदिष्टः काष्ठखण्डानानेतुम् । किन्तु स कुटीराद् बहिर्नैव गतवान् । स तत्रैव स्थित्वोद्धततया सकोपं च भूमि पादतलेन प्रहृतवान्, मुष्टिं च बद्ध्वा द्वेष तिरस्कारं च प्रदर्शितवान् । 'भवान् स्वयमेव काष्ठखण्डान् आनयतु' - स आवेशेनोक्तवान् । 'नाऽहं भवतः प्रेष्यो दासो वा । अहं जानामि यद् भवान् मां नैव ताडयति, भवतः साहसमेव नास्ति तदर्थम् !, एवं सत्यपि भवान् सततं दयालुतया मां लालयन् मयि हीनभावं जनयति । भवान् हि मामपि भवादृशं कर्तुमिच्छति - धर्मनिष्ठं, सज्जनं, धीरं च । किन्तु, केवलं भवन्तं पीडयितुमेवाऽहं कदाचित् यदि परं चौरो घातको वा भविष्यामि न पुनर्भवादृशः । अहं भवन्तं धिक्करोमि । भवान् नास्ति मे पिता यद्यपि भवान् शतशो मम मातुः प्रियतमोऽपि स्यात् !' । एवं च दुःख-सन्ताप-कोपाकुलः स क्रोधावेशपूर्णान् शब्दान् स्वपितुः पुरत उद्गीर्य बहिः कुत्रचित् पलायितः, ततश्च रात्रावेव पुनरागच्छत् । द्वितीयदिने प्रभात एव सोऽदृश्यो जातः । तेन सह, यस्मिन् द्विवर्णे करण्डके तौ द्वौ नाविको भाटकतया प्राप्तं धनं १३७ Page #145 -------------------------------------------------------------------------- ________________ रक्षतः स्म, स करण्डकोऽपि न दृश्यते स्म । बहिरागत्य दृष्टं तावन्नौरपि घट्टे नाऽऽसीत् । सिद्धार्थेन सम्यङ् निरीक्षिते ज्ञातं यन्नौस्तु परस्मिन् तटे स्थिताऽस्तीति । अर्थात् स बालकः पलायितः । _ 'मया तत्पृष्ठतो गन्तव्य'मिति पूर्वदिने बालकस्य कटुशब्दैर्बहुव्यथितेन सिद्धार्थेनोक्तम् । ‘स बालकः एकल एवाऽरण्यमध्ये कथं यास्यति ? तत्र तस्य कश्चिदपायोऽपि स्यात् खलु ! । अतो वासुदेव ! आवाभ्यां तस्य पृष्ठे गमनार्थमवश्यं तरण्ड एको निर्मातव्य एव' । ___ 'अवश्यं निर्मातव्यस्तरण्डः' – वासुदेव उक्तवान् । 'परं स अपरतटे स्थितां नौकामानेतुं निर्मातव्यो न पुनर्बालकस्य पृष्ठतो गमनार्थम् । गच्छतु नाम सोऽधुना मित्र !, न सोऽस्ति शिशुरितोऽपि, स स्वयं स्वं सम्भालयितुं सुष्ठ जानात्येव । स नगरं प्रति गच्छन्नस्ति, तच्च सम्यगेवाऽस्ति । मा विस्मार्षीदेतद् यद् - भवान् यत्करणमुपेक्षितवान् तदेव स कुर्वन्नस्ति । स स्वीयं रक्षणं कुर्वन् निजमार्गे एव गच्छन्नस्ति । किन्तु सिद्धार्थ ! अहं पश्यामि यद् भवान् खिन्नोऽस्ति । यो पीडां दृष्ट्वा जनेन हसितव्यं तथा भवानपि स्वस्मिन् हसिष्यत्येव तयैव पीडया भवान् खिन्नोऽस्ति ननु !' । सिद्धार्थः किमप्युत्तरं न दत्तवान् । स कुठारं गृहीत्वा तरण्डनिर्माणार्थमपेक्षितं काष्ठं छेत्तुमारब्धस्ततश्च वासुदेवसाहाय्येन तृणनिर्मितरज्ज्वा वंशखण्डान् बद्ध्वा तरण्डं निर्मितवान् । ततो द्वावपि ऊर्ध्वप्रवाहे महता परिश्रमेणाऽपरं तीरं प्राप्तौ । "किमर्थं भवान् कुठारमेनमानीतवान् ?' – आश्चर्येण सिद्धार्थः पृष्टवान् । वासुदेवेनोक्तं – 'आवयो कायाश्चालनदण्डः १३८ Page #146 -------------------------------------------------------------------------- ________________ न कदाचिद् विनष्टः स्याद्, अतः' । सिद्धार्थो ज्ञातवान् यद् वासुदेवश्चिन्तयन्नाऽऽसीत् कदाचित् तेन बालकेन नौदण्ड आवां पृष्ठतोऽनुगन्तुं रोधनाय कुत्रचित् प्रक्षिप्तो भञ्जितो वा स्यादिति । वस्तुतोऽप्येवमेव जातम् । नौदण्डस्तु नाऽऽसीदेव । वासुदेवस्तं नौकां दर्शयित्वा स्मितवान्, यथा तं कथयतीव – 'किं भवतः पुत्रः कथयितुमिच्छतीति भवान् न पश्यति खलु ? आवां तं नाऽनुगच्छेवेत्यपि तस्येच्छाऽस्तीत्यपि भवान् न पश्यति किल?' । किन्तु स शब्दैस्तद् नैव कथितवान् नूतनं च नौकादण्डं निर्मातुं प्रारब्धवान् । ततः सिद्धार्थः पुत्रान्वेषणाय गन्तुं तदनुज्ञां पृष्टवान् । वासुदेवोऽपि तं नैव न्यषेधत् । सिद्धार्थश्चिराय वने तमन्विष्टवान् । ततस्तेन चिन्तितं यदिदं सर्वथा निरर्थकमस्ति । प्रायः स नगरमेव प्राप्तवान् स्यात्, अथवा, यदि स वने स्यात् तथाऽपि यत्र कुत्राऽपि निलीनः स्यात् स्वानुगामिनो मत्तः स्वं गोपयितुम्' । पुनश्च विमर्शं कुर्वता तेनोपलब्धं यत् स्वपुत्रविषयिकी चिन्ता तु तस्य सर्वथा नाऽऽसीत् । तथा, वने तस्य बालकस्य काऽपि हानिः कुतश्चिद् वा भयं वाऽपि नैव जातं स्यादित्यत्राऽऽपि स सप्रत्यय आसीत् । एवं सत्यपि सोऽविश्रान्तं नगरं प्रति चलितवान्, न किन्तु तं रक्षितुमपि तु दैवात् स पुनरपि प्रत्यक्षीभवेदितीच्छयैव केवलम् । प्रान्ते च नगरसीमानं प्राप्तवान् । यदा स नगरस्य राजमार्ग प्राप्तस्तदा तदुपान्ते स्थितं सुन्दरं क्रीडोद्यानं - यदेकदा कमलायाः आसीद् – दृष्ट्वा तस्य द्वार्येवाऽतिष्ठत् स्थिरतया । अत्रैव स ऐदम्प्राथम्येन कमलां शिबिकयाऽत्राऽऽगच्छन्तीं दृष्टवान् आसीत् । स समग्रोऽप्यतीतस्तस्य मानसचक्षुषोः पुरतः उपस्थितः इव । पुनरपि स स्वं दीर्घकूर्चयुत-जीर्णवस्त्रधर-धूलिधूसरित-तरुणश्रमणत्वेन प्रत्यक्षी १३९ Page #147 -------------------------------------------------------------------------- ________________ कृतवान् । स चिराय तत्रैवाऽवस्थायोद्यानं निरीक्षितवान्, तत्र च बहवो बौद्धभिक्षवस्तेन सुन्दराणां वृक्षाणामधस्तात् सञ्चरन्तो दृष्टाः । स तत्रैव तिष्ठन् स्वीयमतीतं जीवनं चित्रपटेषु चित्रितां कथामिव विलोकितवान् । तत्रोद्याने स्थितान् भिक्षून् दृष्ट्वा स युवानं सिद्धार्थं स्मृतवान् कमलया सहितं च तं रमणीयवृक्षराजीमध्ये पर्यटन्तं विलोकितवान् । स स्पष्टतया स्वं तत्रोद्याने कमलया सत्कृतं सर्वप्रथमतया च तस्याश्चुम्बनं स्वीकुर्वन्तं दृष्टवान् । स तदपि स्मृतवान् यथा कथं तेन स्वीयाः पुरातनाः श्रामण्यदिनाः सदर्पं सावज्ञं च समीक्षिता आसन्, कथं च तेन सगर्वमुत्सुकतया च सांसारिकं जीवनं प्रारब्धमासीत् । स कामस्वामिनं, सेवकान्, भोजनसमारम्भान्, द्यूतक्रीडकान्, सङ्गीतकारांश्च मानसे प्रत्यक्षीकृतवान् । कमलाया: गायकपक्षिणं पञ्जरस्थितं चाऽपि स विलोकितवान् । एवं च सर्वमपि जीवनं स पुनरपि जीवितवान्, संसारं श्वसितवान्, वार्धक्यं स्पृष्टवान्, श्रान्तो जातः, निर्वेदमनुभूतवान्, मरणमभिलषितवांश्च; ततश्च पुनरपि पवित्रमोङ्कारं श्रुतवान् । चिरायोद्यानद्वार एवाऽवस्थानानन्तरं सिद्धार्थः लक्षितवान् यद् योऽभिलाषस्तमिहाऽऽगन्तुं प्रेरितवान् स सर्वथा मौर्यपूर्ण आसीत्, निजपुत्रं स कदाऽपि बोधयितुं समर्थो नाऽऽसीत्, निजजीवनपद्धतिं च बलात् तस्मिन्नारोपयितुमुचितं नाऽऽसीत् । स पलायितं बालकं प्रति व्रणं प्रतीव गाढं प्रेमाऽनुभूतवान्, समकालमेव चिन्तितवांश्चाऽपि यदयं व्रणो नेदानीं सपूयः कर्तव्यः किन्तु तस्य विरोपणं कर्तव्यमासीत् । किन्तु तस्मिन् समये स व्रणो नैव विरूढः, अतः स दुःखितः एव तत्र स्थितः । यदर्थं स्वपुत्रमनुसृत्य स इहाऽऽगत १४० Page #148 -------------------------------------------------------------------------- ________________ तत्प्राप्तेः स्थाने तेन केवलं शून्यता प्राप्ताऽऽसीत् । सदुःखं स तत्रैवोपविष्टः । स्वहृदये किञ्चन म्रियमाणं सोऽनुभूतवान् । स तत्रेदानीं सुखं स्वध्येयपूर्ति वा नैव दृष्टवान् । अतः सर्वथा विषण्णः स प्रतीक्षारतः उपविष्टः । नद्याः सकाशात् स बहु शिक्षितवानासीत् – प्रतीक्षां कर्तुं, धैर्य धर्तुं, श्रोतुं च । स तत्र धूलिमये वर्त्मनि निष्ण्णः श्रोतुमारब्धः । स दुःखितया म्लानतया च स्पन्दमानं स्वहृदयं श्रुतवान् ततः प्रकटन्तं च कञ्चन ध्वनि श्रोतुं प्रतीक्षितवान् । स दीर्घकालं यावत् पादावाकुच्य श्रवणार्थं प्रयतितवान् किन्तु किमपि नैवोपलब्धवान्, ततश्च कमपि मार्ग न दृष्ट्वाऽन्ते स स्वं शून्यतायां निमज्जितवान् । यदा च स स्वीयं व्रणं तीक्ष्णतया व्यथयन्तमनुभूतवान् तदा स 'ओम्' - इति शब्दं जपितवान्, स्वहृदयं च ओङ्कारनादेन पूरितवान् । उद्यानस्था भिक्षवस्तं चिरात् तथा निषण्णं दृष्ट्वा तन्मस्तकं च धूल्याऽवगुण्ठितं विलोक्य करुणाा जाताः, तेषामेकतमश्च तन्निकषा समागत्य द्वे कदलीफले तत्पुरतो मुक्तवान् । किन्तु वृद्धजनः स ते नैव लक्षितवान् । एतावता तस्य स्कन्धोपरि कस्यचन हस्तस्य स्पर्शोऽभवत् । एतेन स जागृतोऽभवत् । स इमं मृदुं सचिन्तं च स्पर्शमभिज्ञातवान् झटिति च स्वस्थोऽभवत् । तत उत्थाय स वासुदेवमभिवादितवान् यस्तस्य पृष्ठत आगत आसीत् । यदा स वासुदेवस्य प्रसन्नं वदनं, स्मितमयीं मुखरेखां, भासुरे च लोचने दृष्टवांस्तदा सोऽपि स्मितं कृतवान् । इदानीं स स्वपुरतः पतिते कदलीफले दृष्टवान् । स ते गृहीत्वा तत एकं वासुदेवाय दत्तवानपरं च स्वयं खादितवान् । ततः स मौनमेव वासुदेवेन सह वनं गतवान्, ततश्च नावा नदी समुत्तीर्य स्वीयं कुटीरं प्राप्तवान् । अथाऽपि द्वयोरेकतरोऽपि प्रवृत्तस्य विषये न किमप्युक्तवान्, बालकस्य नामाऽपि नैव गृहीतवान्, १४१ Page #149 -------------------------------------------------------------------------- ________________ तस्य गमनमधिकृत्य न किञ्चिदुदितवान्, व्रणविषयेऽपि च नोच्चरितवान् । सिद्धार्थो निजां शय्यां गत्वा सुप्तवान्, यदा च वासुदेवस्तस्मै किञ्चिन्नारिकेलजलं दातुमन्तर्गतस्तदा तेन दृष्टं यत् सिद्धार्थो गाढनिद्रायां शयितोऽस्तीति । १४२ Page #150 -------------------------------------------------------------------------- ________________ w Brabant wa Page #151 -------------------------------------------------------------------------- ________________ D AN by Bar Page #152 -------------------------------------------------------------------------- ________________ सा शल्यवेदना चिराय सिद्धार्थहदि पर्यस्पन्दत । सिद्धार्थो हि बहून् सापत्यान् यात्रिकान् नदीपारं प्रापयत्, किन्तु प्रत्येकं वारं तस्य तेषां यात्रिकानामीणूं भवति स्म । स चिन्तयति स्म यद् - 'एतावन्तो जनाः पुत्रसुखेन सुखिताः सन्ति, केवलमहमेव किमर्थं तत्सुखाद् रहितोऽस्मि ? किञ्च, दुरात्मानश्चौराः लुण्टाकाश्चाऽपि सन्तानानि धारयन्ति, प्रेम्णा पालयन्ति, तेषां स्नेहमपि च प्राप्नुवन्ति, नवरं मया विना' । एवं चाऽत्यन्तं बालिशतयाऽतार्किकतया वितर्कान् कुर्वन् सोऽधुना प्राकृत-जनवदाचरति स्म। स इदानीं जनैः सहाऽन्ययैव विधया व्यवहरति स्म । नाऽत्यन्तं चातुर्येण, नाऽपि गर्वेण, परन्तु सर्वथोष्मपूर्णेन कुतूहलपूर्णेन सहानुभूतिपूर्णेन च व्यवहारेण व्यवहरति स्म । इदानीं, यदा स सामान्यान् वणिक्-सैनिक-महिलादीन् यात्रिकान् नदीपारं नयति स्म तदा ते तस्य पूर्ववत् परे अपरिचिता वा नैव भासन्ते । यद्यपि स तेषां विचारान् अभिप्रायान् वा नैवाऽवबुध्यन्ते स्म तथाऽपि तैः सह जीवनस्योद्देशान् मनोरथांश्चाऽधिकृत्य संवादं करोति स्म । यद्यपि स स्वात्मसंयमस्योच्चावस्थां समासादितवानासीत् स्वीयमन्तिमं व्रणमपि च सुतरां सहित्वा पक्वो जात आसीत्, तथाऽपि स इदानीमेतान् सामान्यजनानपि स्वजनत्वेनैव पश्यति स्म । तेषां मिथ्याभिमानस्तृष्णास्तुच्छतादयश्चेदानीं तस्याऽसङ्गता न प्रतिभान्ति स्म, प्रत्युत ते जनास्तस्य सद्भावयोग्याः प्रेम्ण आदरस्याऽश्चि प्रतिभाताः । तेषु जनेषु कस्यचन स्वापत्यं प्रति मोहान्ध्यं, कस्यचित् तु स्वस्यैकमात्रं पुत्रमधिकृत्य मौर्यपूर्णो गर्वः, कस्याश्चन च यौवनोद्धताया युवत्या अलङ्काराद्यर्थं १४५ Page #153 -------------------------------------------------------------------------- ________________ युवजनाकर्षणार्थं च क्रियमाणा औत्सुक्यपूर्णाः प्रयत्ना आसन् । एते सर्वेऽपि क्षुल्लकाः सामान्याः मूर्खतापूर्णाश्चाऽप्यत्यन्तं बलवन्त उत्कटाः सचेतनाश्चाऽऽवेगा मनोरथाश्चेदानीं सिद्धार्थस्य तुच्छतया न प्रतिभान्ति स्म । एतेषामावेगानां मनोरथानां च पूरणार्थं जना जीवन्ति, अतिमहतः प्रयत्नान् कुर्वन्ति, प्रवसन्ति, युध्यन्ते, अतिमात्रेण सहन्ते तितिक्षन्ते चेति निरीक्षितवान् स एतदर्थं तान् प्रीणाति स्म, यतः स तेषां मनोरथेष्वावश्यकतासु च जीवनं, चैतन्यमविनश्वरं च ब्रह्म पश्यति स्म । सोऽचिन्तयद् यदेते जना हि तेषामन्धानुरागवत्त्वाद् अन्धपराक्रमाद् आग्रहवत्त्वाच्चाऽपि प्रेमपात्राणि प्रशंसास्पदानि च सन्ति । कस्यचित् तत्त्वविदश्चिन्तकस्य वा सकाशे यत् स्यात् तत् सर्वमपि केवलमेकं लघुमपवादं विहायैतेषां पार्वेऽप्यासीदेव। तच्चाऽऽसीत् सर्वेषामपि जीवानामैक्यबोधः । किन्तु, बहुशः सिद्धार्थोऽचिन्तयद् यत् - 'किमेतादृशो बोधो विचारो वा बहु मूल्यमर्हति खलु ? किमेतच्चिन्तनं चिन्तकानां बालिशाऽऽत्मप्रशंसा नाऽऽसीत् खलु, ये किल केवलं विचारयन्तो बालका एव सन्ति ? सामान्या जना हि सर्वेष्वप्यन्येषु विषयेषु एतेषां चिन्तकानां तुल्या एवाऽऽसन्, कदाचिच्चैतेभ्यः श्रेष्ठा अपि; यथा हि पशवः कदाचित् आवश्यकतायां सत्यां तेषां दृढास्वविचलितासु क्रियासु मनुष्येभ्योऽपि श्रेष्ठाः दृश्यन्ते, तथा !। सिद्धार्थहृदये – काऽस्ति वा शुद्धा प्रज्ञा ? किमस्ति च मम सुदीर्घान्वेषणस्य ध्येयम् ? - इत्यधिकृत्य ज्ञानं शनैः शनैः प्रवर्धमानं क्रमशः परिपक्वं जातम् । तेनाऽनुभूतं यदेतद्धि केवलं सर्वेष्वपि जीवेषु प्रतिक्षणमात्मौपम्यस्याऽनुभवनं श्वसनं साक्षात्करणं तदर्थं च स्वस्य प्रगुणीकरणं सामर्थ्यप्रापणं चाऽस्ति । एतच्चिन्तनं तस्मिन् शनैः शनैः परिणतं जातम् । एतस्य च १४६ Page #154 -------------------------------------------------------------------------- ________________ प्रतिबिम्बं वृद्धस्य वासुदेवस्य बालतुल्ये वदने संवादितारूपेण, जगतः शाश्वततया सम्पूर्णत्वरूपेण ऐक्यरूपेण च प्रतिफलितम् । किन्तु, एतावताऽपि पुत्रगमनस्य दुःखमितोऽपि मनस्तुदति स्म । सिद्धार्थः स्वपुत्रविषये स्निग्धतयाऽऽत्यन्तिकतया च चिन्तयति स्म, तदर्थं स्वहृदये प्रेम्णो वात्सल्यस्य च भावं पोषयति स्म, तद्गमनस्य पीडया व्यथितो भवति स्म, आसक्त इव सर्वामपि मूर्खतां समाचरति स्म च । एवं च दुःखाग्नेालां निर्वापयितुमवकाशं नैव कल्पयति स्म । एकदा, दुःखशल्येऽत्यन्तं व्यथयति सति स पुत्रमिलनस्याऽऽत्यन्तिकेच्छया व्याप्तचित्तः सन् 'नगरं गत्वा तदन्वेषणं करोम्येवे'ति विचिन्त्य नावा नदीं तीर्णवान् । ततो यावद् नौकातो बहिः पादं स्थापयति स्म तावत् तस्य दृष्टिर्नदीप्रवाहे पतिता । नदी मृदुतया मन्दमन्दं प्रवहमानाऽऽसीत् । ग्रीष्मकालस्य सन्निहितत्वात् यद्यपि जलमनल्पं नाऽऽसीत् तथाऽपि तस्याः कलकलध्वनिस्तु स्पष्टतया श्रूयते स्म । सिद्धार्थस्य प्रतिभातं यत् साऽद्य किञ्चित् विलक्षणं भाषमाणाऽस्तीति । तेनैकाग्रीभूय यावन्निरीक्षितं तावत्, सा तं प्रति हसति, व्यक्तमेव हसतीति लक्षितम् । वृद्धनाविकं दृष्ट्वा सा परिहासं कुर्वत्यासीत् । एतदभिलक्ष्य सिद्धार्थस्तत्रैव स्थिरीभूय स्पष्टतया श्रवणार्थं किञ्चिन्नतो जातः । एवंकरणेन च तस्य मुखं शान्ततया प्रवहमाने जले प्रतिबिम्बितम् । तत्र च प्रतिबिम्बे तादृशं किञ्चिदासीत् यत् तस्य विस्मृतं किञ्चिद् वस्त्वस्मारयत् । यदा च स सम्यगालोचनं कृतवांस्तदा स तत् सम्यक्तया स्मृतवान् । तस्य वदनं कस्यचनाऽन्यजनस्य वदनमनुहरति स्म यं स एकदा सम्यग् ज्ञातवान्, तद्विषये च प्रेम भयं चाऽप्यनुभूतवानासीत् । स जन आसीत् तस्य ब्राह्मणः पिता । स स्मृतवान् यत् कथं स श्रामण्यग्रहणार्थ १४७ Page #155 -------------------------------------------------------------------------- ________________ मनुमति प्राप्तुं तं बलात्कारेण प्रेरितवानासीत्; हठाच्चाऽनुज्ञां प्राप्य कथङ्कारं स तद्गृहान्निर्गत आसीत् पुनश्च नैव कदाऽपि तत्र प्रतिनिवृत्त आसीत् । किं तस्य पिताऽपि तदेव दुःखं नाऽनुभूतवान् स्यात् यदिदानीं स स्वपुत्रस्य कृतेऽनुभवन्नासीत् ? किं तस्य पिता बहोः कालात् पूर्वमेव स्वपुत्रमदृष्ट्वैवैकाकितया मृतो नाऽऽसीत् खलु ? स्वपितुरिव किं तस्याऽपि एषैव नियतिर्नाऽऽसीत् किल? किमेतत् पुनरावर्तनं, नियत्या वर्तुले घटमान एष घटनाक्रमः किमेकं प्रहसनं, विचित्रं मौर्यपूर्णं च कार्यं वा नाऽऽसीत् खलु !। नदी हसन्ती आसीत् । आम्, एतदेव तदासीत् । सर्वमपि यद् आऽन्तमसहित्वैव समापितं स्यात् तदवश्यं पुनरावर्तितं भवति स्म, तत्र च समानानि एव दुःखानि अनुभवितव्यानि भवन्ति । पितृविषयकं पुत्रविषयकं च चिन्तनं कुर्वाणः, नद्योपहस्यमानः, स्वेन सहैव विप्रतिपद्यमानः, नैराश्यासन्नं वर्तमानः, एवंसत्यपि च निजं प्रति जगतं प्रति चोच्चैर्हसितुमभिलषन् सिद्धार्थः पुनरपि नावमारूढः, नदी तीर्त्वा च गृहं प्रत्यागतः । तस्य दुःखशल्यमिदानीमपि तुदति स्म, नियतेः पुरतो विरोध कर्तुमितोऽपि तस्य मनः समुज्जृम्भते स्म । इदानीमपि तस्य पीडाया अभिभवो नैव जातस्ततश्च तस्य चित्ते प्रशान्तिरपि नाऽऽसीत् । एवंस्थितेऽपि स तदर्थमाशान्वित एवाऽऽसीत् । यदा स कुटीरं प्राप्तस्तदा तस्य मनसि वासुदेवस्याऽग्रे गत्वा सर्वमप्यात्मनिवेदनं कर्तुमदम्योऽभिलाषो जागृत आसीत् । स स्वमनसि स्थितं सर्वमपि श्रवणकलानिपुणाय वासुदेवाय कथयितुमुत्कण्ठते स्म ।। वासुदेवः कुटीरे उपविश्य वंशकण्डोलं विरचयन्नासीत् । सोऽधुना नौकार्यं न करोति स्म, यतस्तस्याऽक्षिणी निस्तेजस्के १४८ Page #156 -------------------------------------------------------------------------- ________________ जायमाने आस्तां हस्तौ पादौ च दुर्बले अभवतां, किन्त्वेवं सत्यपि तस्य वदने सैवाऽपरावर्तिता समुज्ज्वला च प्रसन्नता प्रशान्तिश्च विलसमानाऽऽसीत् । सिद्धार्थस्तस्य वृद्धजनस्य पुरत उपविष्टः शनै: शनैश्च कथयितुमारब्धः । स तस्य यत् कदाऽपि नैव निर्दिष्टवानासीत् तत् सर्वं कथितवान्, यथा कथं स तदा नगरं गतवानासीत्, कथं च पुत्रवियोगशल्यं तन्मनस्तुदति स्म, कथं च स सुखिनो जनकान् दृष्ट्वाऽसूयते स्म एतादृशां च भावानां मौर्यस्य विषये तस्य बोधः, तथा स्वात्मना सह नैराश्यपूर्ण: सङ्घर्ष: इत्येतत् सर्वमप्यधिकृत्य स कथितवान् । स तस्य पुरतो यत् किमपि – सर्वथा दुःखमयमपि विषयं कथयितुं सङ्कोचं नैव कृतवान् । स स्वीयं शल्यं तदग्रे प्रकाशितवान्, तस्मिन् दिने नगरं प्रति गमनार्थं कथं स कुटीरान्निर्गत्य नावा नदीं तीर्णवान्, कथं च नदीतं प्रति परिहसितवती - इत्येतत् सर्वमपि तस्याऽग्रे निवेदितवांश्च । — यथा यथा स स्वकथनमनुवर्तितवान् यथा च वासुदेवः प्रसन्नया मुद्रया तत् श्रुतवान्, तथा तथा सिद्धार्थेनाऽत्यन्तं सूक्ष्मता सावधानतया च वासुदेवस्य पूर्णाऽनन्यवृत्तिरनुभूता । तस्य सर्वा अपि व्यथाः चिन्ता दुराशाश्च यथा वासुदेवं प्रति प्रवहिता: पुनरपि च तं प्राप्ताः सन्तीति सोऽनुभूतवान् । स्वीयशल्यस्य तदग्रे निवेदनं नाम सर्वथां शीतलीभवनं यावन्नद्यां स्नानं, प्रान्ते च नद्यैक्यमेव ! यथा यथा स कथितवान् आत्मनिवेदनं च कृतवांस्तथा तथा तेनाऽनुभूतं यदयं नास्ति सम्प्रति वासुदेवः, नास्ति चाऽयमितः परं कश्चन श्रवणनिरतो मनुष्यः, प्रत्युत सोऽनुभूतवान् यदेष निश्चलः श्रोता, तस्याऽऽत्मनिवेदनं, वृक्षो वर्षाजलमिव, प्रतिलवं निपिबन्नस्ति, यदयं निःस्पन्दो जनः स्वयमेव नद्यस्ति ननु !, १४९ Page #157 -------------------------------------------------------------------------- ________________ अथवाऽयं स्वयमेव देवोऽस्ति, शाश्वततत्त्वं वाऽस्ति । यथा यथा च सिद्धार्थः स्वविषयकात् स्वीयशल्यविषयकाच्च चिन्तनात् निवृत्तो जातस्तथा तथा वासुदेवस्य परिवर्तनविषयकेण बोधेन स आक्रान्तो जातः । यथा यथा च स इमामनुभूतिमात्मसात् कृतवान् तथा तथा तद्विषयिकी अपरिचितता तस्याऽल्पत्वं प्राप्ता, तथा सोऽनुभूतवानपि यत् सर्वमपि स्वाभाविकं सुस्थं चाऽस्तीति । तथा वासुदेवोऽपि चिरादेव, प्रायः सर्वदाऽपि एतादृश एवाऽऽसीत् कथमपि भिन्नो नाऽऽसीत् । सोऽनुभूतवान् यद् यथा जना देवान् पूजयन्ति स्म तथैव सोऽपि वासुदेवं पूजयितुमारब्ध आसीत्, एतच्च चिराय नैव स्थास्यतीति च, यतोऽभ्यन्तरे तु स वासुदेवाद् वियोक्तुमारब्ध आसीत् । एतावता तस्य कथनं त्वनुवर्तमानमासीत् । यदा तस्य कथनं समाप्तं वासुदेवेन स्वीया किञ्चिद् विकला दृष्टिस्तस्योपरि निवेशिता । स किञ्चिदपि नैवाऽभाषत, परन्तु तस्य प्रशान्तवदनाद् वात्सल्यस्य प्रसन्नतायाश्च प्रभा प्रसरति स्म, सद्भावस्य प्रज्ञायाश्च छाया विलसति स्म । स सिद्धार्थहस्तं स्वहस्तेन गृहीत्वा तं नदीतीरेऽनयत् । ततस्तस्य पुरत उपविश्य नदी प्रति दृष्ट्वाऽस्मयत् । स्नेहेनाऽकथयच्च - 'भवता नद्याः हासः श्रुतः, किन्तु ततोऽप्यधिकं बहु श्रोतव्यमस्ति। आवां शृणुयाव तावत्' । सर्वमपि शुभमशुभं च - एतेषां सर्वेषामपि सम्मीलनं नामैव जगदासीदिदं खलु । एतेषां सर्वेषामपि मीलनमेवाऽऽसीद् घटनाप्रवाहो नाम, जीवनसङ्गीतं नाम ! यदा सिद्धार्थ ऐकाग्रयेण नदीमश्रौषीत्, सहस्रशः शब्दानां गानमश्रौषीत्, यदा च स शोकमयं हास्यमयं वा शब्दं नैव श्रुतवान्, यदा स स्वं केनचित् विशेषेण ध्वनिना नैवाऽबध्नात्, नाऽपि च तं ध्वनिमात्मसात् कृतवान्, किन्तु सर्वानपि श्रुतवान्, यदा च स सर्वमपि सामग्रयेणाऽद्वैतेन च श्रुतवान्, तदा सहस्रशो १५० Page #158 -------------------------------------------------------------------------- ________________ ध्वनीनां महागानं केवलमेकशब्दात्मकमेव जातम् ओम् पूर्णइति । 'किं भवान् श्रुतवान् ?' पुनरपि वासुदेवो दृष्टिक्षेपेण पृष्टवान् । तस्य स्मितमुज्ज्वलमासीत्, यथा ओम् नद्या: सर्वेष्वपि ध्वनिषु सर्वतः प्रसृतस्तथा तस्य स्मितस्य कान्तिरपि तस्य मुखस्य सर्वास्वपि वलिषु सर्वतः प्रसृता । यथा स स्वमित्रमुखमवलोकितवांस्तथा तस्य स्मितं प्रोज्ज्वलं जातम् । ततश्च सिद्धार्थस्य मुखेऽपि तदेव स्मितं प्रकटितम् । तस्य व्रणमुपशान्तं जायमानमासीत्, तस्य पीडाऽपस्त्रियमाणाऽऽसीत्, तस्याऽऽत्मा चैक्ये विलीयमान आसीत् । ततः क्षणादेव सिद्धार्थो नियतिं विरुध्य युद्धकरणात् निवृत्तो जात: । तस्य वदनोपरि; इच्छानां सङ्घर्षाद् यो निवृत्तोऽस्ति, यो मुक्तिं प्राप्तोऽस्ति, यो घटनाप्रवाहेण सह जीवनप्रवाहेण च सह संवादितां भजति, यस्य चित्तं सहानुभूत्या करुणया च पूर्णमस्ति, यः प्रवाहे एव समर्पितोऽस्ति सर्वेषामपि चैक्येन संस्थितोऽस्ति, तस्य वदने या ज्ञानानन्दस्य प्रभा विलसेत् सा, प्रभा विलसमानाऽऽसीत् । वासुदेवो नद्यास्तटादुत्थितः । यदा स सिद्धार्थस्य नेत्रयोर्निरीक्षितवान् तत्र च ज्ञानानन्दं प्रकाशमानं विलोकितवान्, स स्वीयेन सहृदय-सौम्यव्यवहारेण मृदुतया तस्य भुजं स्पृष्ट्वाऽकथयत् – 'मित्र ! अस्यैव क्षणस्य चिरप्रतीक्षा मया कृताऽऽसीत्, अधुना स क्षण उपस्थितोऽस्ति । इदानीमहं गमिष्यामि । अहं वासुदेवो नाविकतया चिरायाऽभवम् । अधुनैतत् समाप्तं जातमस्ति । स्वस्ति कुटीराय, स्वस्ति नौ, स्वस्ति च सिद्धार्थाय । सिद्धार्थोऽपि गच्छतस्तस्याऽग्रे सविनयं प्राणमत् कथित १५१ Page #159 -------------------------------------------------------------------------- ________________ वांश्च मृदुतया – 'मया ज्ञातमासीदेतत्, किं भवान् वनं गच्छति किल ?' 'आम् अहं वनं गच्छामि, अहं समग्रस्याऽपि वस्तुजातस्यैक्यं प्रति गच्छन्नस्मि' - प्रोज्ज्वलवदनो वासुदेवोऽवदत् । एवं च स गतवान् । सिद्धार्थस्तं गच्छन्तं समवलोकितवान्, स गच्छन्तं तं महताऽऽनन्देन गौरवेण चाऽवलोकितवान् । तस्य प्रशान्तान् पादन्यासान्, देदीप्यमानं वदनं, प्रकाशमयं च सर्वमपि व्यक्तित्वं सोऽवलोकयन्नतिष्ठत् । १५२ Page #160 -------------------------------------------------------------------------- ________________ Wat MV V UNE Page #161 -------------------------------------------------------------------------- ________________ ८. गोविन्दः एकदा गोविन्दः, प्रसिद्धया गणिकया कमलया बौद्धभिक्षुभ्यो विहारार्थं समर्पिते क्रीडोद्याने कैश्चिदन्यैभिक्षुभि: सह कञ्चित् कालं विश्रान्त्यर्थमुषितवान् । तत्र च स वृद्धनाविकविषयिकीं वार्तां श्रुतवान्, यः केवलमेकदिवसीयप्रवासान्तरे नदीतटे वसति स्म, जनेषु च सत्पुरुषतया प्रथित आसीत् । यदा गोविन्दस्ततः प्रस्थितस्तदा स नदीं गच्छता मार्गेणैव प्रस्थितः । यतो यद्यपि स स्वीयं समग्रं जीवनं भिक्षुसङ्घस्य नियमाननुसृत्यैव यापितवान् आसीत्, स्वस्य वयो नियममर्यादां विनीतत्वं चाऽऽश्रित्य युवभिक्षूणामादरपात्रमप्यासीत्, तथाऽपि तस्य हृदयमितोऽपि चाञ्चल्यं बिभर्ति स्म, सत्यान्वेषणेच्छा चाऽतृप्ताऽऽसीत् । I नदीं प्राप्य स वृद्धनाविकाय नदीपारं प्रापयितुं प्रार्थयत । यदा तौ नदीपारं प्राप्य नौकातोऽवतीर्णौ तदा स वृद्धं तं कथितवान् 'भवान् साधून् यात्रिणश्च प्रति भृशं सद्भावं दर्शयति खलु ! भवान् आस्माकीनान् बहून् साधून् नदीं तारितवानसि । मन्ये, अहमिव भवानपि सन्मार्गगवेषक एवाऽस्ति किल ?' — सिद्धार्थस्य वृद्धयोर्नयनयोः स्मितज्योत्स्ना दृश्यते स्म । सोऽवदत् – 'किं भवान् स्वं मार्गगवेषकत्वेन गणयति खलु ? मान्यो भवान्, यो वर्षाणि यावद् भिक्षुत्वं प्रपन्नः सोऽपि एवं वदति खलु ?' गोविन्देनोक्तं – ‘यद्यप्यहं वृद्ध एव, तथाऽपि मयाऽन्वेषणं नैव त्यक्तं, कदाऽप्यहं तन्नैव त्यक्ष्याम्यपि । एषैव मम नियतिरस्ति । किन्तु मन्ये यद् भवान् किञ्चिदुपलब्धवान् अस्ति इति । मित्र ! किं भवान् तद्विषये किञ्चिद् कथयति वा माम् ?' सिद्धार्थनोक्तं – ‘भवते मूल्यवद् भवेदित्येवं किं वाऽहं १५४ Page #162 -------------------------------------------------------------------------- ________________ वदानि ? केवलं, भवान् प्रायः सत्यान्वेषणार्थं भृशं प्रयतते, तत्परिणामतश्च भवान् तन्न लब्धुं शक्तः स्यात् - इति' । ‘एतत् कथं वा स्यात् ?' 'यदा कश्चनाऽन्वेषणे रतो भवति तदाऽनायासमेव स यदन्वेषणे लग्नस्तदेव स पश्यति ततश्च सोऽन्यत् किञ्चिदपि प्राप्तुं नैव शक्नुयात्, किञ्चिदप्यङ्गीकर्तुं नैव सिद्धो भवेत्, यतः स केवलं तस्मिन् विषय एव चिन्तयन् भवति, स ध्येयनिष्ठो भवति, स ध्येयेनैवाऽऽविष्टो भवति । अन्वेषणं नाम ध्येयसहितेन भवितव्यं, किन्तु प्राप्तिर्नाम मुक्ति:, सर्वग्रहणशीलता, ध्येयविहीनता वा । भोः सत्पुरुष ! यद्यपि भवान् सत्यान्वेषकोऽस्ति, स्वध्येयार्थं नितरां प्रयत्नशीलोऽप्यस्ति, किन्तु तत एव भवतो दृष्टेः समक्षमेव यानि वस्तूनि सन्ति तान्यपि भवान् द्रष्टुं न क्षमः । 'अहमितोऽपि भवतः कथनस्य भावार्थं नैवाऽवगच्छामि ननु ! किं वाऽभिप्रैति भवान् ? गोविन्दोऽपृच्छत् । 'भो मान्य ! एकदा भवान्, बहुवर्षेभ्यः पूर्वं, नद्या अस्यास्तटे आगतः, जनमेकं चाऽत्र शयानं दृष्टवान् । भवान् तद्रक्षणार्थं तत्समीप एवोपविष्टः, किन्तु तमभिज्ञातुं नैव प्रभुर्जातो भो गोविन्द !' । आश्चर्यचकितो मन्त्रमुग्धश्च जातः स भिक्षुर्नाविकं निरीक्षितवान् । ‘भवान् सिद्धार्थोऽस्ति खलु ?' स कातरतया पृष्टवान् । ‘अहं भवन्तमिदानीमपि नैव प्रत्यभिज्ञातवान् । भवतः पुनर्दर्शनं जातमित्यतोऽत्यन्तं प्रसन्नोऽस्मि भोः ! सिद्धार्थ ! अतीव हृष्टोऽस्मि । भवान् बहु परावर्तनं प्राप्तोऽस्ति मित्र ! किमिदानीं भवान् नाविकः संवृत्तोऽस्ति वा ?' सिद्धार्थः सस्नेहं हसितवान्, 'आम् अहं नौचालको जातोऽस्मि । बहुभिर्जनैर्बहुश: परावर्तनं प्राप्तव्यं भवति, नैकविधानि | १५५ — - Page #163 -------------------------------------------------------------------------- ________________ च वस्त्राणि परिधातव्यानि भवन्ति । अहमपि तेषामन्यतम एव प्रियसखे ! । भवतोऽत्र स्वागतमस्ति गोविन्द !, अहं भवन्तं मे कुटीरे रात्रियापनार्थमामन्त्रयामि' । गोविन्दस्तस्यां रात्रौ कुटीर एव न्युषितः, वासुदेवस्य चैव शय्यायां शयितवान् । स बाल्यकालीनाय स्वमित्राय बहून् प्रश्नानपृच्छत्, सिद्धार्थश्च स्वजीवनविषयकान् बहूनंशान् तस्याऽकथयत् । प्रातर्यदा गोविन्दस्य गमनकालः सन्निहितस्तदा किञ्चित् स्खलद्वाक् सन् स सिद्धार्थमुक्तवान् – 'मित्र ! मम गमनात् पूर्वमहमितोऽप्येकं प्रश्न प्रष्टुमिच्छामि तावत् । भवान् कं सिद्धान्तं कां वा श्रद्धां किं वा ज्ञानमवलम्बते यद् भवते सम्यग् जीवितुमुचितं च कर्तुं सहायं करोति ?' सिद्धार्थेनोक्तं - 'भवान् जानात्येव मित्र ! यत् तारुण्येऽपि यदाऽऽवां श्रमणीभूय वनेऽवसतां तदाऽपि अहं सिद्धान्तेषु गुरुषु वा नैव श्रद्दधामि स्म, प्रत्युत तान् पृष्ठतः करोमि स्म । अहमिदानीमपि तादृशीमेव विचारधारां दधामि, एवंसत्यपि ततः कालादेवाऽद्ययावत् मे बहवो गुरवः सञ्जाताः । एका सुन्दररूपवती गणिका चिराय मे गुरुरासीत्, एवं कश्चन धनिको वणिक् द्यूतक्रीडकश्चाऽपि मे गुरू अभवतम् । एकस्मिन्नवसरे तु पर्यटनं कुर्वाणो महात्मनो बुद्धस्य कश्चन शिष्योऽपि मे गुरुः सञ्जातः । अरण्यमध्ये गाढनिद्रावशगस्य मम रक्षणार्थं स स्वीयां यात्रामपि रुद्धवा मत्पार्वे उपविष्ट आसीत् । अहं तत्सकाशादपि किञ्चिच्छिक्षितवान्, एतदर्थं चाऽहं तस्य कृतज्ञोऽस्मि, भृशं कृतज्ञः । एवं स्थितेऽपि अधिकं ज्ञानं तु मया अस्या नद्याः सकाशाद् मे पूर्वगामिनश्च वासुदेवस्य सकाशादेव प्राप्तमस्ति । स हि सर्वथा सामान्यो जन आसीत्, विचारकस्तु नाऽऽसीदेव, तथाऽपि १५६ Page #164 -------------------------------------------------------------------------- ________________ गौतमबुद्धवत् स जीवनस्य सारभूतं तत्त्वं जानाति स्म । वस्तुतः स एकः पवित्रो मनुष्य एकः सत्पुरुष आसीत्' । गोविन्द उक्तवान् – 'सिद्धार्थ ! मन्ये यद् भवते अद्याऽपि विनोदकरणं किञ्चिदिव रोचते । अहं भवन्तं श्रद्दधे, जानामि च यद् भवता कस्यचनाऽपि गुरोरनुसरणं नैव कृतम् । किन्तु, एतावताऽपि भवतः स्वयंसिद्धमेव किञ्चन ज्ञानं, केचन सिद्धान्ता विचारा वा न सन्ति यत्साहाय्येन भवान् सुखेन जीवति ? यदि भवानत्र विषये कञ्चित् कथयेत् तदा मे महान् सन्तोषो भविता' । सिद्धार्थः कथितवान् – 'आम्, ममाऽपि केचन विचाराः किञ्चिच्च ज्ञानमासीदेव । कदाचिच्च मुहूर्तमानं दिनार्धं वाऽहं ज्ञानविषयिकी जागृति वहामि, यथा कश्चन स्वचित्ते कदाचिद् जीवनविषयिकी जागृति धारयति । तथा ममाऽपि बहवो विचारा आसन्नेव किन्तु तेषां भवदग्रे निरूपणं मत्कृते कष्टदं स्यात् । अथाऽप्येको विचारो मां सदाऽपि आकृषति गोविन्द !, यत् - प्रज्ञायाः सङ्क्रमणं सर्वथाऽशक्यमस्ति । यदि कश्चन प्राज्ञो जनो प्रज्ञां कस्मैचिद् वितरीतुं प्रयतते तदा तदज्ञानमेव मे प्रतिभाति' । 'किं भवान् परिहासं करोति वा ?' 'नैव भोः ! । मया यदाविष्कृतमस्ति तदेव भवते कथयन्नस्मि । ज्ञानं हि परस्मै दातुं परस्मिन् वा सङ्क्रमयितुं शक्यं, न तु प्रज्ञा । कश्चन तां समासादयेत्, तया स्थिरो भवेत्, तामुपयुज्य च चमत्कारानपि कुर्यात्, किन्तु तस्या वितरणं सङ्क्रमणं शिक्षणं वा कर्तुं तु सर्वथाऽशक्यम् । अहं तारुण्य एवैतस्मिन्नर्थे साशङ्क आसम् । अनेनैव च कारणेनाऽहं गुरूणां सान्निध्ये स्थिरो नैव जातः । अन्योऽप्येको विचारोऽस्ति गोविन्द ! यं भवान् परिहासं मूर्खत्वं वा मन्येत । स चैवमस्ति – प्रत्येकं सत्यस्य विपर्ययोऽपि समानतयैव सत्यमेवाऽस्ति । उदाहरणार्थ, १५७ Page #165 -------------------------------------------------------------------------- ________________ यदि किञ्चित् सत्यमेकपक्षीयं स्यात् तदैव तत् शब्दैरभिव्यज्येताऽऽव्रियेत वा । प्रत्येकं विचाररूपं शब्दैश्चाऽभिव्यज्यमानं वस्तु एकदेशीयं सत्यमर्धसत्यम् । तस्मिन् साकल्यं पूर्णत्वमैक्यं वा नैवाऽस्ति । यथा, यदा महात्मा बुद्धो जगद्विषयकं तथ्यमुपदिष्टवांस्तदा तेन तत् संसारो निर्वाणं चेति द्विधा विभक्तव्यमापतितं; एवं सत्यं भ्रान्तिश्च बन्धनं मुक्तिश्च इत्यादि । अन्यथा च नैतच्छक्यमस्ति । उपदेष्टृणां कृतेऽन्या काऽपि पद्धतिरेव नाऽस्ति । एवं सत्यपि जगदिदं अस्मदन्तः अस्मत्परितश्च वर्तमानं - हि न कदाऽप्येकदेशीयमेकाङ्गीयं वा भवति । कश्चनाऽपि मनुष्यः किञ्चित् कृत्यं वाऽपि च सर्वथा संसाररूपं निर्वाणरूपं चवा नैव भवति । कोऽपि जन: सर्वथा पापी सर्वथा च सज्जनो वा नैव भवति । किन्तु अस्माकं यदेवं प्रतिभाति तत्र “काल: सद् द्रव्यमस्ती’ति भ्रम एव कारणम् । कालस्तु सद्द्रव्यं नास्त्येव गोविन्द ! | अहं बहुश एतदनुभूतवानस्मि । एवं च यदि काल एव सत् नाऽस्ति तदा जगतः शाश्वततत्त्वस्य च मध्ये, दुःखस्य आनन्दस्य च मध्ये, पुण्यस्य पापस्य च मध्ये या भेदरेखा दृश्यते सा केवलं भ्रम एवाऽस्ति' । I 'एतत् कथं स्यात् ?' गोविन्दः ससम्भ्रमं पृष्टवान् । 'पश्यतु मित्र ! अहं पापी अस्मि, भवान् पापी अस्ति । किन्तु कदाचित् पापी ब्रह्मस्वरूपो भविष्यति, निर्वाणं प्राप्स्यति, बुद्धो भविष्यत्येव । अथाऽत्र यदिदं 'कदाचित्' इत्यस्ति तद् भ्रम एव, तद्धि केवलमुपमानमेवाऽस्ति । पापी हि बुद्धत्वप्राप्तेर्मार्गे नैव वर्तते, उत्क्रमणार्थं च नैव प्रयतते कदाऽपि । किन्तु वयमन्यरीत्या चिन्तयितुमालोचयितुं वा नैव प्रभवामः । वस्तुतः सम्भाव्यतारूपो बुद्धः पापिन्यपि विद्यत एव । तस्य भविष्यत् तत्राऽस्त्येव । शक्यस्वरूपोऽयं बुद्धः सुषुप्तो बुद्धस्त्वयि मयि I १५८ — Page #166 -------------------------------------------------------------------------- ________________ तस्मिन् सर्वस्मिंश्चाऽपि प्रतिपत्तव्य एव भवति । गोविन्द ! जगदिदं हि नाऽस्त्यपूर्णं नाऽपि च दीर्घपथेन पूर्णत्वं प्रति उत्क्रान्तिमत् । तत् तु प्रतिक्षणं सर्वथा पूर्णमेवाऽस्ति । प्रत्येकं पापमन्तर्निहितपुण्यबीजमेव भवति, प्रत्येकं शिशर्वार्धक्यसम्भावनां स्वस्मिन् धारयत्येव, प्रत्येकं स्तनन्धये मृत्योः शक्यता निहिताऽस्त्येव, प्रत्येकं मरणासन्नो स्वस्मिन् शाश्वततत्त्वं धारयत्येव । इतरो जनो मार्गे कियटूरे वर्तते इति ज्ञातुं न केनाऽपि शक्यते । यतः, कस्मिंश्चिल्लुण्टाके द्यूतकारे वाऽपि बुद्धो वर्तेत, कस्मिंश्चिच्च ब्राह्मणेऽपि लुण्टाको विद्येताऽपि । गाढध्यानवेलायां समाधौ वैव कालातिक्रमणं शक्यं, युगपदेव भूत-वर्तमानानागतं च द्रष्टुं शक्यं; ततश्च प्रत्येकं वस्तु पूर्णमेव, शुभमेव, ब्रह्मैव । अतो ममेदं प्रतिभाति यद् अस्तित्वयुतं प्रत्येकं वस्तु शुभमेवाऽस्ति - मरणं जीवनं चाऽपि, पापं च पुण्यं च, वैदुष्यं च मूर्खत्वं चाऽपि । प्रत्येकं वस्तु यथावस्थितं सुन्दरमेवाऽस्ति, प्रत्येकं वस्तु ममाऽनुमति ममाऽभ्युपगमं चैवाऽपेक्षते, मम स्नेहं सद्भावमेव च प्रतीक्षते । यद्येतत् स्यात् तदा मम सर्वत्र-सर्वदा च शुभमेव भवति, न किञ्चिदपि च मामुपद्रोतुं पीडयितुं वा समर्थं भवति । ___अहं मे शरीरादात्मनश्च सकाशात् बढेव शिक्षितवान् यथा - मया पापं कर्तव्यमनिवार्यमासीत्, कामासक्तिमत्कृते आवश्यक्यासीत्, धन-वैभवप्राप्त्यर्थं मया प्रयतनीयमासीत्, निर्वेदो निराशायाश्च परिसीमा, तत्प्रतीकारकरणं यया रीत्या विस्मरेयं, सर्वस्याऽपि जगतः प्रेम कर्तुं शिक्षेयं, केनचित् काल्पनिकतया पूर्णेन जगता तस्य तोलनं च न कुर्यामहं किन्तु तत् यथावत् स्वीकुर्यां, तस्मिन् स्निह्येयं, अहमपि च तस्यैवांऽशोऽस्मि - इत्येतदर्थं प्रमुदितो भवेयं, तया रीत्या मयाऽनुभवितव्यैवाऽऽसीत् । गोविन्द ! एते एतादृशाश्चाऽन्ये विचारा मम मस्तिष्के १५९ Page #167 -------------------------------------------------------------------------- ________________ सन्ति' । ततः किञ्चिदानम्य सिद्धार्थेनैकः पाषाणखण्डो गृहीतो गोविन्दस्य च दर्शयित्वा कथितं - ‘पश्यतु, अयमेकः पाषाणखण्डोऽस्ति, कियच्चित्कालानन्तरं ह्येष उर्वरामृत्तिकारूपेण परिणतो भविष्यति ततश्च वृक्षरूपेण पशुरूपेण मनुष्यरूपेणाऽपि वा परिणति प्राप्स्यति कदाचित् । पूर्वं तु मया पाषाणखण्डं दृष्ट्वा कदाचिदेवं कथितं स्यात् – एष तु केवलं कश्चन प्रस्तरखण्डः, अस्य न किमपि मूल्यं महत्त्वं वा, मायास्वरूपस्य जगतोऽश एषः, किन्तु परावर्तमाने जगति कदाचिदेष मनुष्यत्वं ब्रह्मत्वं चाऽपि प्राप्तुं समर्थः, अत एव चाऽस्य महत्त्वमस्तीति । किन्त्वधुनाऽहमेवं चिन्तयामि यदेष पाषाणखण्डः पाषाणस्त्वस्त्येव, एष पशुर्देवो बुद्धश्चाऽप्यस्ति । अहं तमेतदर्थं नैव पूजयामि प्रीणामि वा यदेष पुरा कश्चनाऽऽसीत् भविष्यति चाऽन्यविधः कश्चन भविष्यति, किन्तु स पूर्वमेव सर्वरूपोऽस्त्येव सर्वकालं चाऽपि सर्वरूपोऽस्ति । अहमेनं प्रीणामि यतः अयं प्रस्तरोऽस्ति, अद्याऽधुना च स मे प्रस्तरयाऽध्यक्षीभवन्नस्ति । तस्य प्रत्येकं रेखाः, सूक्ष्माण्यङ्कनानि, लघूनि छिद्राणि, पीतधूसरादिवर्णाः, काठिन्यं, तदभिघातशब्दः, तस्य शुष्कत्वं क्लिन्नत्वं वा चेति सर्वत्र किञ्चिन्मूल्यवत्ता सार्थकता च विद्यत एव । तादृशाः पाषाणखण्डा भवन्ति ये तैलमया इव फेनकमिव वा भासन्ते, अथवा पर्णवत् रेणुवद् वाऽपि भासन्ते, प्रत्येकमेते भिन्न-भिन्नाः, स्वकीयपद्धत्यैव च ओङ्कारमुपासते, प्रत्येकमपि च ब्रह्मण एव स्वरूपाणि । किन्तु समकालमेव एते प्रस्तरस्वरूपा अपि सन्त्येव, भवन्तु नाम तैलमया फेनकसमा वा । एतदेव मां प्रीणयति अद्भुतं च प्रतिभाति, उपासनाहँ च भासते । किन्त्वेतद्विषयेऽहमधिकं न किञ्चिद् वक्ष्ये । यतः शब्दैविचाराणामभिव्यक्तिः १६० Page #168 -------------------------------------------------------------------------- ________________ सम्यङ् नैव जायते । यदा वयं विचाराणामभिव्यक्तिं कुर्याम तदा सर्वदा ते किञ्चिदिव परावर्तन्ते, किञ्चिद् विकृता भवन्ति स्वल्पतया मूर्खता अपि भवति । एवं सत्यपि, एकस्य जनस्य यन्मूल्यवत् प्रज्ञापरं च भासते तदेवेतरस्याऽसम्बद्धमनर्थकं च भासते इत्येतदपि मां प्रीणयति समुचितं च भासते' । गोविन्दः शान्त्या शृण्वन्नासीत् । किञ्चिन्मौनानन्तरं तेन स्खलद्वाचा पृष्टं 'किमर्थं भवान् मे पाषाणविषयकं कथनं कथितवान् ?' - 'अहो ! तत् त्वहं विना कञ्चनाऽऽशयमेव कथितवान् । किन्तु कदाचित् तदेवमपि ज्ञापयति यन्मे - पाषाणो, नदी, सर्वाणि चाऽन्यानि वस्तूनि यानि वयं पश्यामः यतश्च वयं किञ्चित् शिक्षामहे - तत् सर्वमपि रोचते । अहं पाषाणमपि प्रेमविषयं कर्तुं शक्नोमि, वृक्षं वल्कलखण्डं वाऽपि च । एतानि सर्वाण्यपि वस्तून्येव, तानि च कश्चन प्रीणात्येव । किन्तु शब्दानहं नैव प्रीणीयाम् । ततश्चोपदेशा मत्कृते न किञ्चिदुपयोगिनः, यतस्तेषु नास्ति काठिन्यं, न मार्दवं नैव वर्णाः, नाऽपि कोणाः, न हि गन्ध:, न च स्वाद: । ते हि अन्यत् किञ्चिदप्यभूत्वा केवलं शब्दा एव सन्ति । एते शब्दा एव भवन्तं शान्तिप्रापणे बाधकाः स्युः कदाचित् । अस्मिन् जगति अत्यधिकाः शब्दाः सन्ति, मोक्षार्थं गुणार्थं चापि बहुशो बहवः शब्दाः प्रयुज्यन्ते, अतो मन्येऽहं यत् संसारो निर्वाणं चेत्यादयः केवलं शब्दा एव गोविन्द ! | निर्वाणं नाम न किञ्चित् सत् तत्त्वं, परन्तु केवलं शब्द एव' । गोविन्देनोक्तं – ‘भोः ! निर्वाणं न केवलं शब्दः, तत् तु विचारोऽस्ति मित्र !' | सिद्धार्थोऽनुवर्तितवान् – 'भवतु स विचारः, किन्तु मया स्वीकर्तव्यमेवैतद् यन्मम दृष्टौ विचारस्य शब्दस्य च मध्ये १६१ Page #169 -------------------------------------------------------------------------- ________________ नाऽस्ति भूयान् भेदः । स्पष्टं वदामि चेद् अहं विचारान् महत्त्वयुतान् नैव मन्ये । उदाहरणार्थं कथयामि – अत्र नाविकरूपेणैको मनुष्य आसीद् यो हि मे पूर्वगामी गुरुश्चाऽऽसीत् । स एकः पवित्रो मानव आसीत् यो वर्षाणि यावत् केवलं नद्यामेव विश्वसितवान् नाऽन्यत्र कुत्रचित् । नद्या ध्वनिस्तेन सह भाषते इति स लक्षितवान् । स तत एव शिक्षितवान्, ध्वनिश्च तमध्यापितवान् पाठितवांश्च । नदी हि तस्य कृते भगवानासीत् । बहूनि वर्षाणि यावदेतदपि नैव ज्ञातवान् स यत् प्रत्येकं वायुः, प्रत्येकं मेघः, प्रत्येकं पक्षी, प्रत्येकं भ्रमरश्चाऽपि समानतयैव दिव्या ज्ञानवन्तो नदीवच्च बोधदानाय समर्था एव । किन्तु यदाऽयं पवित्रो जनो वनं गतवांस्तदा स सर्वमपि ज्ञातवान्, विनैव गुरुं पुस्तकानि च स भवत्तो मत्तश्चाऽप्यधिकतया ज्ञातवान्, यतः स नद्यां पूर्णतया विश्वसिति स्म' । गोविन्देन कथितं – 'किन्तु भवान् यं पदार्थं वस्तुरूपेण जानाति स किं वास्तविकस्तात्त्विकश्च ? किं स मायाया भ्रामकं रूपं नास्ति किल ? केवलं प्रतिबिम्बमाभासो वा ? भवतः पाषाणो भवतो वृक्षश्च – किमेतौ वास्तविकौ वा ?' 'एतदपि नास्त्येव मत्कृतेऽधिकक्लेशकरं ननु । यद्येते आभासरूपाः स्युस्तदाऽहमपि तादृगेव, ततश्चैतेषां मम च स्वभावः सदृश एव खलु ! एतदेव तत्त्वं तान् प्रेमार्हान् उपास्यांश्च करोति । एतदर्थमेव चाऽहं तान् प्रीणामि । ममैक: सिद्धान्तोऽस्ति यं ज्ञात्वा भवान् हासमपि करिष्यति । गोविन्द ! ममैवं भाति यदत्र जगति प्रेमैव सर्वथोत्कृष्टः पदार्थः । महतां चिन्तकानां कृते तु जगतः परीक्षणं, तद्व्याख्यानं तस्य तिरस्करणं च महत्त्वयुतं प्रतिभायात् किन्तु मम मतेन तु जगतः प्रेमकरणमेव महत्त्वयुतं न पुनस्तिरस्करणम् । परस्परमप्यस्माकं द्वेषकरणं नैवोचितं किन्तु १६२ Page #170 -------------------------------------------------------------------------- ________________ जगतः स्वेषां, सर्वेषामपि च जीवानां प्रेम-स्नेहादरैः स्वीकरणार्थमस्माकं समर्थीभवनमेवोचितं महत्त्वयुतं च' । 'अहमवबुध्ये तत्, किन्तु भगवता बुद्धेनेदमेव भ्रमो माया वा कथितम् । स कारुण्यं धैर्य क्षमां सहानुभूति - सर्वमप्येतदुपदिष्टवान् न किन्तु प्रेम । सोऽस्माकं जागतिकप्रेमबन्धने पतनान्निषेधितवान्।' मधुरस्मितं कृत्वा सिद्धार्थेनोक्तं – 'गोविन्द ! अहं जानाम्येव तत् । तथा वयं शब्दानामर्थानां च विसंवादे कथं प्रवृत्ताः स्मस्तदप्युपलभ्यतेऽत्र । अहमेतत् प्रत्यादेष्टुं नैवेच्छामि यन्मे प्रेमविषयकाः शब्दा गौतमस्योपदेशेन सह स्पष्टतया विसङ्गताः सन्तीति । किन्त्वेतत्कारणादेव शब्देषु नैवाऽधिकं विश्वसिमि, यतोऽहं जानामि यदेषा विसङ्गतिर्हि केवलं भ्रमरूपैवाऽस्ति, अहं च गौतमेन सह सर्वथैक्यमनुभवामि । यो जगतोऽसारतां क्षणभङ्गुरतां च सम्यक्तयाऽवबुद्धवान्, अथाऽपि यः सर्वेषु प्राणिषु स्त्रिान् तानुपदेष्टमुपकर्तुं च स्वीयं समग्रमपि जीवनं व्ययितवान् समर्पितवांश्च स कथमिव प्रेमपदार्थं नैव जानीयाद् न स्वीकुर्याद् वा? अस्य महागुरोरिदमेव कृत्यं तच्छब्देभ्योऽप्यधिकं महत्त्वपूर्णं, तस्य कार्याणि जीवनं च तदभिप्रायेऽप्याधिक्येन महिमान्वितानि । अहं तं केवलं शब्दानां विचाराणां च कृते महात्मतया नैव सम्मानयामि किन्तु तस्य जीवनस्योत्तमकार्यजातस्य च कृते' । ततो द्वावपि वृद्धजनौ चिराय मौनमेवोपविष्टौ । ततो गोविन्देन गन्तव्यमासीदतः स उक्तवान् – “सिद्धार्थ ! भवता स्वविचारा यत् प्रकाशितास्तदर्थं नितरां कृतज्ञोऽस्मि । तेषु केचन विचाराः किञ्चिदिव विलक्षणाः सन्ति, अहं शीघ्रतया तानाकलयितुमसमर्थोऽस्मि । तथाऽपि, भवतः उपकारं मन्ये, भवतो जीवनं शान्तिमयं भवेदित्याशासे च' । १६३ Page #171 -------------------------------------------------------------------------- ________________ स यद्यप्येवं वदन्नासीत् तथाऽप्यन्तस्तले तु सोऽचिन्तयद् यत् – सिद्धार्थो हि विचित्रो जनो, विचित्रांश्च विचारानभिव्यनक्ति। तस्य कल्पना भ्रान्ता इव लक्ष्यन्ते । महात्मनो बुद्धस्य सिद्धान्तास्तु ततः कियन्तो भिन्नाः सन्ति खलु ! ते हि स्पष्टाः सरलाः सुबोधाश्च सन्ति, तेषु नास्ति किञ्चिद् विलक्षणमयुक्तिकमुपहासयोग्यं वा । एवं सत्यपि सिद्धार्थस्य हस्तौ, पादौ, नेत्रे, ध्रुवौ, श्वसनं, स्मितं, प्रणतिः, गतिश्चेति सर्वमपि तस्य विचारेभ्यो भिन्नरूपेण मां प्रभावितं करोति । भगवतो गौतमबुद्धस्य निर्वाणानन्तरं सिद्धार्थेन विना नाऽहं तादृशमेकमपि जनं न प्रत्यक्षीकृतवान् यं दृष्ट्वा 'अयं सर्वथा पवित्रो जनः' इति प्रतीतिः स्यात् । भवन्तु नाम तस्य कल्पना विचित्राः, स्युर्नाम च तस्य वचांसि निरर्थकानि, किन्तु तस्य दृष्टिस्तस्य च हस्तः, तस्य त्वक् केशाश्चेति सर्वमपि पवित्रता, शान्ति, प्रसन्नतां, सौजन्यं, साधुतां चैव प्रसारयति; एतच्च मयाऽस्माकं महागुरोनिर्वाणानन्तरं न कुत्रचिदपि जने दृष्टमस्ति' । ___ एवं विचारयन् गोविन्दः संशयितचित्तः सन्नेव सिद्धार्थं प्रणतवान्, मौनेन शान्ततयोपविष्टं सिद्धार्थं स भावपूर्वकं नतः । ततस्तेनोक्तं – 'सिद्धार्थ ! आवां वार्धक्यग्रस्तौ जातावधुना। इतः परं जीवने आवां न कदाचिदपि परस्परं द्रक्ष्यावः । मम प्रियमित्र ! भवता शान्तिः प्राप्ताऽस्तीति साक्षात् विलोकयामि, तथैवाऽनुभवाम्यपि यन्मया सा नैव प्राप्ताऽस्ति । समादरणीयमित्र ! कृपया मां शब्दमेकं वा कथयतु यमहं सम्यगवबोद्धं शक्नुयाम् । सिद्धार्थ ! तादृशं किञ्चन मे ददातु यन्मम पथ्युपयोगि स्यात्, यतो मे पन्था हि प्रायः कठिनस्तमसाऽऽवृतश्चाऽस्ति' । निःशब्दः सिद्धार्थस्तं मृदुना प्रशान्तेन स्मितेन सह विलोकितवान् । गोविन्दः स्थिरतया तद्वदनमेव पश्यन्नासीत् - १६४ Page #172 -------------------------------------------------------------------------- ________________ सौत्सुक्यं सस्पृहं च । दुःखसहनं, निरन्तरं सत्यान्वेषणस्य श्रान्तिनिरन्तरा च निष्फलता तस्य दृष्टौ संलक्ष्यते स्म ।। सिद्धार्थस्तल्लक्षित्वा स्मयमान एव तत्कर्णेऽत्यन्तं मन्दतयर्जुतया च कथितवान् – 'इतोऽपि किञ्चिन्निकटमायातु, इतोऽपि निकटम् । इदानीं मम ललाटे चुम्बनं करोतु' । एतन्निशम्य गोविन्दो यद्यपि किञ्चिद्विस्मितोऽभवत् तथाऽपि केनचिदकथ्येन संवेदनेन प्रेमाधिक्येन च वशीभूतः स तदादेशमनुसृत्य प्रवीभूतः सन् समीपमागतः स्वीयाधरद्वयेन च तस्य ललाटं संस्पृष्टवान् । संस्पृष्टमात्र एव तत्र किञ्चिदद्भुतं संवेदनं तेनाऽनुभूतम् । इतोऽपि तन्मानसे सिद्धार्थस्य विचित्राः शब्दाः प्रतिफलन्त आसन्, इतोऽपि स कालस्य कल्पनामपास्तुं निरर्थकतया प्रयतमान आसीत्, संसार-निर्वाणयोरैक्यमवगन्तुं यत्नं कुर्वन्नासीत्, इतोऽपि च तन्मानसे मित्रस्य शब्दानधिकृत्य प्रकटितोऽनादरस्तं प्रति जातेन दुर्निवारप्रेम्णा पूज्यभावेन च सह विवदन्नासीत् तावतैवैतत् संवेदनं घटितम् ।। तस्येदानीं स्वमित्रस्य सिद्धार्थस्य वदनं नैव दृश्यते स्म, प्रत्युताऽन्यान्येव वदनानि स दृष्टवान्, बहूनि वदनानि, दीधैंकाऽऽवलिरेव वदनानां, निरन्तरो वदनप्रवाहः - शतशः सहस्रशो वदनानि, यानि क्षणं स्थित्वाऽदृश्यीभवन्ति स्म, तथाऽपि च तत्रैव सन्तीति प्रतिभासमानानि आसन्, यानि च प्रतिक्षणं स्वयमेव परावर्तमानानि नावीन्यं च प्राप्यमाणानि आसन्, तथाऽपि सर्वाणि सिद्धार्थसत्कान्येवाऽऽसन् । स कस्याश्चित् शफर्याऽतिमहत्तरया व्यादत्तं मुखं दृष्टवान्, कस्यचिन्मरणोन्मुखस्य निष्प्रभलोचनस्य मीनस्य मुखं दृष्टवान् । स कस्यचन नवजातस्य शिशो रक्तवर्णं वलीपूर्णं रोदनप्रवणं च मुखं विलोकितवान् । मनुजशरीरं छुरिकया प्रहरतः कस्यचित् हिंसकस्य मुखं स १६५ Page #173 -------------------------------------------------------------------------- ________________ दृष्टवान्, समकालमेव च स तं हिंसकं मस्तकमानम्य जान्वोरुपविष्टं वधकेन च च्छिद्यमानमस्तकं दृष्टवान् । स कामकेलिरतानां स्त्रीपुरुषाणां शरीराणि - विविधमुद्रास्थितानि दृष्टवान् । स स्थिराणि शीतलानि शून्यानि विस्तीर्णानि च शवानि दृष्टवान् । स पशूनां, शूकराणां, मकराणां, करिणां, वृषभाणां, पक्षिणां च मस्तकानि दृष्टवान् । स कृष्णमग्नि च दृष्टवान् । स एतान् आकारान्, वदनानि चैतानि परस्परं सहस्रधा सम्बद्धानि, अन्योन्यं साहाय्यकराणि, स्निह्यमानानि, द्वेषकराणि विनाशकराणि च दृष्टवान् । प्रत्येकमेतानि मरणशीलानि, उत्कटानि पीडाकराणि च क्षणभङ्गुरत्वोदाहरणानि आसन् । एवंस्थितेऽपि तेषामन्यतमदपि नैवाऽम्रियताऽनश्यत वा, केवलं तानि परावर्तितानि, पुनर्जन्म प्राप्तानि, निरन्तरं च नूतनं वदनं धारयन्ति आसन् – केवलं काल एव नव-पुराणयोर्वदनयोर्मध्येऽतिष्ठत । एते सर्वेऽपि आकारा वदनानि च विरमन्ति स्म, प्रवहन्ति स्म, पुनर्जायन्ते स्म, अतीतं तरन्ति स्म, परस्परेण च संयुज्यन्ते स्म । तथैतेषां सर्वेषा - मप्युपरिष्टात् सातत्येन किञ्चित् सूक्ष्ममवास्तविकमप्यस्तित्वमयं, श्लक्ष्णकाचवद्, हिमवत्, पारदर्शकचर्मवत्, कवचवत्, जलावरणवत् वा विस्तृताकारं दष्टवान्, तच्चाऽऽवरणमासीत् सिद्धार्थस्य वदनं – स्मितपूर्णं वदनं, यत् स्वीयौष्ठाभ्यां गोविन्दस्तदा स्पृशन्नासीत् । गोविन्देन दृष्टं यदिदमावरणतुल्यं स्मितं, प्रवहमानानामाकाराणामैक्यतुल्यं स्मितं, सहस्रशो जन्म-मरणानां समकालीनत्वरूपं स्मितं सिद्धार्थस्य स्मितमिदं सम्पूर्णतया तथैव मृदु, प्रशान्तं, गहनं, प्रसन्नं, सोपहासं धीरं, सहस्रपुटयुतं चाऽऽसीद् यथा भगवतो गौतमबुद्धस्याऽऽसीत्, यच्च स सहस्रशः समादरेण विलोकितवानासीत् । यथा स पूर्णत्वं प्राप्तो भगवान् स्मयति स्म तथैवेदमपि सिद्धार्थस्य स्मितमासीत् । १६६ - Page #174 -------------------------------------------------------------------------- ________________ कालोऽस्ति न वेत्यतः परं सर्वथाऽजानानः, इदमपरोक्षं ज्ञानं क्षणमात्रस्थितिकमुत वर्षशतं यावत् स्थितमित्यप्यनवगच्छन्, अयं सिद्धार्थोऽस्ति किं वा गौतमोऽस्तीत्यनवबुध्यमानः, स्वमन्यांश्च प्रति सर्वथाऽनवधानः, दिव्यानुग्रहशरेण गाढं विद्धस्ततश्चाऽवर्णनीयसुखमग्नः, गहनानन्दमग्न उदात्तभावश्च गोविन्दः सिद्धार्थस्य प्रशान्तवदनस्य पुरतो बहुकालं यावत् तथैवाऽवनम्य स्थितवान्, यत् स इदमिदानीमेव चुम्बितवानासीत्, यच्चाऽतीतानागतानां सर्वेषामप्याकाराणामेकमास्पदं जातमासीत् । यदा चैते सहस्रशः आकारास्तान् प्रतिबिम्बयंश्चाऽयं सहस्रपुटो दर्पणो विलीना जातास्तदाऽपि तस्य मुखमुद्रा तु तथैव विलसन्ती आसीत् । स प्रशान्तं, मृदु, सोपहासं, सर्वथा च भगवतो बुद्धस्य सदृशं स्मितं कुर्वन्नासीत् ।। गोविन्दस्तं प्रति प्रणतिं कृतवान् । तस्य वृद्धे नयने मन्दमन्दमनियन्त्र्याणि अश्रूणि स्रवतः स्म । स दिव्यप्रेमानुभूत्या विनयपूर्णादरभावेन चाऽऽक्रान्तोऽभवत् । स भूमौ शिरः स्थापयित्वा सर्वथा स्थिरतयोपविष्टस्य सिद्धार्थस्य पुरतो वन्दनं कृतवान् – यस्य स्मितं, तस्य जीवने यत्र कुत्राऽपि तेन प्रेमानुभूतिः कृताऽऽसीत्, यत्किमपि च मूल्यवत् पवित्रं चाऽऽसीत्, तत् सर्वमपि स्मारितवत् । १६७ Page #175 -------------------------------------------------------------------------- ________________ WO WIRE